सामग्रीं त्यजन्तु

विचारसागरः — चतुर्थस्तरङ्गः — आवर्तः १३६ – संसारप्रतीतिर्मिथ्येति गुरोरुत्तरम्

आवर्तः १३६ – संसारप्रतीतिर्मिथ्येति गुरोरुत्तरम्

संसारप्रतीतिर्मिथ्येति गुरोरुत्तरम् जननमरणादिप्रवाहरूपं जगत् परमार्थतः कालत्रयेऽप्यसदपि, प्रत्यगात्मैव ब्रह्मेत्यजानतां केवलं मिथ्याभूतमवभासते। यथा स्वप्ने अनुभूयमानपदार्थाः, आकाशे नैल्यं, रज्जौ सर्पादयश्च परमार्थतः कालत्रयेऽपि असन्तोऽपि२ मिथ्यैवावभासन्ते, तद्वज्जगत् परमार्थतोऽसदपि मिथ्यारूपेणावभासते।

ग्रन्थकारटिप्पणी

२. अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते।
ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा॥ भा. पु. ३.२७.४॥

अविद्यमानोऽप्यवभासते द्वयो ध्यातुर्धिया स्वप्नमनोरथौ यथा।
तत्कर्म सङ्कल्पविकल्पकं मनो बुधो निरुन्ध्यादभयं ततः स्यात्॥ भा. पु. ११.२.३८॥
इति भागवते।

अस्ति प्रतीत्यवसरे न पुरा न पश्चात् आश्चर्यमेतदवभाति तथापि विश्वम्।
यद्वा किमद्भुतमिवेह महेन्द्रजालं मायाविकल्पितमपि प्रतिभासते हि॥३॥