सामग्रीं त्यजन्तु

लघुवासुदेवमननम् — चतुर्थवर्णकम्

दु:खम्

इदानीमस्य जीवस्य दुःखं च जन्म च कर्म च रागद्वेषादि चाभिमानश्चाविवेकश्चाज्ञानं चेत्येतेषु पूर्वपूर्व प्रत्युतरोत्तरं हेतुः । तत्र दुःखादिचतुष्टयं चतुर्थपञ्चमवर्णकयोर्विचार्यते ॥

जीवात्मनो दुःखं स्वाभाविकं वा आगन्तुकं वेति चेत्, आगन्तुकमिति ज्ञेयम् । स्वाभाविकमिति चेदनेकदोषाः सन्ति। तत्कथमिति चेत् । अस्य जीवात्मनो दुःखं स्वाभाविकं चेद्दुःखनिवृत्तिः कदाचिदपि न स्यात्, सुखमपि कस्यापि न स्यात्, दुःखनिवृत्त्यै सुखमाप्त्यै च कस्यापि कर्म न स्यात्, सत्कर्मयोगध्यानोपासनेषु कस्यापि प्रयत्नो न स्यात्, वेदशास्त्रपुराणानि च व्यर्थानि स्युरिति जानीहि ।

ननु दुःखं स्वाभाविकमस्तु तन्निवृत्त्यै च प्रयत्नं करोत्विति चेत्, कदाचिदप्येतन्न सम्भवति, स्वाभाविकस्य स्वस्वरूपत्वात् । स्वस्वरूपनाशार्थं को वा प्रयत्नं कुर्यात्? स्वस्वरूपनाशे सति पुरुषार्थभाक्कः स्यात्? स्वाभाविकमेव स्वस्वरूपं कथमिति चेत् । गुडस्य मधुरगुणः स्वभावः । तस्य मधुरगुणस्य नाशे भवितव्ये गुडस्यैव नाशो भवेत् । तथा जीवात्मनो दुःखं स्वाभाविकं चेद्दुःखनाशे भवितव्य आत्मस्वरूपनाश एव स्यात् । आत्मनो नाशो नास्ति । अविनाशी नित्य इति च अविनाशी वा अरेऽयमात्मा (बृ० ४.५.१४) आकाशवत्सर्वगतश्च नित्यः, न जायते म्रियते वा विपश्चिनायं कुतश्चिन्न बभूव कश्चित् । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ (कठ० २.१८) इत्यादिश्रुतयो वदन्ति । तस्मादात्मनो दुःखं स्वाभाविकं न भवति, किं त्वागन्तुकमेवेति जानीहि ।

ननु स्वाभाविकं नश्यतु स्वरूपं तिष्ठत्विति चेत्, तन्न सम्भवति । नन्वग्नेः स्वाभाविकमुष्णत्वं मणिमन्त्रादिभिर्गच्छति, स्वरूपनाशोऽपि नास्ति, अन्यच्छैत्यमप्यागच्छति, तथाऽऽत्मनोऽपि दुःखं स्वाभाविकं भवतु, तदुत्कृष्टकर्मोपासनयोगबलेन गच्छतु, सुखं चागच्छत्विति वदसि चेत् । सा निवृत्तिस्तात्कालिक्येव नात्यन्तिकी । कथमिति चेत् । कर्मजन्यं सकलमपि कर्मनाशे नश्यति । त्वदुक्तदृष्टान्तदार्ष्टन्तिकयोरग्न्यात्मनोरुष्णत्वं दुःखित्वं च मणिमन्त्रादिभिरुत्कृष्टकर्मोपासनयोगैश्च गतमपि मण्याद्यपनये कर्मादिक्षये च शैत्यं च सुखं च गच्छेत्, पुनः स्वाभाविकमुष्णत्वं दुःखित्वं चागच्छेत् । एवं च सति सर्वजीवानां तात्कालिकमुक्तिं विना पुनजन्मरहिता मुक्तिर्न स्यात् । किं च मोक्षस्य जन्यत्वे अनित्यत्वमपि स्यात् । न च पुनरावर्तते इति मुक्तेर्नित्यत्वप्रतिपादकश्रुतेः अखण्डमानन्दमरूपमद्भुतम् इति श्रुतेश्च विरोधः स्यात् । आत्मनो दुःखस्वभावत्वे सुषुप्त्यवस्थायां तूष्णींभावे योगिनां समाधौ च दुःखमेव प्रतीयेत । तथा न दृश्यते । किं तु त्रयाणामपि व्युत्थानानन्तरम् एतावत्पर्यन्तं सुखमेवाहमासम् इति सुखमेव स्मर्यते । तस्मादात्मनः सुखमेव स्वाभाविकं दुःखमागन्तुकमिति जानीहि ॥

