सामग्रीं त्यजन्तु

लघुवासुदेवमननम् — द्वादशवर्णकम्

अस्मिन्द्वादशवर्णके आत्मनोऽखण्डार्थं रहस्यमपि कृपया गुरुरुपदिशति ॥

शिष्यः – हे स्वामिन् भवद्भिरेकादशसु वर्णकेषूपदिष्टैरथैर्देहादिपञ्चकोशेषु 'अहम्' 'मम' इत्यात्मात्मीयत्वबुद्धिर्गलिता । 'बुद्धिप्रकाशकं सच्चिदानन्दरूपं यद्ब्रह्म तदेवाहम्' इत्यात्मज्ञानमागतम् । सर्वे संशया नष्टाः । तथाऽपि पुनरेकः संशयो वर्तते । स क इति चेत्, शृणु । अयमात्मा सद्रूप इति चिद्रूप इत्यानन्दरूप इति चोक्तं किल । एवं त्रिविधरूपप्रतिपादकानि त्रीण्यपि पदानि त्रिविधभेदभिन्नार्थं प्रतिपादयन्ति तथा भिन्नार्थकानीव मम प्रतिभान्ति । तस्मादेतस्य सच्चिदानन्दपदत्रयस्य भिन्नार्थवत्प्रतीयमानस्याखण्डार्थत्वं कथं सिध्येत् । इति शिष्यवचः श्रुत्वा गुरुरुपदिशति – हे पुत्र, अखण्डार्थः क इति चेत् । देशपरिच्छेदः कालपरिच्छेदो वस्तुपरिच्छेद इति त्रिविधपरिच्छेदरहिततया अपरिच्छिन्नोऽर्थोऽखण्ड इति जानीहि । तर्ह्यखण्डस्यैतानि त्रीणि लक्षणानि किमर्थानीति चेत्, शृणु । आकाशस्यापि व्यापकत्वेन देशपरिच्छेदरहितत्वात्तत्रातिव्याशिवारणाय कालपरिच्छेद उपात्तः । आकाशस्योत्पत्तिविनाशवत्वेन कालपरिच्छेदोऽस्तीति न तत्रातिव्याप्तिः । देशकालपरिच्छेदमात्रोपादाने कालेऽतिव्याप्तिः । कालस्य देशपरिच्छेदो नास्ति, कालपरिच्छेदोऽपि नास्ति स्वस्य स्वेनैव परिच्छेत्तुमशक्यत्वात् । अत उक्तं वस्तुपरिच्छेदरहित इति । कालस्य स्वभिन्नवस्तुसद्भावाद्वस्तुपरिच्छेदोऽस्ति । आत्मन एवैतत्त्रिविधपरिच्छेदराहित्यमस्ति । अतस्त्रीणि लक्षणान्युक्तानीति विज्ञेयम् ॥

ननु भवद्भिरुक्तमखण्डार्थलक्षणमात्मनि प्रदर्शयितव्यम्, आत्मन एवाखण्डार्थत्वात् । तच्चात्मनि न दृश्यते । तत्कथमिति चेत्, उच्यते – सर्वेषाम् 'अस्मिन्देशे तिष्ठामि, तस्मिन्देशे न तिष्ठामि' इत्यनुभवेन देशपरिच्छेदराहित्यं नास्ति । 'अहमस्मिन्वर्षे जातः, इतः परं दशमे वर्षे मरिष्यामि' इत्यनुभवेनात्मनः कालपरिच्छेदराहित्यं नास्ति । 'नाहं ब्राह्मणः' 'नाहं क्षत्त्रियः' इत्याद्यनुभवादात्मनो वस्तुपरिच्छेदराहित्यमपि नास्ति । भवद्भिस्त्रिविधपरिच्छेदशून्य आत्मेति कथमुक्तमिति चेत्, शृणु । मया पूर्वं तवैकादशवर्णक आत्मानात्मलक्षणकथनात्रसरे 'आत्मा परिपूर्णः' 'अनात्मा परिच्छिन्नः' 'दृश्यं सर्वमध्यस्तम्' इत्युपदिष्टं खलु ? तथाऽपीदानीमात्मलक्षणं प्रति शङ्कां करोषि । तस्मात्त्वं शिष्यो वा प्रतिवादी वेति संदेहः । शिष्यश्चेत्कृपया पुनरप्यनुग्रहं कुर्मः । प्रतिवादी चेत्क्षमया तूष्णीं भविष्यामः, अथ वा कोपेन शप्स्यामः । भवतां कोपो वादिनि फलिष्यति वेति चेत् । शिष्ये उपदेशार्थं क्रियमाणोऽनुग्रहः फलिष्यति चेद्वादिनि क्रियमाणो निग्रहोऽपि फलिष्यति । लोके निग्रहानुग्रह सामर्थ्यवत ईश्वरस्य ब्रह्मज्ञानिनश्च भेदो नास्तीति जानीहि ॥

