विचारसागरः — चतुर्थस्तरङ्गः — आवर्तः १३४ – न कस्यापि संसारोऽस्तीति गुरोरुत्तरम्
मुखपृष्ठम् · ⬆ चतुर्थस्तरङ्गः · ← · →
आवर्तः १३४ – न कस्यापि संसारोऽस्तीति गुरोरुत्तरम्¶
हे शिष्य।
शृणु मे वचनम्, तेन ते सर्वसंशयनिवृत्तिः स्यात्। जननमरणादिसंसारदुःखं
न कुत्रचिदप्यस्ति। अनुभूयमानमपीदं दृश्यं जगत् कालत्रयेऽपि त्वयि मयि
अन्यत्र वा कुत्रचिदप्यणुमात्रमपि नास्त्येव। अत एवास्य जगतः अत्यन्तनाशः१
न कुत्रचिदपि संभवति। इति।
ग्रन्थकारटिप्पणी
१. यथा रज्जौ कल्पितसर्पस्य व्यावहारिकसत्तयाऽत्यन्ताभावोऽस्ति तथा ब्रह्मणि कल्पितस्य जगतः पारमार्थिकसत्तयात्यन्ताभावोऽस्ति। तथा च पारमार्थिकसत्तया जगतोऽत्यन्ताभाव एव तस्य नित्यनिवृत्तिरित्युच्यते।