सामग्रीं त्यजन्तु

लघुवासुदेवमननम् — नवमवर्णकम्

आत्मा शरीरत्रयविलक्षणः, अवस्थात्रयसाक्षी, पञ्चकोशव्यतिरिक्तः, सच्चिदानन्दलक्षण इत्यात्मन उक्तेषु चतुर्विधलक्षणेषु शरीरत्रयविलक्षणत्वमेवमष्टमवर्णक उक्तम् । इतः परमवस्थात्रयसाक्षित्वमस्मिन्नवमे वर्णक उच्यते । मनः सत्त्वरजस्तमोगुणात्मकम् । तथापि सत्त्वगुणप्रधानमेव मनः । सात्त्विकेनैव मनसा आत्मा ज्ञातव्यः, न च राजसेन नापि तामसेन । तत्र सत्त्वगुणः सूक्ष्मः । रजोगुणश्चञ्चलः । तमोगुणः स्थूलः । तस्माद्धूमप्रवेशयोग्ये रन्ध्रे बृहन्स्तम्भो यथा न प्रविशति वायुना चलति दीपप्रकाशे सूक्ष्मवर्णो निर्णेतुं यथा न शक्यते, तथैवात्मनि ज्ञातव्ये सति सूक्ष्ममनसैव सात्त्विकेन ज्ञातव्यः । अन्यथा स्थूलमनसा चञ्चलमनसा च सूक्ष्मस्यात्मनः स्वरूपं किञ्चिदपि न प्रतिभाति । तस्मात्सावधानः शृणु ॥

अवस्थात्रयं कथमिति चेत्, शृणु । जाग्रदवस्था स्वप्नावस्था सुषुप्त्यवस्था चेत्यवस्थात्रयम् । तत्र सकलेन्द्रियैर्बाह्यार्थोपलम्भो जाग्रदवस्था । जाग्रद्वासनया अन्तःकरणस्य भोक्तृभोग्यादिरूपेण परिणामः स्वप्नवस्था । स्थूलसूक्ष्मजगतः सर्वस्यापि कारणेऽज्ञाने लयानन्तरमज्ञानमात्रस्य केवलसाक्षिवेद्यस्यावस्थानं सुषुप्तिः । एवमवस्थात्रयम्॥

एतदवस्थात्रयसाक्षित्वमात्मनः कथमिति चेत्, आत्मनि साक्षिलक्षणस्य विद्यमानत्वादिति ब्रूमः । साक्षिलक्षणं किमिति चेत्, लोक एकस्य पुरुषस्यान्यदीयावस्थाया अवस्थाव्यापाराणामन्यस्य तस्य चावस्थावतो विकारराहित्येन साक्षाद्रष्टुत्वं साक्षित्वम्, यथा तूष्णीमेव स्थितस्य संन्यासिनस्तत्रागतपुरुषतदवस्थातद्व्यापाराणां निर्विकारतया साक्षाद्रष्टृत्वं साक्षित्वम् । आत्मापि जीवानामवस्थात्रयमवस्थात्रयव्यापारानवस्थावतो जीवांश्च पश्यन्नपि निर्विकारतया अवतिष्ठते ॥

