सामग्रीं त्यजन्तु

विचारसागरः — प्रथमस्तरङ्गः — आवर्तः २० – मुमुक्षा

आवर्तः २० – मुमुक्षा

मुमुक्षा नाम – स्वस्वरूपभूतब्रह्मावाप्तिरनर्थनिवृत्तिश्च मोक्ष इति, तस्मिन् तीव्रतरेच्छा१॥

ग्रन्थकारटिप्पणी

१. यथा बुभुक्षितस्यानन्यचित्ततया अन्नपानादिसंपिपादयिषा, यथाऽग्निना दग्धस्य तच्छान्त्यर्थं जलाशयान्वेषणं, एवं संसारतापत्रयपरिवेष्टितस्य ततो मुमुक्षायामनन्यचित्ततया तदैकाग्र्यमेव तत्र तीव्रता। 'प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते' इति न्यायेन मोक्षरूपफले मन्देच्छाभावे निष्कामकर्मानुष्ठाने न कस्यचित्प्रवृत्तिः स्यात्। अतो मन्दमुमुक्षया सकलेतरसाधनेभ्यः प्रथमतो भाव्यम्। तदानीं सा न तीव्रा स्यात्। सिद्धेषु त्वितरसाधनेषु सा तीव्रा भवेत्। सैव तीव्रेच्छा श्रवणादिप्रवृत्तौ निदानम्।