सुखस्वरूपस्याप्यात्मनो दुःखं शरीरपरिग्रहेणागतम् 'यत्र यत्र शरीरपरिग्रहस्तत्र तत्र दुःखम्' इति व्याप्तेः । ननु लोके राजादीनामपि शरीरपरिग्रहेण दुःखमस्ति वेति चेत्; अस्त्येव तेषामपि शत्रुपीडया राज्यभारेण धनधान्यक्षयेण स्त्रीपुत्रादिमरणेन जरादिना स्वमरणेन च दुःखदर्शनात् । लोके 'केचित्सुखेन वर्तन्ते' इति व्यवहारो वृथा मोह एव । मोहेनापि दुःखस्य सुखत्वव्यवहारः कथमिति चेत् । भारवाहको बहुयोजनदूरं कार्यार्थं त्वरया धावन्, तथा संततमपि कृष्यादिकर्मकरणशीलश्वेत्येवमादयः सर्वेऽपि स्वस्वकर्मणो दुःखरूपत्वेऽपि मोहेन तचत्कर्म सुखं मत्वा संतुष्टा गानं कुर्वन्त उत्साहवन्तश्च वर्तन्ते । तस्मान्मोहेन दुःखमेव सुखमिव भातीति ज्ञातव्यम् ॥

तर्हि विवेकिनामपि शरीरपरिग्रहाद्दुःखमस्ति वेति चेत्, तेषामपि क्षुत्पिपासादिना शीतोष्णादिना व्याधिना सर्पवृश्चिकव्याघ्रादिना च दुःखमस्त्येव । तर्हि विवेक्यविवेकिनो को विशेष इति चेत्, तयोर्बाह्यव्यापारेण विशेषाभावेऽप्यान्तरव्यापारेण विशेषोऽस्ति । यो विवेकी स महात्मा सकलमपि दुःखमन्तःकरणस्यैव नात्मनः, सच्चिदानन्दस्वरूपस्यात्मनोऽनृतजडदुःखस्वरूपान्तःकरणधर्मैरणुमात्रमपि सम्बन्धो नास्ति इति श्रुतियुक्त्यनुभवैर्विचार्य ज्ञात्वा तिष्ठति । तथा हि असङ्गो ह्ययं पुरुषः (बृ० ४.३.१५) इति श्रुतिः, निरवयवत्वात्सत्यत्वादित्यादिका युक्तयः, सुषुप्तितूष्णींभावसमाधिष्वनुभवश्च वेदितव्याः । योऽविवेकी स दुरात्मा त्वात्मस्वरूपमविचार्य देहादिकमेवात्मानं मत्वाऽनात्मधर्मानात्मन्यारोप्याऽऽत्मधर्माश्च सच्चिदानन्दाननात्मन्यारोप्यैवमन्योन्याभ्यासं कुर्वन् अहं देवः अहं मनुष्यः अहमान्ध्रः अहं द्राविडः अहं ब्राह्मणः अहं क्षत्रियः अहं वैश्य अहं शूद्रः अहं ब्रह्मचारी अहं गृहस्थः अहं वानप्रस्थः अहं संन्यासी इत्यादिप्रकारेण जातिवर्णाश्रमाभिमानी तिष्ठति । एवं विवेक्यविवेकिनोर्बहु भेदोऽस्ति । विचार्यमाणे तयोर्बाह्यव्यापारेणापि न साम्यम् । कथमिति चेत् । विवेकी प्रपञ्चं सर्वमपि मिथ्येति निश्चित्य प्रारब्धभोगमपि स्वप्नभोगतुल्यमेव पश्यति । अविवेकी तु प्रपञ्चः सत्यः, आत्मनः सुखदुःखानुभवोऽपि सत्य एवेति पश्यति । एवं विवेकिनामपि शरीरपरिग्रहवशाद्दुःखमस्त्येव ॥

