सामग्रीं त्यजन्तु

विचारसागरः — द्वितीयस्तरङ्गः — आवर्तः ४४ – मोक्षस्य प्रथमांशभूते समूलाज्ञानजगन्निवृत्तिरूपे इच्छासंभवप्रकारः

आवर्तः ४४ – मोक्षस्य प्रथमांशभूते समूलाज्ञानजगन्निवृत्तिरूपे इच्छासंभवप्रकारः

मोक्षेच्छा न कस्यापि संभवति यतो मोक्षे अंशद्वयमस्ति, प्रथमः सोपादानकारणजगन्निवृत्तिरूपोऽंशः, द्वितीयो ब्रह्मप्राप्तिरूपोऽंशः। तत्र सोपादानकारणजगन्निवृत्तिरूपे मोक्षस्य प्रथमांशे न कस्यापीच्छा संभवति; अपि तु त्रिविधदुःखनिवृत्तीच्छेव सर्वेषां संभवति। तत्तद्दुःखनिवृत्तिस्तत्तदुपायाद्भवति। तस्मात् सोपादानकारणजगन्निवृत्तिकामो मुमुक्षुरधिकारीत्येतन्न सङ्गच्छत इति हि प्रथमः पूर्वपक्षः।

तत्र समाधिः –

सर्वानर्थबीजभूतमूलाज्ञानतत्कार्यजगन्निवृत्तिव्यतिरेकेण नोपायान्तरेण तापत्रयनाशो निःशेषमुपजायेत। निःशेषमूलाविद्यानिवृत्त्यैव सकलदुःखानि तत्कारणीभूतरोगादयः रोगाद्याश्रयशरीरादयश्च निरवशेषं नश्यन्ति। तस्मात् तापत्रयनिवृत्तये समूलाज्ञानजगन्निवृत्तिरूपे मोक्षलक्षणघटकविशेषणांशे उदेत्येवेच्छा सर्वेषाम्।

अयमाशयः – यस्तु सकलौषधाद्युपायनिर्माणे निखिलरोगचिकित्सायां चात्यन्तसमर्थस्तस्यापि न नियमेन दुःखशान्तिः दृश्यते। कस्यचिदेव रोगादिजन्यदुःखमौषधाद्युपायैर्निवर्तते, कस्यचिन्नैव। अत एवौषधाद्युपायैः रोगादिजन्यदुःखं न नियमेन सर्वेषां निवर्तते। किञ्च यस्य रोगः औषधाद्युपायैर्निवर्तते तस्यापि कालान्तरे पुनर्जायत एव रोगः। तस्मादौषधाद्युपायैर्दुःखं नात्यन्तिकतया निवर्तते। निवृत्तस्य पुनरपि कदाचिदप्यनुत्पत्तिरेव आत्यन्तिकी निवृत्तिः इत्युच्यते। औषधाद्युपायैर्नियमेन दुःखनिवृत्त्यसंभवात्, निवृत्तस्य च पुनरुत्पत्तिदर्शनात् तादृशैरुपायशतैरपि न निःशेषदुःखनिवृत्तिर्जायेत। परन्तु सकलदुःखनिदाननिवृत्तावेव नियमेनाशेषदुःखनिवृत्तिः स्यात्। तादृशदुःखनिदाननाशे सत्येव भूयो नैव जायेत दुःखलेशोऽपि। तस्मात् सर्वस्यापि लोकस्य दुःखनिवृत्त्यर्थं तन्निदाननिवृत्तीच्छा१ जायेतैव।

ग्रन्थकारटिप्पणी
  1. यथा ज्वरादिरोगग्रस्त आरोग्यकामनया वैद्योक्तपथ्यपदार्थानि ज्ञात्वा रोगविरुद्धपदार्थपरित्यागेन रोगनिदानानि निरस्यति, तथाऽऽत्यन्तिकदुःखनिवृत्तिकामोऽपि तत्साधनानि गुरूपदिष्टवेदान्तशास्त्रप्रमाणेन ज्ञात्वा तानि दुःखनिदानानि निवर्तयेदेव।