इदमेव साक्षित्वं दृष्टान्तपूर्वकं पुनरपि कथ्यते । तच्छृणु । एकमहानगरवज्जाग्रदवस्था । तत्र प्राकारवत्स्वप्नावस्था । तदन्तः प्रासादवत्सुषुप्त्यवस्था । तत्त्रयाभिमानिप्रभुवदवस्थात्रयाभिमानी जीवः । यथा स प्रभुः प्राकाराद्बहिर्वर्तमानः प्रियाप्रिये अनुभूय हर्षविषादं च प्राप्य तत्प्राकारस्यान्तश्च प्रियाप्रिये अनुभूय हर्षं विषादं च प्राप्य ततः प्रासाद आगत्य सर्वान्व्यापारान्विहाय तूष्णीं स्त्रिया सह सुखमनुभवन्नास्ते, एवं जीवात्मापि स्थूलशरीराभिमानी जाग्रदवस्थायां त्रिविधकरणव्यापारयुक्तः सन्विश्वो भूत्वा सूक्ष्मशरीराभिमानी स्वप्नावस्थायां मनोमयत्रिविधकरणगुणदोषव्यापारयुक्तः संस्तैजसो भूत्वा पश्चात्कारणशरीराभिमानी सुषुप्त्यवस्थायां त्रिविधकरणगणमुपसंहृत्य प्राज्ञो भूत्वा नित्यानन्दमनुभवन्नास्ते । एवमात्मा कूटस्थ आकाशवदसङ्ग एव सन्नवस्थात्रयेऽपि प्रत्यक्चैतन्यसाक्षिरूपेण वर्तत इति श्रुतियुक्त्यनुभवैर्ज्ञातव्यम् । 'साक्षी चेता केवलो निर्गुणश्च' इति श्रुतिः । पत्तनाकाशदृष्टान्तो युक्तिः । अनुभवः क इति चेत्, पूर्वपूर्वदिनावस्थात्रयमस्माभिः प्रतिदिनं स्मर्यते, स्मरणस्यानुभवपूर्वकत्वनियमादस्माभिरवस्थात्रयमनुभूयत एवेति सिद्धम् । एवमात्मना आगतानामागामिनां चावस्थानां क्रमेणानुभूयमानत्वादनुभवरूपस्यात्मनो नित्यत्वमपि सिद्धम् । एवमवस्थात्रयसाक्षित्वम् ॥

ननु लोके अवस्थावत एव पुरुषस्य स्वावस्थासाक्षित्वं दृश्यते । भवद्भिः कथमन्यस्यान्यावस्था साक्षित्वमुच्यत इति चेत्, शृणु । अयमवस्थावानन्तःकरणे प्रतिफलितश्चेतनाभासः । स कल्पितो मिथ्याभूतः । स एव जीव इत्युच्यते । तस्य सुषुप्तावन्तःकरणलयेन विनष्टत्वात्स कथं सुषुप्तिसाक्षी स्यात् ? तिसृणामप्यवस्थानामेकसाक्षित्वनियमाद्बिम्बभूतस्यात्मन एव सुषुप्तिसाक्षित्वं मन्तव्यम् । तर्हि स एव लाघवेन जाग्रत्स्वप्नयोरपि साक्षीति वक्तुं योग्यः । जीवस्य विकारित्वादपि साक्षित्वं न युज्यते । आत्मनस्तु निर्विकारत्वात्साक्षित्वं युज्यते । जीवः कथं विकारीति चेत् । तस्य 'अहं सुखी' 'अहं दुःखी' इत्यादिरूपेणान्तःकरणवृत्तितादात्म्येन विकारित्वदर्शनाद्विकार्येव ॥

