विचारसागरः — द्वितीयस्तरङ्गः — आवर्तः ८७ – तत्र समाधानम्
मुखपृष्ठम् · ⬆ द्वितीयस्तरङ्गः · ← · →
आवर्तः ८७ – तत्र समाधानम्¶
नैवायं साधुराक्षेपः। तथा हि, नष्टज्ञानकर्मादिकं यदि क्रमेणाध्यासस्वर्गनरकादिहेतुर्भवेत् तदा मृतकुलालनष्टदण्डचक्रादयोऽपि घटादिकार्यं जनयेयुः। यथा रज्जुसर्पाध्यासस्य व्यवहितपूर्वकालवर्ति सर्पज्ञानं कारणं, यथा च स्वर्गनरकादिप्राप्तेः व्यवहितपूर्वकालवर्तिशुभाशुभकर्माणि कारणानि, तथा घटस्यापि व्यवहितपूर्वकाले, इदानीं विनष्टकुलालदण्डचक्रादयोऽप्यभूवन्नेवेति तैरपि घटाद्युत्पद्येतैव। न तु तथा विनष्टैः कुलालादिभिः घट उत्पद्यमानो दृष्टः। तस्माद्व्यवहितपूर्वकालवर्ति कारणं न कार्यं जनयेत्, किन्त्वव्यवहितपूर्वकालवर्त्येव कारणं कार्योत्पादनक्षममिति युक्तम्।