देवानामपि 'वज्रहस्तः पुरंदरः' इत्यादिवेदवचनेषु शरीरपरिग्रहदर्शनादुःखमस्त्येव । कथमिति चेत् । अन्योन्यं युद्धतः कोपशापाभ्यामसुरराक्षसोपद्रवात्पुण्यकर्मफलनाशे सति भाव्यधःपातभयादपि दुःखमस्त्येव । कथं दुःखिनामपि तेषामितरैरुपास्यत्वं कथं वा सुखदातृत्वमिति चेत्, अस्मिल्लोके राजप्रभृतीनां दुःखिनामपि स्वाश्रितपरिपालनादिकं यथा तथेति ज्ञेयम् । 'देवलोके देवा आनन्दरूपास्तिष्ठन्ति' इति श्रुतेर्देवा दुःखं सर्वमप्यन्तःकरणधर्मं मत्वाऽऽत्मानन्दस्वरूपं सदाऽनुभवन्त एव तिष्ठन्तीति तात्पर्यम् । तेषामपि दुःखमस्तीति वदन्त्याः 'ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रापतन्' (ऐ० २.१) इति श्रुतेर्देवानामपि शरीरपरिग्रहाद्दुःखमस्त्येवेति तात्पर्यम्। तस्माद्विदेहमुक्त्यर्थमेव प्रयत्नः कर्तव्यः ॥

नन्वशरीरमुक्तेरेव मुक्तित्वं चेत्सशरीरा आकाशे नक्षत्ररूपेण परिदृश्यमानाः केचन देवा मुक्ता इति मनुष्यैः कथं कथ्यन्त इति चेत्, शृणु। सालोक्यं सामीप्यं सारूप्यं सायुज्यमिति चतुर्विधा मुक्तिः । चर्या क्रिया योगो ज्ञानमिति चतुर्णां क्रमेण साधनानि । भगवत्कैंकर्यरूपदासभावश्चर्या । शिवविष्ण्वादिपूजाविधिः क्रिया । यमनियमाद्यष्टाङ्गयोगो योगः । जीवपरमेश्वरयोरैक्यसाक्षात्कारो ज्ञानम् । तत्राद्यास्तिस्रो मुक्तयो मुख्या न भवन्ति, पुनरावृत्तिसम्भवात् । सायुज्यमेव मुख्या मुक्ति, पुनरावृत्तिवर्जनात् । 'योगेन सायुज्यम्' इति शास्त्रं निर्गुणब्रह्मयोगविषयम् । सशरीरमुक्तानामिवाशरीरमुक्तानां कदाचिदपि कुत्रचिदपि केनापि कथंचिदपि दर्शनाभावाच्छून्यमेवाशरीरमुक्तिरिति न मन्तव्यम् । अशरीरमुक्तानां शरीरस्यैव शून्यत्वं न स्वरूपसुखस्य । स्वरूपसुखं तु सुषुप्तिसुखवदशरीरत्वात्स्वसंवेद्यमेव नान्यसंवेद्यम् । सुषुप्तिर्मुक्तिसमाना चेत्सापि मुक्तिः स्यादिति न वाच्यम् । सुखानुभवमात्रेण साम्येऽपि सुषुप्तावज्ञानं पुनरुत्थानं चास्ति । मुक्तौ तदुभयमपि नास्ति । अतः सुषुप्तेर्मुक्तित्वं न सम्भवति । अत एव प्रलयस्यापि न मुक्तित्वम् । एवं सुषुप्तिसुखवन्मुक्तिसुखस्य स्वानुभवगम्यत्वात्प्रत्यक्षत्वमेव, न शून्यत्वम् । तर्हि सशरीरमुक्तीनामिवाशरीरमुक्तेरपि प्रत्यक्षत्वे तत्र को भेद इति चेत्, अज्ञाननिवृत्तिः पुनरुत्थानाभावश्च भेद इत्युक्तम् । एवं श्रुतियुक्तिभ्यामशरीरमुक्तेः परमसुखत्वं शरीरपरिग्रहेण दुःखं चोक्तम् । इदानीमनुभवेनापि तदुभयं वदामः । नित्यं सुषुप्तौ शरीरपरिग्रहाभावाद्दुःखाभावश्व जाग्रत्स्वप्नयोः शरीरपरिग्रहेण दुःखं च सर्वैरनुभूयते ! तस्मात् यत्र यत्र शरीरपरिग्रहस्तत्र तत्र दुःखम् इति व्याप्तेरानन्दस्वरूपस्याप्यात्मनः शरीरपरिग्रहादेव दुःखमागच्छति, न तु स्वतः । तस्य शरीरस्य को वा हेतुरिति चेत्पूर्वकर्मसहितपञ्चीकृतभूतान्येव न केवलभूतानि तेषां सर्वत्र वर्तमानत्वात्तेभ्यः शरीरं स्यादिति न वक्तव्यम् ॥