तर्हि हे स्वामिन्, सद्गुरोः कृपापात्रभूतः शिष्य एवाहम्, ममैकः संदेहो जातः, तस्मादेवं पृष्टवान्, न तु कुतर्केणेति चेत्, शृणु । इदं देशकालवस्तुपरिच्छेदत्रयं स्वभावतो देहस्यैव । न तु परिपूर्णप्रत्यगात्मनः परिच्छेदत्रयमस्ति । प्रत्यगात्मस्वरूप परिपूर्णब्रह्मणो देशपरिच्छेदो नास्तीत्येतत्कथं ज्ञातव्यमिति चेत्, शृणु । 'घटः सन्' 'पटः सन्' 'कुड्यं सत्' 'कुसूलं सत्' इति 'पृथिवी सती' 'आपः सत्यः' 'तेजः सत्' 'वायुः सन्' 'आकाशः सन्' इति चैवं भूतभौतिकप्रपञ्चे सद्रूपेणानुभूयमानत्वादात्मनो विभुत्वम् । एवं सर्वव्यापकस्यात्मानो देशपरिच्छेदो नास्ति । आत्मनः पूर्वोक्तप्रकारकयुक्त्या अनादित्वेन नित्यत्वाद्भविष्यत्कालपरिच्छेदो नास्ति । एवं भूतकालभविष्यत्काल सम्बद्धस्यात्मन एकत्वाद्वर्तमा नकालपरिच्छेदो नास्ति । वस्तुपरिच्छेद राहित्यमात्मनः कथमिति चेत्, शृणु । आत्मनः सर्वात्मकत्वाद्वस्तुपरिच्छेदो नास्ति । वस्तूनि कानीति चेत्, सजातीयभेदभिन्नं विजातीयभेदभिन्नं स्वगतभेदभिन्नमिति वस्तूनि । तानि वा कथमिति चेत् । वृक्षस्य वृक्षान्तरात्सजातीयभेदः । वृक्षस्य शिलादेर्विजातीयभेदः । वृक्षस्य पत्रपुष्पफलादेः स्वगतभेदः । अस्य त्रिविधस्यापि भेदस्यात्मन्यभावादात्मा भेदशून्यः । अत एवात्मनो वस्तुपरिच्छेदो नास्तीति जानीहि ॥

