विचारसागरः — द्वितीयस्तरङ्गः — आवर्तः ५४ – जिज्ञासोरस्मिन् ग्रन्थे प्रवृत्त्युपपत्तिः
मुखपृष्ठम् · ⬆ द्वितीयस्तरङ्गः · ← · →
आवर्तः ५४ – जिज्ञासोरस्मिन् ग्रन्थे प्रवृत्त्युपपत्तिः¶
एवं पूर्वोक्तचतुर्विधेषु पुरुषेषु पामरविषयिणौ विषयोपभोगजन्यसुखेनैवात्मानं तृप्तं कृतार्थं
च मन्यमानौ वर्तेते।
केषाञ्चिद्विषयिणां पारलौकिकपरमसुखेच्छायां सत्यामप्यतत्प्राप्तिसाधनमेव तत्प्राप्तिसाधनत्वेनान्यथा गृहीत्वा तत्रैव ते प्रवर्तन्ते,
साधुसङ्गसच्छास्त्रश्रवणादिरूपपरमानन्दप्राप्तिसाधनज्ञानाभावात् तेषाम्।
ततश्च
पामरविषयिणोः परमानन्दावाप्त्यर्थं नास्मिन् ग्रन्थे प्रवृत्तिर्जायेत।
दुःखहत्यै च
न तेषामत्र ग्रन्थे प्रवृत्तिः, उपायान्तरे प्रवृत्तत्वात्।
तस्मान्निरतिशयसुखावाप्तये
आत्यन्तिकदुःखहानाय च पामरविषयिणोरस्मिन्ग्रन्थे न संभवति प्रवृत्तिः।
मुक्तस्यापि नास्त्यधिकारोऽस्मिन् ग्रन्थे।
ज्ञानी हि कृतकृत्यो१ मुक्त इत्युच्यते।
नैवास्ति तस्य कर्तव्यान्तरं दृढतराद्वितीयात्मापरोक्षज्ञानवत्त्वात्।
लीलयात्र
कालयापनार्थं प्रवृत्तोऽपि नास्त्यस्य ग्रन्थतः प्रयोजनम्।
तस्मान्न मुक्तोद्देशेनाप्ययं
ग्रन्थः प्रवृत्तः।
किन्तु मुमुक्षुरूपजिज्ञासुमुद्दिश्य प्रवृत्तोऽयं ग्रन्थः।
न तस्यास्ति
विषयसुखेच्छा।
निरतिशयभूमानन्दलिप्सया तस्य संसारदुःखजिहासावत्त्वात्।
नित्यनिरतिशयपरमानन्दप्राप्तिः आत्यन्तिकदुःखनिवृत्तिश्चापरोक्षात्मज्ञानं विना कर्मयोगसांख्ययोगोपासनादिभिर्न सिद्ध्यतीति विवेको यस्य
सत्सङ्गाज्जायते तस्य जिज्ञासोरद्वैतवेदान्तग्रन्थे प्रवृत्तिर्जायेतैव।
ग्रन्थकारटिप्पणी
१. अज्ञानदशायां ऐहिकभोगादिसिद्ध्यर्थं कृष्यादिव्यवसायाः, आमुष्मिकभोगार्थं काम्यकर्मोपासनादयः, चित्तशुद्ध्यैकाग्र्यार्थं निष्कामकर्मोपासनादयः, वेदान्तश्रवणाय विवेकवैराग्यादिचतुर्विधसाधनं, अद्वितीयात्मसाक्षात्काराय गुरूपदेशः, संशयादिनिवृत्त्यर्थं श्रवणादयः, तत्पदार्थविषयकपरोक्षत्वभ्रमनिवृत्तये त्वंपदार्थविषयकपरिच्छिन्नत्वभ्रमनिवृत्तये चान्योन्यव्यतिषङ्गः, (व्यतिहारः, ओतप्रोतभावः), मोक्षार्थं दृढतराद्वितीयचिन्मात्रात्मापरोक्षसाक्षात्कारश्चेत्येवमादिपुष्कलसाधनानुष्ठानं, तत्संपादनञ्च 'कर्तव्यम्' इत्युच्यते। एतदनुष्ठानसंपादनरूपं कर्तव्यं येन कृतं स एव 'कृतकर्तव्यः' = 'कृतकृत्यः' इत्युच्यते।