सामग्रीं त्यजन्तु

विचारसागरः — चतुर्थस्तरङ्गः — आवर्तः १५० – रज्जुज्ञानेन सर्पनिवृत्तिर्न स्यादित्याक्षेपः

आवर्तः १५० – रज्जुज्ञानेन सर्पनिवृत्तिर्न स्यादित्याक्षेपः

ननु रज्ज्वादिज्ञानेन न सर्पादिर्निवर्तेत। मिथ्यावस्तुनो यदधिष्ठानम्, तज्ज्ञानेनैव मिथ्यावस्तु निवर्तेतेत्यद्वैतसिद्धान्तः। मिथ्याभूतसर्पाद्यधिष्ठानं तु रज्ज्वाद्युपहितचैतन्यमेव, न रज्ज्वादिरिति प्रागभिहितम्। तस्माद्रज्वादिज्ञानेन न सर्पादिनिवृत्तिर्भवेदिति चेत् —