सामग्रीं त्यजन्तु

विचारसागरः — चतुर्थस्तरङ्गः — आवर्तः १४७ – भ्रमस्थले सर्पज्ञानमप्यविद्यापरिणामः, सर्पतज्ज्ञानयोर्युगपदेवोत्पत्तिलयौ,

आवर्तः १४७ – भ्रमस्थले सर्पज्ञानमप्यविद्यापरिणामः, सर्पतज्ज्ञानयोर्युगपदेवोत्पत्तिलयौ,

यथा सर्पादिरविद्यापरिणामस्तथा तादृशसर्पादिज्ञानरूपवृत्तिरप्यविद्यापरिणाम एव न त्वन्तःकरणपरिणामः। अत एवाधिष्ठानरज्ज्वादिसाक्षात्कारेण आरोपितसर्पादिरिवारोपितसर्पादिज्ञानमपि बाध्यते। तस्यान्तःकरणपरिणामत्वे तु न बाधो युज्यते। अतः आरोपितसर्पादिवत् तज्ज्ञानमप्यविद्याकार्यत्वात् सदसद्विलक्षणमनिर्वचनीयं भवति। अपि त्वयं विशेषः – प्रातिभासिकसर्पादिः रज्ज्वाद्युपहिताधिष्ठानचैतन्यस्थतमोगुणप्रधानाविद्यांशपरिणामः। तद्विषयकवृत्तिज्ञानन्तु इदमाकारवृत्त्यभिव्यञ्जकसाक्षिचैतन्यस्थसत्त्वगुणप्रधानाविद्यांशपरिणाम इति विवेकः। रज्ज्वाद्युपहितचैतन्यस्थाविद्या यदा सर्पाद्याकारेण परिणमते, तदैव तद्वृत्त्युपहितसाक्षिचैतन्यस्थाप्यविद्या सर्पादिज्ञानाकारेण परिणमते येन कारणेन रज्ज्वाद्युपहितचैतन्यस्थाविद्यायां क्षोभो२ जायते तेनैव कारणेन साक्षिचैतन्यस्थाविद्यायामपि क्षोभो जायते। तस्माद्भ्रमस्थले सर्पादिविषयास्तज्ज्ञानानि च युगपदेवोत्पद्यन्ते, रज्ज्वाद्यधिष्ठानसाक्षात्कारेण युगपदेव प्रलीयन्ते च। इत्थं च भ्रमस्थले बाह्यचैतन्यस्थाविद्यांशः सर्पादिविषयोपादानकारणं भवति३। अन्तःसाक्षिचैतन्यस्थाविद्यांशः सर्पादिविषयकज्ञानरूपवृत्त्युपादानकारणं भवति। स्वप्ने त्वन्तःसाक्ष्याश्रयाविद्यागततमोगुणांशो विषयाकारेण परिणमते, तादृशाविद्यागतसत्त्वगुणांशस्तज्ज्ञानाकारेण परिणमते। अत एव स्वप्नेऽन्तःस्थाविद्यैव विषयतज्ज्ञानयोरुभयोरुपादानकारणं भवति। अनेनैव हेतुना बाह्यरज्जुसर्पादयः आन्तरस्वाप्निकपदार्थाश्च साक्षिभास्या इत्युच्यन्ते। अविद्यावृत्तिद्वारा यद्यत् साक्षी प्रकाशयति तत्तत् साक्षिभास्यमित्युच्यते।

ग्रन्थकारटिप्पणी

२. उपादानस्य कार्याभिमुखत्वं क्षोभः।

३. उदाहरणम् – यथा घटं प्रति मृदुपादानकारणम्। कुलालादिर्निमित्तकारणम्।