सामग्रीं त्यजन्तु

विचारसागरः — चतुर्थस्तरङ्गः — आवर्तः १९६ – अतिहर्षस्वरूपवर्णनम्

आवर्तः १९६ – अतिहर्षस्वरूपवर्णनम्

हे शिष्य। 'अहं अद्वितीयब्रह्मैवास्मि' इत्येवं निर्विचिकित्सं स्वात्मस्वरूपसाक्षात्काररूपं ज्ञानं यदा तव जायते तदा तव निरतिशयानन्दानुभवो भवत्येव। अयमेव महाहर्षः१ इत्युच्यते।

प्रदर्शिताः सप्तावस्थाश्चिदाभासस्यैव। 'अहं ब्रह्म' इति ज्ञानं पञ्चम्यामवस्थायामन्तर्गतं भवति।

ग्रन्थकारटिप्पणी

१. महाहर्षरूपोऽयमानन्दः पञ्चदश्यां तृप्तिदीपे विद्यारण्यमुनिभिः 'निरङ्कुशा तृप्तिः' इति व्यपदिष्टः। "साङ्कुशा विषयैस्तृप्तिरियं तृप्तिर्निरङ्कुशा" (२५२)। विषयानन्दस्तु सातिशयत्वादुत्तरोत्तरानन्देच्छां जनयतीति हेतोः 'साङ्कुशा' इत्युच्यते। आत्मानन्दस्तु स्वस्मादुत्कृष्टानन्दाभावान्निरङ्कुशो भवति।

दशमपुरुषाख्यायिकायां दशम आत्मानं विहायेतरान् नवैव पुरुषान् गणयन् स्वस्य दशमत्वं न जानातीति यत् तदेव अज्ञानम्। 'दशमो नास्ति न भाति' इत्येतद् आवरणम्। 'दशमो ममार' इति कल्पयित्वा रोदनं शोकः। अयमेव भ्रान्तिः विक्षेपः इति च कथ्यते। 'दशमो न मृतः, जीवति सः' इत्याप्तोक्त्या दशमसत्त्ववेदनं परोक्षज्ञानम्। 'त्वमेव दशमोऽसि' इति साक्षादुपदिष्टः सन् पुनरपि गणनसमये स्वात्मानं दशमत्वेन गणयित्वा आत्मानं दशमत्वेन जानातीति यत् तदेव अपरोक्षज्ञानम्। ईदृशादपरोक्षज्ञानाद्रोदननिवृत्तिरेव भ्रान्तिनाशः। स्वस्यैव दशमत्वज्ञानात् जायमानसन्तोषः अतिहर्षः। आस्ववस्थासु 'अज्ञानम्, आवरणम्, विक्षेपः' इतीमास्तिस्रोऽवस्था बन्धकारणानि भवन्ति। अवशिष्टास्त्ववस्थाश्चतस्रोऽपि मोक्षसाधनानि भवन्ति।