सामग्रीं त्यजन्तु

उपदेशसाहस्री — पद्यभागः — १७. सम्यङ्मतिप्रकरणम्

१७. सम्यङ्मतिप्रकरणम्

आत्मा ज्ञेयः परो ह्यात्मा यस्मादन्यन् न विद्यते ।
सर्वज्ञः सर्वदृक् शुद्धस्तस्मै ज्ञेयात्मने नमः ॥१॥

पदवाक्यप्रमाणज्ञैर्दीपभूतैः प्रकाशितम् ।
ब्रह्म वेदरहस्यं यैस्तान् नित्यं प्रणतोऽस्म्यहम् ॥२॥

यद्वाक्सूर्यांशुसम्पातप्रणष्टध्वान्तकल्मषः ।
प्रणम्य तान् गुरून् वक्ष्ये ब्रह्मविद्याविनिश्चयम् ॥३॥

आत्मलाभात् परो नान्यो लाभः कश्चन विद्यते ।
यदर्था वेदवादाश्च स्मार्ताश्चापि तु याः क्रियाः ॥४॥

आत्मार्थोऽपि हि यो लाभः सुखायेष्टो विपर्ययः ।
आत्मलाभः परः प्रोक्तो नित्यत्वाद् ब्रह्मवेदिभिः ॥५॥

स्वयं लब्धस्वभावत्वाल्लाभस्तस्य न चान्यतः ।
अन्यापेक्षस्तु यो लाभः सोऽन्यदृष्टिसमुद्भवः ॥६॥

अन्यदृष्टिस्त्वविद्या स्यात् तन्नाशो मोक्ष उच्यते ।
ज्ञानेनैव तु सोऽपि स्याद् विरोधित्वान् न कर्मणा ॥७॥

कर्मकार्यस्त्वनित्यः स्यादविद्याकामकारणः ।
प्रमाणं वेद एवात्र ज्ञानस्याधिगमे स्मृतः ॥८॥

ज्ञानैकार्थपरत्वात् तं वाक्यमेकं ततो विदुः ।
एकत्वं ह्यात्मनो ज्ञेयं वाक्यार्थप्रतिपत्तितः ॥९॥

वाच्यभेदात् तु तद्भेदः कल्प्यो वाच्योऽपि तच्छ्रुतेः ।
त्रयं त्वेतत् ततः प्रोक्तं रूपं नाम च कर्म च ॥१०॥

असदेतत् त्रयं तस्मादन्योन्येन हि कल्पितम् ।
कृतो वर्णो यथा शब्दाच्छ्रुतोऽन्यत्र धिया बहिः ॥११॥

दृष्टं चापि यथारूपं बुद्धेः शब्दाय कल्पते ।
एवमेतज् जगत् सर्वं भ्रान्तिबुद्धिविकल्पितम् ॥१२॥

असदेतत् ततो युक्तं सच्चिन्मात्रं न कल्पितम् ।
वेदश्चापि स एवाद्यो वेद्यश्चान्यस्तु कल्पितः ॥१३॥

येन वेत्ति स वेदः स्यात् स्वप्ने सर्वं तु मायया ।
येन पश्यति तच् चक्षुः शृणोति श्रोत्रमुच्यते ॥१४॥

येन स्वप्नगतो वक्ति सा वाग् घ्राणं तथैव च ।
रसनस्पर्शने चैव मनश्चान्यत् तथेन्द्रियम् ॥१५॥

कल्प्योपाधिभिरेवैतद् भिन्नं ज्ञानमनेकधा ।
आधिभेदाद्यथा भेदो मणेरेकस्य जायते ॥१६॥

जाग्रतश्च तथा भेदो ज्ञानस्यास्य विकल्पितः ।
बुद्धिस्थं व्याकरोत्यर्थं भ्रान्त्या तृष्णोद्भवक्रियः ॥१७॥

स्वप्ने यद्वत् प्रबोधे च बहिश्चान्तस्तथैव च ।
आलेख्याध्ययने यद्वत् तदन्योन्यधियोद्भवम् ॥१८॥

यदायं कल्पयेद् भेदं तत्कामः सन् यथाक्रतुः ।
यत्कामस्तत्क्रतुर्भूत्वा कृतं यत् तत् प्रपद्यते ॥१९॥

अविद्याप्रभवं सर्वमसत् तस्मादिदं जगत् ।
तद्वता दृश्यते यस्मात् सुषुप्ते न च गृह्यते ॥२०॥

विद्याविद्ये श्रुतिप्रोक्ते एकत्वान्यधियौ हि नः ।
तस्मात् सर्वप्रयत्नेन शास्त्रे विद्या विधीयते ॥२१॥

चित्ते ह्यादर्शवद् यस्माच्छुद्धे विद्या प्रकाशते ।
यमैर्नित्यैश्च यज्ञैश्च तपोभिस्तस्य शोधनम् ॥२२॥