ननु शुक्लशोणितरूपेण परिणतानामेव भूतानां शरीरकारणत्वेन विवक्षितत्वात्तादृशान्येव शरीरस्य कारणमिति न वक्तव्यम्, व्यर्थशुक्लशोणितेषु शरीरोत्पन्यदर्शनात् । तस्मात्कर्मसहितान्येव शरीरस्य कारणानि । पञ्चभूतानां देशकालादीनां च सर्वसाधारणत्वात्तत्तत्कर्मवैचित्र्यमेव शरीरवैचित्र्यहेतुः, यथा मृदादीनां साधारणत्वेऽपि कुलालव्यापारवैचित्र्यमेव घटादिकार्यवैचित्र्यहेतुः । यथा दृष्टान्ते घटादेर्मृदुपादानकारणं कुलालव्यापारो निमित्तकारणम्, एवं दार्ष्टान्तिकेऽपि शरीरस्य पञ्चीकृतभूतान्युपादानकारणं तत्तत्कर्म निमित्तकारणम् । तस्माद्भोगप्रदकर्मणि सति शरीरपरिग्रहः, यथा जाग्रत्स्वप्नयोः कर्मणो विद्यमानत्वाच्छरीरप्राप्तिः । कर्माभावे शरीराभावः, यथा सुषुप्तौ कर्माभावाच्छरीराभावः । किं च यथा मृदि सत्यामपि कुलालव्यापाराभावे घटोत्पत्त्यभावः, तथेश्वरसृष्टेषु पञ्चभूतेषु सत्स्वप्यात्मज्ञानेन कर्मसु नष्टेषु तस्य ज्ञानिनः शरीरं नोत्पद्यते ॥

ननु कर्मशास्त्रे अवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभम् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥ इति, ज्ञानशास्त्रे ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा (गी० ४ ३७) इति च वचनयोः परस्परं विरोधे कथं निर्णयः कर्तव्य इति चेत्, शृणु । शास्त्रे प्रबलवचनं दुर्बलवचनं चास्ति । प्रबलं सिद्धान्तवचनम् । दुर्बलं पूर्वपक्षवचनम् । प्रबलं दुर्बलं निरस्यति । तद्यथा अहिंसा परमो धर्मः इति वचनं प्रबलमपि सत् यागे पशुवधः कर्तव्यः इत्यतिप्रबलवचनेन निरस्यते, एवम् अवश्यमनुभोक्तव्यम- इति वचनम् तपसा किल्बिषं हन्ति (मनु० १२.१०४) इति प्रबलवचनेन दुर्बलं सन्निरस्यते । तस्मात्सञ्चितेषु कर्मसु बहुषु सत्स्वप्यात्मज्ञानेन तानि नश्यन्त्येव । कर्माभावे जन्माभावः । जन्माभावे दुःखाभावः । दुःखाभावे आनन्दाविर्भाव इत्ययमेव सिद्धान्तः ॥

