विचारसागरः — तृतीयस्तरङ्गः — आवर्तः ११० – गुरुलक्षणम्
मुखपृष्ठम् · ⬆ तृतीयस्तरङ्गः · ← · →
आवर्तः ११० – गुरुलक्षणम्¶
यः साङ्गवेदाध्यायी तदर्थज्ञो जीवब्रह्मैक्यविषयकदृढतरनिश्चयात्परिनिष्ठितात्मसाक्षात्कारवान् स एव गुरुः१।
ग्रन्थकारटिप्पणी
१. यथा स्वयं मार्गज्ञो मार्गोपदेशे समर्थस्तथा ब्रह्मस्वरूपज्ञ एव ब्रह्मोपदेशयोग्यो भवति।
न हि वेदाध्ययनवत्त्वमात्रेणात्मज्ञानशून्यो गुरुर्भवति। आत्मज्ञोऽपि वेदाध्ययनशून्यः,
स्वयं मुक्तोऽपि परोपदेशयोग्यगुरुर्न स्यात्; यतो जिज्ञासुशिष्यहृद्गतसन्देहनिवर्तनक्षमाणां युक्तीनां प्रतिभानं वेदाध्ययनशून्यस्य न जायते। सन्देहशून्यस्योत्तमसंस्कारवतश्चरमजन्मनो जिज्ञासोरुपदेशे समर्थोऽप्ययम्, साधारण्येन
सर्वमुमुक्षुजनोपदेशसामर्थ्याभावान्नाचार्यो भवितुमर्हति। तस्माद्वेदाध्ययनसम्पन्न आत्मज्ञश्चैवाचार्य इत्युच्यते। स हि शिष्यबुद्धिगतपञ्चविधभेदान् नानायुक्तिभिर्निवर्तयितुं२ समर्थः स्यात्।
ग्रन्थकारटिप्पणी
२. पञ्चभेदखण्डनयुक्तयः -
(१) घटाकाशमठाकाशभेदवत् जीवेश्वरभेदोऽविद्यामायारूपोपाधिजनितत्वात् कल्पितः।
(२) नानाघटाकाशभेदवत् जीवानां परस्परभेद आभाससहितान्तःकरणरूपोपाधिजनितत्वात् कल्पितः।
(३) जीवजडभेदः साभासान्तःकरणनिराभासनामरूपमायोपाधिजनितत्वात् कल्पितः।
(४) ईश्वरजडभेदः साभासमायानामरूपमायोपाधिजनितत्वात् कल्पितः।
(५) रज्ज्वारोपितसर्पदण्डादिभेदवत् जडानां परस्परभेदो नामरूपमायोपाधिजनितत्वात् कल्पितः।
ते च भेदाः (१) जीवेश्वरभेदः, (२)
जीवानां परस्परभेदः, (३) जीवजडभेदः, (४) ईश्वरजडभेदः, (५) जडानां
परस्परभेद इति। सर्वानेतान् भेदान् खण्डयितुं स एव समर्थः। भेदश्च भयहेतुः१।
ग्रन्थकारटिप्पणी
१. जननमरणात्मकं भयम्।
"उदरमन्तरं कुरुते" (तै० ब्र० ७) "द्वितीयाद्वै भयं भवति"
(बृ० १।४।२) इत्यादिश्रुतिभ्यः। तस्माद्भेदोऽवश्यं खण्डनीयः। उक्तलक्षण
एवाचार्यः स्वशिष्यं 'अविद्यादिसर्वमलशून्याद्वितीयब्रह्मैवाहमस्मि' इति साक्षादपरोक्षानुभववन्तं कर्तुं शक्नुयात्। तादृशसाक्षात्कारवानेव शिष्यः, 'सर्वोऽपि
संसारो दृश्यप्रपञ्चो द्वैतः स्वप्नादिवन्मयि चिन्मात्रे स्वाज्ञानवशान्मिथ्या प्रतिभासते' इति साक्षाज्जानीयात्। ईदृशाद्भुतदुर्दर्शस्वात्मतत्त्वोपदेष्टैव आचार्य
इत्युच्यते। संसारमहाग्राहग्रस्तं शिष्यं तन्मुखाज्जीवब्रह्माद्वैतोपदेशेन यो२ मोचयति
स एव गुरुः।
ग्रन्थकारटिप्पणी
२. श्रीवासिष्ठद्विविधभागवतसूतसंहितादिसकलेतिहासपुराणादिकेष्वद्वैतमेव प्रतिपाद्यते। तथाष्टोत्तरशतोपनिषत्स्वपि। अपि चानधिगताबाधितापूर्वत्वाच्चाद्वैतमेव शास्त्रार्थः।
किञ्च "बृह बृहि वृद्धौ" इति धातुर्वृद्धिमाचष्टे। सा च वृद्धिरत्र प्रतियोगिविशेषानुपादानान्निरतिशयैव विवक्षिता। सति तु वस्त्वन्तरे तेन परिच्छेदाद्वृद्धेर्निरतिशयत्वं भज्यते। तथा च वस्त्वन्तरकृतपरिच्छेदरहितमेव ब्रह्मशब्दवाच्यम्। देशकालयोरपि वस्तुत्वात् वस्तुमात्रस्य च ब्रह्मस्वरूपेऽध्यस्तत्वेन, वस्तुकृतपरिच्छेदनिरासेनैव ब्रह्मणि देशकालकृतपरिच्छेदनिरासो बोध्यः।
बहवो गुरवः सन्ति शिष्यवित्तापहारकाः।
दुर्लभोऽयं गुरुर्देवि शिष्यहृत्तापहारकः॥ (गु० गी० १६०)
इति स्मृतेः।