शारीरादितपः कुर्यात् तद्विशुद्ध्यर्थमुत्तमम् ।
मनआदिसमाधानं तत्तद्देहविशोषणम् ॥२३॥

मनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं तपः ।
तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते ॥२४॥

दृष्टं जागरितं विद्यात् स्मृतं स्वप्नं तदेव तु ।
सुषुप्तं तदभावं च स्वमात्मानं परं पदम् ॥२५॥

सुषुप्ताख्यं तमोऽज्ञानं बीजं स्वप्नप्रबोधयोः ।
स्वात्मबोधप्रदग्धं स्याद् बीजं दग्धं यथाभवम् ॥२६॥

तदेवैकं त्रिधा ज्ञेयं मायाबीजं पुनः क्रमात् ।
मायाव्यात्माविकारोऽपि बहुधैको जलार्कवत् ॥२७॥

बीजं चैकं यथा भिन्नं प्राणस्वप्नादिभिस्तथा ।
स्वप्नजाग्रच्छरीरेषु तद्वच् चात्मा जलेन्दुवत् ॥२८॥

मायाहस्तिनमारुह्य मायाव्येको यथा व्रजेत् ।
आगच्छंस्तद्वदेवात्मा प्राणस्वप्नादिगोऽचलः ॥२९॥

न हस्ती न तदारूढो मायाव्यन्यो यथा स्थितः ।
न प्राणादि न तद्द्रष्टा तथा ज्ञोऽन्यः सदा दृशिः ॥३०॥

अबद्धचक्षुषो नास्ति माया मायाविनोऽपि वा ।
बद्धाक्षस्यैव सा मायामायाव्येव ततो भवेत् ॥३१॥

साक्षादेव स विज्ञेयः साक्षादात्मेति च श्रुतेः ।
भिद्यते हृदयग्रन्थिर्न चेदित्यादितः श्रुतेः ॥३२॥

अशब्दादित्वतो नास्य ग्रहणं चेन्द्रियैर्भवेत् ।
सुखादिभ्यस्तथान्यत्वाद् बुद्ध्या वापि कथं भवेत् ॥३३॥

अदृश्योऽपि यथा राहुश्चन्द्रे बिम्बं यथाम्भसि ।
सर्वगोऽपि तथैवात्मा बुद्धावेव स गृह्यते ॥३४॥

भानोर्बिम्बं यथा चौष्ण्यं जले दृष्टं न चाम्भसः ।
बुद्धौ बोधो न तद्धर्मस्तथैव स्याद् विधर्मतः ॥३५॥

चक्षुर्युक्ता धियो वृत्तिर्या तां पश्यन्नलुप्तदृक् ।
दृष्टेर्द्रष्टा भवेदात्मा श्रुतेः श्रोता तथा श्रुतेः ॥३६॥

केवलां मनसो वृत्तिं पश्यन् मन्ता मतेरजः ।
विज्ञातालुप्तशक्तित्वात् तथा शास्त्रं न हीत्यतः ॥३७॥

ध्यायतीत्यविकारित्वं तथा लेलायतीत्यपि ।
अत्र स्तेनेति शुद्धत्वं तथानन्वागतं श्रुतेः ॥३८॥

शक्त्यलोपात् सुषुप्ते ज्ञस्थता बोधेऽविकारतः ।
ज्ञेयस्यैव विशेषस्तु यत्र वेति श्रुतेर्मतः ॥३९॥

व्यवधानाद् धि पारोक्ष्यं लोकदृष्टेरनात्मनः ।
दृष्टेरात्मस्वरूपत्वात् प्रत्यक्षं ब्रह्म तत् स्मृतम् ॥४०॥

न हि दीपान्तरापेक्षा यद्वद् दीपप्रकाशने ।
बोधस्यात्मस्वरूपत्वान् न बोधोऽन्यस्तथेष्यते ॥४१॥

विषयत्वं विकारित्वं नानात्वं वा न हीष्यते ।
न हेयो नाप्युपादेय आत्मा नान्येन वा ततः ॥४२॥

सबाह्याभ्यन्तरोऽजीर्णो जन्ममृत्युजरातिगः ।
अहमात्मेति यो वेत्ति कुतो न्वेव बिभेति सः ॥४३॥

प्रागेवैतद्विधेः कर्म वर्णित्वादेरपोहनात् ।
तदस्थूलादिशास्त्रेभ्यस्तत् त्वमेवेति निश्चयात् ॥४४॥

पूर्वदेहपरित्यागे जात्यादीनां प्रहाणतः ।
देहस्यैव तु जात्यादिस्तस्याप्येवं ह्यनात्मता ॥४५॥

ममाहं चेत्यतोऽविद्या शरीरादिष्वनात्मसु ।
आत्मज्ञानेन हेया स्यादसुराणामिति श्रुतेः ॥४६॥