॥ इति चतुर्थवर्णकम् ॥

दुःखहेतुः
block-beta
    columns 7

    t1["अज्ञानम्"]  space  t2["अविवेकः"]  space  t3["अभिमानः"]  space  t4["रागद्वेषौ"]
    space:7
    space:2  m2["दुःखम्"]  space  m3["जन्म"]  space  m4["कर्म"]

    t1 --> t2
    t2 --> t3
    t3 --> t4
    t4 --> m4
    m4 --> m3
    m3 --> m2

    %%style m3 fill:#e8f5e9,stroke:#81c784,stroke-width:2px
    %%style t1 fill:#f5f5f5,stroke:#bdbdbd,stroke-width:2px

    %%style t2 fill:#ffebee,stroke:#ff8a80,stroke-width:2px
    %%style t3 fill:#ffebee,stroke:#ff8a80,stroke-width:2px
  • दुःखम्
    • हेतुः – अज्ञानम् ⇒ अविवेकः ⇒ अभिमानः ⇒ रागद्वेषौ ⇒ दुःखम् ⇒ जन्म ⇒ कर्म
    • स्वाभाविकम्?
      आगन्तुकं हि वस्तु निराक्रियते न स्वरूपम् ।
      • दुःखनिवृत्तिः न ।
      • न कस्यापि सुखम् स्यात् ।
      • कोऽपि दुःखनिवारणाय/सुखप्राप्त्यर्थं कर्म न कुर्यात् ।
      • सत्कर्मयोगधानादिषु प्रयत्नः न स्यात् ।
      • वेदाः शास्त्राणि च निरर्थकानि ।
    • दुःखं स्वाभाविकं, प्रयतताम् नाशाय
      • स्वाभाविकं = स्वरूपम्
      • दुःखनाशः ⇒ स्वरूपनाशः ⇒ आत्मनाशः (श्रुतिविरोधः)
    • स्वाभाविकं नश्यतु, स्वरूपं तिष्ठतु
      • यथा अग्निः मणिसन्निधौ ।
      • कर्मजन्यं कर्मनाशे नश्यति । सुखं यदि आगन्तुकं (कर्मजन्यं) –
        • सुखनाशे दुःखनिवर्तनम् (आत्यन्तदुःखनाशः न)
        • सुखम् अनित्यं भवेत् ⇒ पुनर्जन्मरहिता मुक्तिः न भवेत् (श्रुतिविरोधः)
        • मोक्षः जन्यः (न सिद्धः/नित्यः), अतः अनित्यत्वं स्यात् ।
        • सुषुप्तौ/समाधौ/तूष्णींभावे दुःखमेव प्रतीयेत यतः प्रयत्नाभावः (अनुभवविरुद्धम्)
    • शरीरपरिग्रहः (कारणम्)
      यत्र यत्र शरीरपरिग्रहस्तत्र तत्र दुःखम्
      • मोहेन शरीरिणः दुःखमेव सुखमिव भाति ।
      • विवेकी vs अविवेकी (दुःखं तु द्वयोरस्त्येव
        • आन्तरव्यापारः
          • विवेकी – सकलमपि दुःखमन्तःकरणस्यैव नात्मनः (असङ्गो ह्ययं पुरुषः) ।
          • अविवेकी – देहादिकमेवात्मानं मनुते (अहं देवः, अहं मनुष्यः, ...)
        • बाह्यव्यापारः निर्विशेषः इव
          • विवेकी – जगन्मिथ्या, प्रारब्धभोगः स्वप्नतुल्यः ।
          • अविवेकी – प्रपञ्चः सत्यः, आत्मनः सुखदुःखानुभवोऽपि सत्यः ।
      • देवानामपि दुःखमस्त्येव (शरीरपरिग्रहत्वात्)
      • तर्हि मुक्तिः = अशरीरत्वम्?
        • चतुर्धा
          • सालोक्यं (भगवत्कैंकर्यरूपदासभावश्चर्यया)
          • सामीप्यं (शिवविष्ण्वादिपूजाविधिरूपक्रियया)
          • सारूप्यं (यमनियमाद्यष्टाङ्गयोगेन)
          • सायुज्यम् (जीवपरमेश्वरयोरैक्यसाक्षात्काररूपज्ञानेन) । पुनरावृत्तिवर्जनम् ।
        • सुषुप्तिः (यथा प्रलयः) (≠ मोक्षः)
          • अज्ञानम्
          • पुनरुत्थानम्
        • सुषुप्तिसुखवन्मुक्तिसुखस्य स्वानुभवगम्यत्वात्प्रत्यक्षत्वमेव, न शून्यत्वम् ।
        • विदेहमुक्तः vs जीवन्मुक्तः
          • अज्ञाननिवृत्तिः पुनरुत्थानाभावश्च भेद इत्युक्तम् ।
          • शरीरमुक्तेः परमसुखत्वं शरीरपरिग्रहेण दुःखं चोक्तम् ।
      • शरीरकारणम्
        • कर्म + पञ्चीकृतभूतानि
          • कर्म एव शरीरवैचित्र्यकारणम् (निमित्तकारणम्) ।
            • ज्ञाने जाते कर्माणि नश्यन्ति, अतः पुनरावृत्तिः न जायते (कर्मसहितानां भूतानामेव शरीरावाप्तिः)।
              • कर्माणि कथं नश्यन्ति? (श्रुतिविरोधः)
                • प्रबलवचनं (सिद्धान्तवचनम्), दुर्बलवचनम् । प्रबलं दुर्बलं निरस्यति ।
          • भूतानि (उपादानकारणम्) ।
          • कर्माभावः ⇒ जन्माभावः ⇒ दुःखाभावः ⇒ आनन्दविर्भावः ।
        • शुक्लशोणितरूपेण परिणतानि भूतानि?
          • न, व्यर्थतत्वात् । (न सर्वेषां परिणतिः)

