विचारसागरः — तृतीयस्तरङ्गः — आवर्तः १२१ – श्रीसद्गुरुलाभानन्तरं शिष्याचरणप्रकारः
आवर्तः १२१ – श्रीसद्गुरुलाभानन्तरं शिष्याचरणप्रकारः¶
निःश्रेयसार्थिना मुमुक्षुणा पूर्वोक्तप्रकारेण शरीरादीन् श्रीसद्गुरवे समर्प्य, तद्वसतावन्यत्र वा गुरोः समीपे वसता, दृढतरात्मापरोक्षसाक्षात्कारपर्यन्तं भिक्षाशिना च१ भाव्यम्। ताञ्च भिक्षां स्वातन्त्र्येण न भुञ्जीत, श्रीसद्गुरुसन्निधौ समर्पयेत्।
श्रीसद्गुरोरनुज्ञा स्याच्चेत् तदाश्नीयाद्भिक्षाम्। यदि गुरोः शिष्यभक्त्यतिशयपरीक्षणाय नानुमन्येत तदा तूष्णीमेवोपवसेत्। न चैकस्मिन्दिवसे द्विर्भिक्षार्थं
ग्रामं प्रविशेत्। ततः परेद्युर्यथाविधि भिक्षाचर्यं चरेत्। एवं गुरुं सेवमानो
न मनागपि मनोविकृतिमापद्येत। यदा चिरकालमेवं सेव्यमानो गुरुः प्रसीदति
तदा तत्समयं प्रतीक्ष्य स्वजिज्ञासां तस्मै निवेदयेत्।
ग्रन्थकारटिप्पणी
१. अयं च नियमो ब्रह्मचारिसंन्यासिनाम्, न गृहस्थस्य।
स्वामिन्नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ।
मामुद्धरात्मीयकटाक्षदृष्ट्या ऋज्व्यातिकारुण्यसुधाभिवृष्ट्या॥(वि० चू० ३७)
इत्यादिस्तुतिपूर्वकं प्रश्नेच्छां निवेदयेत्। यदि पृच्छेत्यनुमतिं दद्यात्तदा स्वसंशयो निवेदनीयः। शिष्यस्यानन्तजन्मान्तरार्जितपुण्यपुञ्जवशात् श्रीसद्गुरुः कृपया केवलं धनाद्यनपेक्षया यद्युपदिशेत्, तदोत्तमाधिकारिणस्तस्य निरतिशयकल्याणं जायेत। तत्रोत्तमोत्तमब्रह्मनिष्ठश्रीसद्गुरुसेवायाः फलं द्विविधम्; श्रीसद्गुरोर्निरतिशयप्रसादलाभः प्रथमं फलम्, द्वितीयं फलं तु कामक्रोधादिसर्वमलनिवृत्तिद्वारान्तःकरणशुद्धिः। एतद्द्वयमप्युत्तमाधिकारिणः शिष्यस्य सिद्धमेव भवति।
गुरवे यो मनोवाचौ कायार्थादि समर्प्य तम्।
सेवते भवति ब्रह्म प्रसादातिशयाद्गुरोः॥
यस्तु मनोवाक्कायादिकं श्रीसद्गुरवे समर्प्याहोरात्रं तं शुश्रूषते स हि ब्रह्मैव भवति। सद्गुरुश्चास्मै साहाय्यं करोति।
॥इति श्रीवासुदेवब्रह्मेन्द्रसरस्वतीविरचिते संस्कृतविचारसागरे गुरुशिष्यस्वरूपनिरूपणं नाम तृतीयस्तरङ्गः॥