दशाहाशौचकार्याणां पारिव्राज्ये निवर्तनम् ।
यथा ज्ञानस्य सम्प्राप्तौ तद्वज् जात्यादिकर्मणाम् ॥४७॥

यत्कामस्तत्क्रतुर्भूत्वा कृतं त्वज्ञः प्रपद्यते ।
यदा स्वात्मदृशः कामाः प्रमुच्यन्तेऽमृतस्तदा ॥४८॥

आत्मरूपविधेः कार्यं क्रियादिभ्यो निवर्तनम् ।
न साध्यं साधनं वात्मा नित्यतृप्तः श्रुतेर्मतः ॥४९॥

उत्पाद्याप्यविकार्याणि संस्कार्यं च क्रियाफलम् ।
नातोऽन्यत्कर्मणः कार्यं त्यजेत् तस्मात् ससाधनम् ॥५०॥

तापान्तत्वादनित्यत्वादात्मार्थत्वाच् च या बहिः ।
संहृत्यात्मनि तां प्रीतिं सत्यार्थी गुरुमाश्रयेत् ॥५१॥

शान्तं प्राज्ञं तथा मुक्तं निष्क्रियं ब्रह्मणि स्थितम् ।
श्रुतेराचार्यवान् वेद तद् विद्धीति स्मृतेस्तथा ॥५२॥

स गुरुस्तारयेद् युक्तं शिष्यं शिष्यगुणान्वितम् ।
ब्रह्मविद्याप्लवेनाशु स्वान्तध्वान्तमहोदधिम् ॥५३॥

दृष्टिः स्पृष्टिः श्रुतिर्घ्रातिर्मतिर्विज्ञातिरेव च ।
शक्तयोऽन्याश्च भिद्यन्ते चिद्रूपत्वेऽप्युपाधिभिः ॥५४॥

अपायोद्भूतिहीनाभिर्नित्यं दीप्यन् रविर्यथा ।
सर्वगः सर्वदृक् शुद्धः सर्वं जानाति सर्वदा ॥५५॥

अन्यदृष्टिः शरीरस्थस्तावन्मात्रो ह्यविद्यया ।
जलेन्द्वाद्युपमाभिस्तु तद्धर्मा च विभाव्यते ॥५६॥

दृष्ट्वा बाह्यं निमील्याथ स्मृत्वा तत् प्रविहाय च ।
अथोन्मील्यात्मनो दृष्टिं ब्रह्म प्राप्नोत्यनध्वगः ॥५७॥

प्राणाद्येवं त्रिकं हित्वा तीर्णोऽज्ञानमहोदधिम् ।
स्वात्मस्थो निर्गुणः शुद्धो बुद्धो मुक्तः स्वतो हि सः ॥५८॥

अजोऽहं चामरोऽमृत्युरजरोऽभय एव च ।
सर्वज्ञः सर्वदृक् शुद्ध इति बुद्धो न जायते ॥५९॥

पूर्वोक्तं यत् तमोबीजं तन् नास्तीति विनिश्चयः ।
तदभावे कुतो जन्म ब्रह्मैकत्वं विजानतः ॥६०॥

क्षीरात् सर्पिर्यथोद्धृत्य क्षिप्तं तस्मिन् न पूर्ववत् ।
बुद्ध्यादेर्ज्ञस्तथासत्यान् न देही पूर्ववद् भवेत् ॥६१॥

सत्यं ज्ञानमनन्तं च रसादेः पञ्चकात् परम् ।
स्यामदृश्यादिशास्त्रोक्तमहं ब्रह्मेति निर्भयः ॥६२॥

यस्माद् भीताः प्रवर्तन्ते वाङ्मनःपावकादयः ।
तदात्मानन्दतत्त्वज्ञो न बिभेति कुतश्चन ॥६३॥

नामादिभ्यः परे भूम्नि स्वाराज्ये चेत् स्थितोऽद्वये ।
प्रणमेत् कं तदात्मज्ञो न कार्यं कर्मणा तदा ॥६४॥

विराड् वैश्वानरो बाह्यः स्मरन्नन्तः प्रजापतिः ।
प्रविलीने तु सर्वस्मिन् प्राज्ञोऽव्याकृतमुच्यते ॥६५॥

वाचारम्भणमात्रत्वात् सुषुप्तादित्रिकं त्वसत् ।
सत्यो ज्ञश्चाहमित्येवं सत्यसन्धो विमुच्यते ॥६६॥

भारूपत्वाद् यथा भानोर्नाहोरात्रे तथैव तु ।
ज्ञानाज्ञाने न मे स्यातां चिद्रूपत्वाविशेषतः ॥६७॥