?? अशरीरमुक्तानां शरीरस्यैव शून्यत्वं न स्वरूपसुखस्य । स्वरूपसुखं तु सुषुप्तिसुखवदशरीरत्वात्स्वसंवेद्यमेव नान्यसंवेद्यम् । ?? तर्हि सशरीरमुक्तीनामिवाशरीरमुक्तेरपि प्रत्यक्षत्वे तत्र को भेद इति चेत्, अज्ञाननिवृत्तिः पुनरुत्थानाभावश्च भेद इत्युक्तम् । * अत्र अज्ञाननिवृत्तिः कथं सशरीरमुक्तानां न स्यात् ? ?? एवं सुषुप्तिसुखवन्मुक्तिसुखस्य स्वानुभवगम्यत्वात्प्रत्यक्षत्वमेव, न शून्यत्वम् ।

=> अपञ्चीकृतभूतानि न व्यवहारयोग्यानि ।

दुःखं स्वाभाविकं वा आगन्तुम् वा? स्वाभिविकं = ?? आगन्तुकं = ?? आगन्तुकं हि वस्तु निराक्रियते न स्वरूपम् ।

स्वाभाविकं चेत्

दुःखं स्वाभाविकं, तथापि प्रयत्नः

  • स्वाभाविकं = स्वरूपम्
  • दुःखनाशः ⇒ स्वरूपनाशः ⇒ आत्मनाशः (श्रुतिविरोधः)

स्वाभाविकं नश्यतु, स्वरूपं तिष्ठतु

  • यथा अग्निः मणिसन्निधौ ।
  • कर्मजन्यं कर्मनाशे नश्यति । सुखं यदि आगन्तुकं (कर्मजन्यं)

आगन्तुकं

mindmap
    root))दुःखम्((
        ((स्वाभाविकम्))
            दुःखनिवृत्तिः न ।
            न कस्यापि सुखम् स्यात् ।
            कोऽपि दुःखनिवारणाय/सुखप्राप्त्यर्थं कर्म न कुर्यात् ।
            सत्कर्मयोगधानादिषु प्रयत्नः न स्यात् ।
            वेदाः शास्त्राणि च निरर्थकाः ।
        ((स्वाभिकं भवतु<br>प्रयतताम् नाशाय))
            स्वाभाविकं = स्वरूपम्
            दुःखनाशः
                स्वरूपनाशः
                    आत्मनाशः
                        श्रुतिविरोधः
        ((स्वाभाविकं नश्यतु<br>स्वरूपं तिष्ठतु))
            यथा अग्नेः मणिसन्निधौ