सामग्रीं त्यजन्तु

विचारसागरः — द्वितीयस्तरङ्गः — आवर्तः ८५ – कारणस्य कार्याव्यवहितपूर्वकालवर्तित्वनियमात् संस्कार एवाध्यासहेतुः

आवर्तः ८५ – कारणस्य कार्याव्यवहितपूर्वकालवर्तित्वनियमात् संस्कार एवाध्यासहेतुः

वस्तुज्ञानमात्रमध्यासहेतुरिति तु न युक्तमेव, कारणस्य कार्याव्यवहितपूर्वकालवर्तित्वनियमात्। तथाहि – घटकारणदण्डचक्रादयो यथा नियमेन घटोत्पत्त्यव्यवहितपूर्वकालवर्तिनो भवन्ति, तथा वस्तुज्ञानमात्रस्याध्यासहेतुत्वे तेनापि नियमेनाध्यासाव्यवहितपूर्वकालवर्तिना भाव्यम्। न तु तथाऽस्ति, सर्पज्ञानात्परं मासानन्तरमपि१ रज्जौ सर्पाध्यासोत्पत्तिदर्शनात्। वस्तुज्ञानजन्यसंस्कारस्य हेतुत्वे तु न दोषः। सर्पज्ञानस्य मासात् पूर्वं नष्टत्वेऽपि तज्ज्ञानजन्यसंस्कारस्य रज्जौ सर्पाध्यासाव्यवहितपूर्वकालवर्तित्वात्। तस्मात् ज्ञानजन्यसंस्कार एवाध्यासहेतुः। न वस्तुज्ञानमात्रम्।

ग्रन्थकारटिप्पणी

१. मासेत्युपलक्षणमधिककालद्योतनार्थम्।