सामग्रीं त्यजन्तु

उपदेशसाहस्री — पद्यभागः — ११. ईक्षितृत्वप्रकरणम्

११. ईक्षितृत्वप्रकरणम्

ईक्षितृत्वं स्वतःसिद्धं जन्तूनां च ततोऽन्यता ।
अज्ञानादित्यतोऽन्यत्वं सदसीति निवर्त्यते ॥१॥

एतावद् ध्यमृतत्वं न किञ्चिदन्यत् सहायकम् ।
ज्ञानस्येति ब्रुवच्छास्त्रं सलिङ्गं कर्म बाधते ॥२॥

सर्वेषां मनसो वृत्तमविशेषेण पश्यतः ।
तस्य मे निर्विकारस्य विशेषः स्यात् कथञ्चन ॥३॥

मनोवृत्तं मनश्चैव स्वप्नवज् जाग्रतीक्षितुः ।
सम्प्रसादे द्वयासत्त्वाच् चिन्मात्रः सर्वगोऽद्वयः ॥४॥

स्वप्नः सत्यो यथाऽऽबोधाद्देहात्मत्वं तथैव च ।
प्रत्यक्षादेः प्रमाणत्वं जाग्रत् स्यादाऽऽत्मवेदनात् ॥५॥

व्योमवत् सर्वभूतस्थो भूतदोषैर्विवर्जितः ।
साक्षी चेताऽगुणः शुद्धो ब्रह्मैवास्मीति केवलः ॥६॥

नामरूपक्रियाभ्योऽन्यो नित्यमुक्तस्वरूपवान् ।
अहमात्मा परं ब्रह्म चिन्मात्रोऽहं सदाद्वयः ॥७॥

अहं ब्रह्मास्मि कर्ता च भोक्ता चास्मीति ये विदुः ।
ते नष्टा ज्ञानकर्मभ्यां नास्तिकाः स्युर्न संशयः ॥८॥

धर्माधर्मफलैर्योग इष्टोऽदृष्टो यथात्मनः ।
शास्त्राद् ब्रह्मत्वमप्यस्य मोक्षो ज्ञानात् तथेष्यताम् ॥९॥

या माहारजनाद्यास्ता वासनाः स्वप्नदर्शिभिः ।
अनुभूयन्त एवेह ततोऽन्यः केवलो दृषिः ॥१०॥

कोशादिव विनिष्कृष्टः कार्यकारणवर्जितः ।
यथासिर्दृश्यते स्वप्ने तद्वद् बोद्धा स्वयम्प्रभः ॥११॥

आपेषात्प्रतिबुद्धस्य ज्ञस्य स्वाभाविकं पदम् ।
उक्तं नेत्यादिवाक्येन कल्पितस्यापनेतृणा ॥१२॥

महाराजादयो लोका मयि यद्वत् प्रकल्पिताः ।
स्वप्ने तद्वद् द्वयं विद्याद् रूपं वासनया सह ॥१३॥

देहलिङ्गात्मना कार्या वासनारूपिणा क्रिया ।
नेतिनेत्यात्मरूपत्वान् न मे कार्या क्रिया क्वचित् ॥१४॥

न ततोऽमृतताशास्ति कर्मणोऽज्ञानहेतुतः ।
मोक्षस्य ज्ञानहेतुत्वान् न तदन्यदपेक्षते ॥१५॥

अमृतं चाभयं नार्तं नेतीत्यात्मा प्रियो मम ।
विपरीतमतोऽन्यद् यत् त्यजेत् तत् सक्रियं ततः ॥१६॥