विचारसागरः — द्वितीयस्तरङ्गः — आवर्तः ५२ – पामरविषयिणोर्लक्षणम्
मुखपृष्ठम् · ⬆ द्वितीयस्तरङ्गः · ← · →
आवर्तः ५२ – पामरविषयिणोर्लक्षणम्¶
यत्तूक्तं सर्वेऽपि विषयसुखासक्ता एव, न कोऽपि नित्यनिरतिशयसुखं वाञ्छतीति, तन्न। पामरो, विषयी, जिज्ञासुर्मुक्तश्चेति लोके चतुर्विधाः पुरुषाः। तत्र विहितप्रतिषिद्धेष्वैहिक-विषयभोगेष्वासक्तः सन् शास्त्रीयसंस्कारशून्यो यः स पामरः। शास्त्रानुसारिविषयभोगान् भुञ्जानः सन् इहामुत्रार्थफलभोगावाप्तये कर्म कुर्वाणो विषयी।