तर्हि जीवव्यतिरेकेणान्यः को वा आत्मा यः साक्षीत्युच्यते ? तस्य किं लक्षणम् ? तस्यास्तित्वे किं प्रमाणम् ? तस्य ज्ञाने क उपायः ? इति चेत्, शृणु । निर्विकारः कूटस्थ एव साक्षी । स एवात्मा । स आकाशवत्सर्वव्यापकः सच्चिदानन्दरूपः । स एवान्तःकरणेषु जीवरूपेण प्रविष्टः सन्संसरति । एवंरूपपारमार्थिकात्मनि वेदान्ताः सर्वेऽपि प्रमाणम् । अवस्थावान्यो जीवश्चिदाभासः स इदानीं जागर्ति, इदानीं स्वनं पश्यति, इदानीमज्ञानमोहितः सन्सुषुप्तौ वर्तते, इदानीं सुखी, इदानीं दुःखी, इदानीमुदासीन आस्ते इत्यस्य जीवस्यावस्थाभेदं सर्वमपि चिद्रूपो यो जानाति स एवात्मा अवस्थात्रयसाक्षीति जानीहि । तस्यात्मनः स्वस्य निर्विकारत्वं कथं ज्ञायत इति चेत्, स्वमुखसौन्दर्यं स्वेन ज्ञातुमशक्यमपि दर्पण प्रतिबिम्बितमुखेन यथा ज्ञातुं शक्यते, तथा आत्मनो निर्विकारत्वमप्यन्तःकरणप्रतिबिम्बेन ज्ञातुं शक्यते । दर्पणं दर्पणप्रतिबिम्बितमुखं च बिम्बभूतमुखं यथा न जानाति, तथा अन्तःकरणमन्तःकरणप्रतिबिम्बितजीवश्च बिम्बभूतमात्मानं न जानाति । तर्ह्ययमात्मा केन ज्ञायते ? न केनापि ज्ञायते, ज्ञायमानस्य सर्वस्य दृश्यत्वादात्मनो दृग्रूपत्वात् स्वयंप्रकाश एवात्मा न त्वन्येन केनापि ज्ञायते । तत्कथमिति चेत् । दृश्यो घटो द्रष्टारं न हि जानाति । स द्रष्टा च स्वात्मानं स्वयमेव जानाति स्वयंप्रकाशत्वात् । यथा मृत इति प्रतीयमानो दशमः पुरुषः पश्चात्तं स्वात्मानं स्वयमेव जानाति, न तु नवस्वन्यतमेन ज्ञायते, तथैवात्मा अनुभवस्वरूप एव न त्वन्येनानुभाव्य इतीममर्थं त्वमेव प्रमाणपुरःसरं जानीहि ॥

तर्हि प्रमाणं किमिति चेत्, भृणु । प्रत्यक्षमित्यनुमानमित्युपमानपिति शब्द इति च चत्वारि प्रमाणानि । पुनश्चार्थापत्तिः सम्भव ऐतिह्यमनुपलब्धिरिति च चत्वारि प्रमाणानि सन्ति । पश्चादुक्तानां चतुर्णां पूर्वोक्तेषु चतुर्ष्ववान्तर्भाव इति सिद्धान्तः । वेदान्तिनश्च केचित्षट् प्रमाणान्युदाहरन्ति । एतेषां लक्षणादिकमतिविस्तृतम् । अस्माकं यावदावश्यिकं तावन्मात्रमुच्यते । अक्षमिन्द्रियम् । इन्द्रियेण जन्यं प्रमाणं प्रत्यक्षप्रमाणम् । धूमादिलिङ्गेन जायमानमनुमानम् । सादृश्येन जायमानमुपमानम् । आप्तवाक्यं शब्दः । आत्मन इन्द्रियागोचरत्वात्तत्र न प्रत्यक्षं प्रमाणं प्रवर्तते । निरंशत्वात्तत्रात्मनि नानुमानं प्रवर्तते । अद्वितीयत्वान्नोपमानम् । तस्मादात्मनि शब्द एव प्रमाणम् । आप्तवाक्यं शब्दः । आप्तश्च यथार्थवक्ता । अत ईश्वरवाक्यं श्रुतिरेव शब्दः । तस्माच्छ्रुतिरेवात्मनि प्रमाणम् ॥

पूर्वोक्तसाक्षिरूपं संन्यासिनं तेन दृष्टाः पुरुषतदवस्थातद्वयापारगुणदोषा यथा न स्पृशन्ति, एवमात्मानं दृश्यमाना अहङ्कारतदवस्थातद्व्यापारगुणदोषा न स्पृशन्ति । एवं यो भाग्यशाली पुरुषः साक्षिमात्रमात्मानमहङ्कारादिभिरस्पृष्टं चैतन्यमात्रं श्रुतिभिर्जानाति स एव जीवन्मुक्तः । तथैव श्रुतिरपि वदति । हे पुत्र, तत्त्वमपि वेदान्तशास्त्रमात्मनि प्रमाणमिति विश्वस्य तदुक्तप्रकारेणावस्थात्रय साक्षिणमात्मानं जानीहि ॥

॥ इति नवमवर्णकम् ॥