सामग्रीं त्यजन्तु

विचारसागरः — चतुर्थस्तरङ्गः — आवर्तः १७२ – आकाशस्येव चैतन्यस्यापि चतुर्विधो भेदः

आवर्तः १७२ – आकाशस्येव चैतन्यस्यापि चतुर्विधो भेदः

हे सोम्य। त्वत्सन्देहनिवर्तकविचाररूपमुपदेशं शृणु यथा एकस्यैवाकाशस्य (१) घटाकाशः, (२) जलाकाशः, (३) मेघाकाशः, (४) महाकाश इति चतुर्विधभेदोऽस्ति तथा एकस्यैव चैतन्यस्य (१) कूटस्थः, (२) जीवः, (३) ईश्वरः, (४) ब्रह्म चेति भेदचतुष्टयम् अस्ति। एषां स्वरूपं विचारपूर्वकं यदा सम्यग्विजानासि तदा त्वदीयसन्देहानां समाधानं त्वं स्वयमेव जानीयाः। अतस्तेषां स्वरूपं मयाभिधीयमानमवधारय। तदधिगमेन तव निःसंशयज्ञानोदयद्वारा जन्मादिदुःखं निःशेषं विनश्येत्।