विचारसागरः — तृतीयस्तरङ्गः — आवर्तः ११६ – गुरुसेवाक्रमः
मुखपृष्ठम् · ⬆ तृतीयस्तरङ्गः · ← · →
आवर्तः ११६ – गुरुसेवाक्रमः¶
श्रीसद्गुरुलाभोत्तरक्षणे तद्दर्शनमात्रात् साष्टाङ्गं१ नमस्कृत्य तच्चरणकमलरजांसि परिशुद्धतमानि स्वोत्तमाङ्गे धारयेत्।
ग्रन्थकारटिप्पणी
१. पद्भ्यां कराभ्यामूरुभ्यामुरसा शिरसा भुवि।
पतनं दीर्घतरुवत् प्रणामोऽष्टाङ्ग उच्यते॥
पद्भ्यां कराभ्यां जानुभ्यामुरसा शिरसा दृशा।
वचसा मनसा चैव प्रणामोऽष्टाङ्ग उच्यते॥
पश्चात् सद्गुरुप्रसादाद्बन्धमोचनाकाङ्क्षी तीव्रतरमुमुक्षुर्गुरुकुले ब्रह्मचारी वसेत्। तस्मै स्वशरीरमनोवाग्धनानि समर्पयेत्।