नन्वात्मनः सजातीयविजातीयस्वगतभेदा न सन्तीति वक्तुं न शक्यते । कथमिति चेत् । एकमेव चैतन्यं ब्रह्मचैतन्यमितीश्वरचैतन्यमिति कूटस्थचैतन्यमिति जीवचैतन्यमिति च वर्तते । अतः सजातीय भेदोऽस्ति । आत्मस्वरूपं ब्रह्मेत्यनात्मस्वरूपं प्रपञ्च इति द्वयोर्वर्तमानत्वाद्विजातीय भेदोऽस्ति । ब्रह्मणि सच्चिदानन्द इति त्रयस्य वर्तमानत्वात्स्वगतभेदोऽस्ति । एवं भेदत्रये स्थिते आत्मनो भेदत्रयं नास्तीति कथमिति चेत्, शृणु । आकाश एक एवोपाधिभेदेन महाकाश इति मेघाकाश इति घटाकाश इति घटजलप्रतिबिम्बिताकाश इति च भेदेन यथा प्रतीयते, तथा मायोपाधिनैकमेव चैतन्यं ब्रह्मेतीश्वर इति च, अविद्योपाधिना कूटस्थ इति जीव इति च केवलं प्रतीयते । विचार्यमाणे सजातीयभेदो नास्ति । विजातीयभेदः कथं नास्तीति चेत्, शृणु । रज्जुं विना यथा सर्पो नास्ति, आकाशं विना यथा तलमालिन्यं नास्ति, एवमात्मानं विना अनात्मापि नास्ति । अधिष्ठानं विना आरोपितं सर्वं मिथ्यैव । मिथ्या नाम वन्ध्यापुत्रशशविषाणादिवत्कालत्रयेऽप्यविद्यमानम् । अनात्मनः परमार्थतोऽविद्यमानत्वादात्मनो विजातीयभेदो नास्ति । स्वगतभेदः कथं नास्तीति चेत्, शृणु । 'आत्मा' 'साक्षी' 'कूटस्थः' 'पारमार्थिकः' ''प्राज्ञः' 'ब्रह्म' 'सत्' 'चित्' 'आनन्दः' 'नित्यः' 'एकः' 'परिपूर्णः' इत्यादिविधिवाक्यनामानि च 'अस्थूलम् ' 'अनणु' 'अद्वैतम्' 'अचिन्त्यम्' 'अविकारि' 'अविनाशि' 'अकर्ता' 'अकारयिता' इति निषेधवाक्यनामानि चैकस्मिनिर्विशेषात्मस्वरूपप्रकाशन एव तात्पर्यवन्ति न तु स्वरूपभेदे, आत्मनो निर्विशेषत्वाभिरंशत्वाच्च । तस्मात्स्वगतभेदो नास्तीत्येवं जानीहि ॥

ननु सच्चिदानन्दपदानां भिन्नार्थत्वाद्धस्तकरपाणिवत्पर्यायत्वाभावात्तैः पदैः प्रतिपाद्यमानस्यात्मनः 'वृक्षः पत्रपुष्पफलरूपेण वर्तते' इत्यत्र पत्रादिपदानां भिन्नार्थत्वात्चैः पदैः प्रतिपाद्यमानस्य वृक्षस्येव स्वगतभेदेन भवितव्यमिति चेत् । 'लोहितोष्ण प्रकाशो दीपः' इत्यत्र यथा दीपस्य स्वगतभेदो नास्ति, एवम् ' सच्चिदानन्दरूप आत्मा' इत्यत्रापि स्वगतभेदो नास्ति । न च तर्हि 'पत्रपुष्पफलरूपो वृक्षः' इत्यत्रापि स्वगतभेदो न स्यादिति वाच्यम् । तत्र वृक्षस्य सर्वस्यापि पत्रादिरूपत्वं नोच्यते । एकस्मिन्प्रदेशे पत्ररूप एकस्मिन्प्रदेशे पुष्परूप एकस्मिन्प्रदेशे फलरूप इत्युच्यते । अतस्तत्र स्वगतभेदोऽस्ति । 'सच्चिदानन्दरूप आत्मा' इत्यत्र सर्वांशेनाप्यात्मनः सच्चिदानन्दरूपत्वस्य प्रतिपाद्यमानत्वात् 'लोहितोष्णप्रकाशो दीपः' इति सर्वांशेनापि लोहितोष्ण प्रकाशत्वेन प्रतिपाद्यमानस्य दीपस्येव स्वगतभेदो नास्ति ॥

