सामग्रीं त्यजन्तु

विचारसागरः — चतुर्थस्तरङ्गः — आवर्तः २०५ – अनुमानप्रमाणम्

आवर्तः २०५ – अनुमानप्रमाणम्

*२ कणादसुगतमतानुसारिणो३ द्वितीयमनुमानमपि प्रमाणत्वेनाङ्गीकुर्वन्ति। प्रत्यक्षस्यैकस्य प्रमाणत्वाङ्गीकारे तृप्तिमिच्छतो भोजने प्रवृत्तिर्न स्यात्; भाविभोजने तृप्तिनिरूपितहेतुत्वस्य प्रत्यक्षप्रमाणजन्यप्रत्यक्षज्ञानाभावात्। अतः 'आगामिभोजनं तृप्तिकारणम्, भोजनत्वात्, पूर्वानुभूतभोजनवत्' इत्यनुमानेन पूर्वभोजनेऽनुभूतं यत्तृप्तिहेतुत्वं तद्भाविभोजनेऽपि ज्ञात्वा तृप्तिकामो भोजने प्रवर्तत इति वाच्यम्। तस्मादनुमानमपि प्रमाणम्। इत्थं कणादसुगतमतानुसारिणः प्रत्यक्षमनुमानं चेति द्वयमपि प्रमाणत्वेनाङ्गीकुर्वन्ति।

ग्रन्थकारटिप्पणी

२. अयमेव वैशेषिकशास्त्रकर्ता। अयं कणभुगिति चोच्यते।

३. सुगतः = बुद्धः।