सामग्रीं त्यजन्तु

misc

परिभाषाः

संज्ञा परिभाषा मूलम्
असूया इदं सुखं ममैव तस्यापि किमित्यागतमिति बुद्धिरसूया। लघुवासुदेवमननम् — षष्ठवर्णकम्
अहङ्कारः सर्वत्राग्रहोऽहङ्कारः। लघुवासुदेवमननम् — षष्ठवर्णकम्
इच्छा अवर्जनीयप्राशनविमोचनादिकर्मचिकीर्षा इच्छा। लघुवासुदेवमननम् — षष्ठवर्णकम्
ईर्ष्या इदं दुःखं तं विहाय मम किमित्यागतमिति चितवृत्तिरीर्ष्या। लघुवासुदेवमननम् — षष्ठवर्णकम्
कामः गृहक्षेत्रादिसम्पादनेच्छा कामः। लघुवासुदेवमननम् — षष्ठवर्णकम्
क्रोधः तत्र विघ्नकर्तरि वैरस्यं क्रोधः। लघुवासुदेवमननम् — षष्ठवर्णकम्
दम्भः अनेन धर्मेण मम प्रसिद्धिर्भूयादिति चित्तवृत्तिर्दम्भः। लघुवासुदेवमननम् — षष्ठवर्णकम्
दर्पः मम न कोऽपि समान इति बुद्धिर्दर्पः। लघुवासुदेवमननम् — षष्ठवर्णकम्
द्वेषः अपकारकर्तुः प्रत्यपकारेच्छा द्वेषः। लघुवासुदेवमननम् — षष्ठवर्णकम्
बन्धः स्वभावनिर्मलस्य मनसोऽशुद्धेन योगो बन्धः। लघुवासुदेवमननम् — षष्ठवर्णकम्
भक्तिः गुरौ सज्जनेषु देवतासु चातिप्रीतिर्भक्तिः। लघुवासुदेवमननम् — षष्ठवर्णकम्
मदः स्वस्य सम्पदस्ति, किं वा कर्तुमशक्यमिति बुद्धिर्मदः। लघुवासुदेवमननम् — षष्ठवर्णकम्
मात्सर्यम् स्वसमानसम्पन्नजनदर्शनासहनं मात्सर्यम्। लघुवासुदेवमननम् — षष्ठवर्णकम्
मोक्षः शुद्धरूपेणावस्थानं मोक्षः। लघुवासुदेवमननम् — षष्ठवर्णकम्
मोहः ऐश्वर्यमदेन कृत्याकृत्यमविचार्य तूष्णीमवस्थानं मोहः। लघुवासुदेवमननम् — षष्ठवर्णकम्
रागः स्त्रीविषयकचित्तवृत्ती रागः। लघुवासुदेवमननम् — षष्ठवर्णकम्
रागद्वेषौ रागो द्वेषः कामः क्रोधो लोभो मोहो मदो
मात्सर्यमर्ष्याऽसूया दम्भो दर्पोऽहङ्कार इच्छा भक्तिः श्रद्धेति रागद्वेषादिवृत्तयः षोडश।
लघुवासुदेवमननम् — षष्ठवर्णकम्
लोभः स्वसम्पादितेषु किञ्चिदपि सत्पात्रे न देयमिति बुद्धिर्लोभः। लघुवासुदेवमननम् — षष्ठवर्णकम्
श्रद्धा यागादिकर्मसु वेदान्तवाक्येषु गुरूपदेशे च विश्वासः श्रद्धा। लघुवासुदेवमननम् — षष्ठवर्णकम्

सन्दर्भाः

  • abc — लघुवासुदेवमननम् — षष्ठवर्णकम्