सामग्रीं त्यजन्तु

विचारसागरः — चतुर्थस्तरङ्गः — आवर्तः १२५ – स्वगृहान्निर्गत्य त्रयाणां गुरूपसदनम्

आवर्तः १२५ – स्वगृहान्निर्गत्य त्रयाणां गुरूपसदनम्

एवं निर्णीय ते त्रयोऽपि पुत्रा मुमुक्षवः शुभसन्ततिरिति पितुर्नामान्वर्थीकुर्वन्तः सद्गुरुमन्वेष्टुं राजगृहान्निर्ययुः। अनेकदेशानटित्वान्ततस्ते गङ्गातटमेव प्राप्य तत्र विविक्ते देशेऽत्युन्नतशाखास्कन्धफलपलाशशालिभिर्वृक्षैर्निबिडिते कस्यचिद्वटतरोर्मूले चिन्मुद्रया१ जीवब्रह्मैक्यं स्वशिष्येभ्यो निर्दुष्टेभ्य२ उपदिशन्तं गुणातीतं श्रीसद्गुरुं ददृशुः। कैलासे महाभाण्डीरवटमूले सनकादिभ्यस्तत्त्वमुपदिशन्तं परमशिवं श्रीदक्षिणामूर्तिमिव ते तं विभाव्य, साष्टाङ्गं प्रणिपत्य, मोक्षेच्छया यथाविधि३ तं शरणं गतास्तन्निकटे षण्मासान् ब्रह्मचर्यमूषुः। ततः श्रीसद्गुरुः प्रसन्नो भूत्वा मधुरया गिरा केन प्रयोजनेनागता यूयम्, के यूयम्, कुतो वात्रागमनम् इति तान् पप्रच्छ। तदा तत्त्वदृष्टिर्भ्रात्रोरिङ्गितज्ञः साञ्जलिपुटः सविनयं प्रत्यब्रवीत्।

ग्रन्थकारटिप्पणी

१. अङ्गुष्ठतर्जनीयोगश्चिन्मुद्रेति कीर्त्यते। इयं भद्रामुद्रा, लोपामुद्रा, तर्कमुद्रा, ज्ञानमुद्रा चेति कीर्त्यते।

२. स्तेयम्, हिंसा, अब्रह्मचर्यमित्येते त्रयः शरीरदोषाः। अनृतम्, परनिन्दा, कटुभाषणम्, वृथालापः, इत्येते चत्वारो वाग्दोषाः। इच्छा, चिन्ता, बुद्धिमान्द्यमित्येते त्रयो मनोदोषाः। नृसिंहतापिन्युपनिषत्प्रसिद्धा एते दश दोषाः।

३. तृतीयतरङ्गोक्तविधानेन।