विचारसागरः — द्वितीयस्तरङ्गः — आवर्तः ६९ – द्वितीयतृतीयसामग्र्यभावः
मुखपृष्ठम् · ⬆ द्वितीयस्तरङ्गः · ← · →
आवर्तः ६९ – द्वितीयतृतीयसामग्र्यभावः¶
प्रमातृप्रमाणदोषावपि बन्धाध्यासकारणभावं न भजतः।
प्रमात्रादिनिखिलप्रपञ्चो ऽध्यासरूप इति,
स चाध्यास एव बन्ध इति च वेदान्तसिद्धान्तः४।
तथा च बन्धाध्यासात् पूर्वं
प्रमातृप्रमाणस्वरूपस्यैवासिद्धेस्तद्गतदोषाणां सुतरामसिद्धिः।
तस्मात् प्रमातृप्रमाणदोषासिद्धेर्बन्धाध्यासो न सिद्ध्यति।
ग्रन्थकारटिप्पणी
(४) चैतन्यरूपब्रह्मणोऽन्यस्याज्ञानतत्कार्यभूतस्थूलसूक्ष्मप्रपञ्चस्य द्वैतमात्रस्य सर्वस्यापि दृश्यस्य चैतन्ये ब्रह्मण्यध्यस्ततया ऽन्तःकरणात्मकप्रमातुरिन्द्रियात्मकप्रमाणस्य च दृश्यान्तर्गतत्वेन प्रमातृप्रमाणे अप्यध्यस्ते एव। तस्मात् प्रपञ्चाध्यासात् पूर्वं प्रमात्रादयः प्रपञ्चाध्यासकारणत्वेन न सिद्ध्यन्तीत्युपनिषत्सिद्धान्तः।