सामग्रीं त्यजन्तु

विचारसागरः — प्रथमस्तरङ्गः — आवर्तः २३ – विवेकादीनामन्तरङ्गसाधनत्वनिरूपणम्

आवर्तः २३ – विवेकादीनामन्तरङ्गसाधनत्वनिरूपणम्

विवेकादीनां ज्ञानाधिकारिणि संभवात्तान्यन्तरङ्गानीत्युच्यन्ते। अत्र चायं विशेषः – विवेकादीनां श्रवणे१ उपयुक्तत्वात् श्रवणादीनां च ज्ञाने विनियुक्तत्वात् विवेकादीन्यपेक्ष्य श्रवणादीन्यन्तरङ्गसाधनानि। विवेकादीनि तु तदपेक्षया बहिरङ्गानि। यद्यपि सर्वत्र वेदान्तशास्त्रेषु ज्ञानं प्रति विवेकादीन्यन्तरङ्गसाधनत्वेनैवोक्तानि न बहिरङ्गसाधनत्वेन, तथापि विवेकादीनां हि ज्ञाने अन्तरङ्गसाधनीभूतश्रवणमेव प्रत्यक्षं फलम्। श्रवणादिवद्विवेकादीन्यपि जिज्ञासुना मुमुक्षुणाऽवश्यमादर्तव्यान्येव, न तु यज्ञादिवद्धातव्यानि। तस्मात् कारणात्, यज्ञाद्यपेक्षयाऽन्तरङ्गत्वाच्च तान्यन्तरङ्गसाधनानीत्युच्यन्ते।

ग्रन्थकारटिप्पणी

१. वेदान्तश्रवणं हि दीर्घकालं नैरन्तर्येणादरेण चानुष्ठेयम्। विवेकादिसाधनचतुष्टयरहितस्य बहिर्मुखस्य निरन्तरायतया श्रवणं न सिद्ध्येत्। श्रवणमन्तरा मनननिदिध्यासने न स्याताम्। अतः श्रवणाद्यङ्गतया विवेकादिचतुष्टयमवश्यं संपाद्य विचारयेत्। लोके शास्त्रज्ञोऽपि विवेकमात्रयुक्तोऽप्यत्यन्तविषयासक्तः सन् काम्यकर्मसु प्रवर्तते। अतो द्वितीयसाधनेनेहामुत्रफलभोगवैराग्येणाप्यवश्यं भाव्यम्। प्रथमद्वितीयाभ्यां संपन्नोऽपि कश्चित् कोपादिना तप्यत इति तृतीयेनापि शमादिसाधनेन भाव्यम्। सत्स्वपि त्रिषु साधनेषु मुमुक्षाभावे श्रवणादौ न प्रवर्तेतेति इति चतुर्थ्या अपि मुमुक्षया अवश्यं भाव्यम्। इति।