शास्त्रस्यानतिशङ्क्यत्वाद् ब्रह्मैव स्यामहं सदा ।
ब्रह्मणो मे न हेयं स्याद् ग्राह्यं वेति च संस्मरेत् ॥६८॥

अहमेव च भूतेषु सर्वेष्वेको नभो यथा ।
मयि सर्वाणि भूतानि पश्यन्नेवं न जायते ॥६९॥

न बाह्यं मध्यतो वान्तर्विद्यतेऽन्यत् स्वतः क्वचित् ।
अबाह्यान्तःश्रुतेः किञ्चित् तस्माच्छुद्धः स्वयम्प्रभः ॥७०॥

नेतिनेत्यादिशास्त्रेभ्यः प्रपञ्चोपशमोऽद्वयः ।
अविज्ञातादिशास्त्राच्च नैव ज्ञेयो ह्यतोऽन्यथा ॥७१॥

सर्वस्यात्माहमेवेति ब्रह्म चेद् विदितं परम् ।
स आत्मा सर्वभूतानामात्मा ह्येषामिति श्रुतेः ॥७२॥

जीवश्चेत् परमात्मानं स्वात्मानं देवमञ्जसा ।
देवोपास्यः स देवानां पशुत्वाच् च निवर्तते ॥७३॥

अहमेव सदात्मज्ञः शून्यस्त्वन्यैर्यथाम्बरम् ।
इत्येवं सत्यसन्धत्वादसद्धाता न बध्यते ॥७४॥

कृपणास्तेऽन्यथैवातो विदुर्ब्रह्म परं हि ये ।
स्वराड् योऽनन्यदृक् स्वस्थस्तस्य देवा असन् वशे ॥७५॥

हित्वा जात्यादिसम्बन्धं वाचोऽन्याः सह कर्मभिः ।
ओमित्येवं स्वमात्मानं सर्वं शुद्धं प्रपद्यथ ॥७६॥

सेतुं सर्वव्यवस्थानामहोरात्रादिवर्जितम् ।
तिर्यगूर्ध्वमधः सर्वं सकृज्ज्योतिरनामयम् ॥७७॥

धर्माधर्मविनिर्मुक्तं भूतभव्यात् कृताकृतात् ।
स्वमात्मानं परं विद्याद् विमुक्तं सर्वबन्धनैः ॥७८॥

अकुर्वन् सर्वकृच्छुद्धस्तिष्ठन्नत्येति धावतः ।
मायया सर्वशक्तित्वादजः सन् बहुधा मतः ॥७९॥

राजवत् साक्षिमात्रत्वात् सांनिध्याद् भ्रामको यथा ।
भ्रामयञ् जगदात्माहं निष्क्रियोऽकारकोऽद्वयः ॥८०॥

निर्गुणं निष्क्रियं नित्यं निर्द्वन्द्वं यन् निरामयम् ।
शुद्धं बुद्धं तथा मुक्तं तद् ब्रह्मास्मीति धारयेत् ॥८१॥

बन्धं मोक्षं च सर्वं यत इदमुभयं हेयमेकं द्वयं च ज्ञेयाज्ञेयाभ्यतीतं परममधिगतं तत्त्वमेकं विशुद्धम् ।
विज्ञायैतद् यथावच्छ्रुतिमुनिगदितं शोकमोहावतीतः सर्वज्ञः सर्वकृत् स्याद् भवभयरहितो ब्राह्मणोऽवाप्तकृत्यः ॥८२॥

न स्वयं स्वस्य नान्यश्च नान्यस्यात्मा च हेयगः ।
उपादेयो न चाप्येवमिति सम्यङ्मतिः स्मृता ॥८३॥

आत्मप्रत्यायिका ह्येषा सर्ववेदान्तगोचरा ।
ज्ञात्वैतां हि विमुच्यन्ते सर्वसंसारबन्धनैः ॥८४॥

रहस्यं सर्ववेदानां देवानां चापि यत् परम् ।
पवित्रं परमं ह्येतत् तदेतत् सम्प्रकाशितम् ॥८५॥

नैतद् देयमशान्ताय रहस्यं ज्ञानमुत्तमम् ।
विरक्ताय प्रदातव्यं शिष्यायानुगताय च ॥८६॥

ददतश्चात्मनो ज्ञानं निष्क्रियोऽन्यो न विद्यते ।
ज्ञानमिच्छन् भवेत् तस्माद् युक्तः शिष्यगुणैः सदा ॥८७॥

ज्ञानं ज्ञेयं तथा ज्ञाता यस्मादन्यन् न विद्यते ।
सर्वज्ञः सर्वशक्तिर्यस्तस्मै ज्ञानात्मने नमः ॥८८॥

विद्यया तारिताः स्मो यैर्जन्ममृत्युमहोदधिम् ।
सर्वज्ञेभ्यो नमस्तेभ्यो गुरुभ्योऽज्ञानसङ्कुलम् ॥८९॥