विचारसागरः — द्वितीयस्तरङ्गः — आवर्तः ४० – दुःखनिवृत्तावाक्षेपः
संस्कृतविचारसागरे अनुबन्धानां विशेषतो१ निरूपणं नाम
द्वितीयस्तरङ्गः।
पूर्वतरङ्गे अनुबन्धजातं संक्षेपत उक्तम्। अस्मिंस्तु द्वितीयतरङ्गे तद्विस्तरतः प्रतिपाद्यते।
आवर्तः ४० – दुःखनिवृत्तावाक्षेपः¶
साधनचतुष्टयसंपन्नोऽधिकारीति पूर्वं प्रत्यपादि।
तेषु साधनेषु 'मुमुक्षुता' नामैका।
सा च साधनेषूत्तमा।
मुमुक्षुता नाम तीव्रतरमोक्षेच्छा।
मोक्षः च सोपादानकारणजगन्निवृत्त्युपलक्षितब्रह्मावाप्तिरित्युच्यते।
अत्र मोक्षलक्षणघटकविशेषणरूपप्रथमांशे सोपादानकारणजगन्निवृत्तौ२ पूर्वपक्षी शङ्कते –
मूलाविद्यया सह जगन्नाशं न कोऽपि वाञ्छति।
किन्तु विवेकी तापत्रयनिवृत्तिमात्रं वाञ्छति३।
तापत्रयं च (1) आध्यात्मिकम् (2) आधिभौतिकम् (3) आधिदैविकं चेति। तत्र शरीरे ज्वरादिरोगक्षुत्पिपासादिजन्यं दुःखं *४ आध्यात्मिकम्, चोरव्याघ्रसर्पादिजन्यं दुःखं आधिभौतिकम् , यक्षराक्प्रेतपिशाचग्रहादिजन्यं शीतवातातपादिजन्यं च दुःखं आधिदैविकम्। एतत्त्रिविधदुःखनिवृत्तिरेव सर्वैः प्रार्थ्यते। न दुःखादन्यस्य कस्यचिदपि निवृत्तिर्विवेकिभिः प्रार्थ्यते। तस्मान्मूलाविद्यासहितजगन्निवृत्तौ न कस्यापीच्छा जायते। इति।
आवर्तः ४१¶
न च सर्वेषां निःशेषसकलदुःखनिबर्हणेच्छा विद्यते, समूलाज्ञानजगन्निवृत्तिमन्तरा न निःशेषदुःखोच्छेदः संभवति, इत्यतो निःशेषदुःखनिवृत्त्यन्यथानुपपत्त्या समूलाज्ञानजगन्निवृत्तिरर्थादाक्षिप्यत इति वाच्यम्।
आर्तानां धन्वन्तर्यादिकृतायुर्वेदोक्तभैषज्यसेवनात् ज्वरादिरोगहेतुकदुःखक्षयदर्शनात्। भोजनेन क्षुज्जन्यदुःखनिवृत्तेः सर्वानुभवसिद्धत्वाच्च। इत्थमेव तत्तत्प्रतीकारेण तत्तद्दुःखनिवृत्तिसंभवे समूलाज्ञानजगन्निवृत्तिमन्तरेणापि दुःखनिवृत्तेः संभावितत्वात् नापेक्ष्यते दुःखनिवृत्त्यर्थं समूलाज्ञानजगन्निवृत्तिः। तस्मान्मोक्षलक्षणघटकसमूलाज्ञानजगन्निवृत्तिरूपे विशेषणांशे न कस्यापीच्छा जायेत।
ग्रन्थकारटिप्पणी
१. कश्चित् किल गृही गृहप्रासादादिसमारम्भसमये परिसरवर्तिनाऽन्येन गृहस्थेन प्रतिरुद्धो न्यायाधिपतिद्वारा स्वस्वाम्यं संसाध्य यथा गृहारम्भे प्रवर्तते, तद्वदेवायं ग्रन्थकर्ताऽपि प्रथमतरङ्गे सामान्यतोऽनुबन्धचतुष्टयं निरूप्य ग्रन्थमारभमाणः पूर्वपक्ष्याक्षेपेण प्रतिबद्धः, श्रुतियुक्त्यनुभवादिप्रमाणावलम्बेन स्वपक्षं संसाधयन्निमं ग्रन्थमारभते।
२. उपादानकारणं == मूलाविद्या।
३. "न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते", "न हि यूकाः सन्तीति वस्त्राणि न परिधीयन्ते", "न हि मृगाः शलभाश्च सन्तीति शालयो नोप्यन्ते" इति यथा, तथा विवेकी तापत्रयभयान्न जगतो नाशमिच्छति। किन्तु तापत्रयनिवृत्तिमात्रमिच्छति, इतीयं साङ्ख्यमतानुयायिनां शङ्का।
४. आत्मानमधिकृत्य वर्तमानं स्थूलसूक्ष्मशरीरमध्यात्मम्। ततो जायमानं दुःखादिकमाध्यात्मिकम्।
५. स्वशरीरादिसङ्घातव्यतिरिक्तं सत् यत् चक्षुरिन्द्रियगोचरं तदधिभूतम्। ततो जायमानं दुःखादिकमाधिभौतिकम्।
६. स्वशरीरादिसङ्घातव्यतिरिक्तं सत् यत् चक्षुरिन्द्रियागोचरं तदधिदैवम्। ततो जायमानं दुःखादिकमाधिदैविकम्।