एवं चेच्छ्रुतिः 'आत्मा सद्रूपश्चिद्रूप आनन्दरूपः' इति पुनः पुनः किमर्थमुपदिशति, एकेनैवोपदेशेनात्मनोज्ञातुं शक्यत्वादिति चेत्, शृणु श्रुतेस्तात्पर्यं ब्रवीमि । कथमिति चेत् । आत्मनिष्ठं सत्त्वं जगति, चित्त्वं जडेषु बुद्धयादिषु, आनन्दत्वं पुत्रभार्यादिषु च जगन्निष्ठमसत्त्वं बुद्धयादिनिष्ठं जडत्वं पुत्रभार्यादिनिष्ठं दुःखत्वं च सच्चिदानन्द आत्मनि च परस्परं वैपरीत्येनाविद्यया आरोपितम् । अतः 'सर्वं जगत्सत्यम्' 'बुद्धयादयश्चेतनाः' 'पुत्रभार्यादय आनन्दरूपाः' 'अहं नश्वरः' 'अहं जडः' 'अहं दुःखी' इति च परिभ्रमन्ति । एतद्भान्तिनिवृत्तये मातृभूता श्रुतिर्जीवान्प्रत्युपदिशति । कथमिति चेत् । 'हे जीवाः, यूयं सच्चिदानन्दरूपा एव' इति बोधनार्थम् ' आत्मा सद्रपो नानृतरूपः, चिद्रपो न जडरूपः, आनन्दरूपो न दुःखरूपः' इति तद्भान्तिनिवृत्त्यर्थं बोधयतीति जानीहि । श्रुतिरात्मनः सच्चिदानन्दरूपेण भेदं न बोधयति । लोके केचन वादिनः 'आत्मनः सत्वं धर्मः, चित्त्वं सुखं च गुणौ, अत आत्मा सच्चिदानन्दस्वरूपो न भवति' इति कथयन्ति । तन्निवारणार्थमपि श्रुतिः 'आत्मा सच्चिदानन्दस्वरूपः' इति वदतीत्यवगन्तव्यम् । भवद्भिः श्रुतेस्तात्पर्यमेवमिति कथं ज्ञातमिति चेत् । सर्वासामपि श्रुतीनामुपक्रमोपसंहारादिषड्लिङ्गैरखण्डार्थे तात्पर्यस्यावधारणादिति मन्तव्यम् ॥

हे स्वामिन् एवं श्रुत्यैवाखण्डार्थः साधितः, इतः परं युक्त्यापि कृपया साधनीय इति चेत्, शृणु । सत्स्वयमेव प्रकाशते वाऽन्येन वा प्रकाशते ? आद्ये सदेव चित्स्यात् । अन्येन चेत्सतः प्रकाशकं तदन्यद्वस्तु सद्विलक्षणं वा सदन्तरं वा ? सद्विलक्षणत्वे तस्य शशविषाणादिवदसत्वेन तस्य सत्प्रकाशकत्वं न सम्भवति । सदन्तरमिति पक्षे तत्सदन्तरं स्वयं प्रकाशते वाऽन्येन प्रकाशते वेति विकल्पे, आद्यपक्षे सत एव स्वयंप्रकाशत्वे चित्वं स्यात्, अन्येन प्रकाशत इति पक्षे पुनरपि विकल्पः पूर्ववदायाति । एवं विकल्पे क्रियमाणे आत्माश्रयदोषोऽन्योन्याश्रयदोषश्चक्रकापत्तिदोषोऽनवस्थादोष इति बहवो दोषा आपतेरन् । तस्मात्सत्स्वयमेव प्रकाशते । सतः स्वयंप्रकाशत्वे सदेव चिच्चिदेव सत् । उभयमप्येकमेव । सदन्तरमस्तीति वेदेषु न कुत्रापि दृश्यते । अतः सत्स्वयमेव प्रकाशत इति निश्चयः । अतः सदेव चिदिति सिद्धम् । तस्य स्वयं प्रकाशमानस्य सत आनन्दत्वं कथमिति चेत्, उच्यते – सतोऽद्वैतत्वादानन्दत्वम् । आनन्दः परिपूर्ण एव तिष्ठति । नाल्पे पूर्णत्वम् । पूर्णत्वं च सतोऽद्वैतस्यैव न द्वैतस्य । कथं सदद्वैतमिति चेत् । हे पुत्र, सतः सद्वितीयत्वं सदन्तरेण वा सद्विलक्षणेन वा वद । नाद्यः, सदन्तरस्य शास्त्रेण युक्त्या अनुभवेन चासिद्धत्वात् । न द्वितीयः, सद्विलक्षणस्य शशविषाणवत्स्वरूपाभावेन तेन सद्वितीयत्वस्य वक्तुमशक्यत्वात् । अस्माद्विकल्पद्वयादन्यो विकल्पो नास्ति । अत एकस्य सतो द्वितीयाभावादद्वैतत्वं सिद्धम् । तेन पूर्णत्वं सिद्धम् । तेन स्वप्रकाशसदेवानन्दः । एवं युक्त्यापि सच्चिदानन्दपदानामखण्डार्थत्वं जानीहि ॥

अथानुभवेनाखण्डार्थत्वं साध्यते । अखण्डार्थत्वमेकादशवर्णकेऽप्युक्तम् । तथाऽपि पुनरुच्यते दार्ड्यार्थम् । शृणु । सर्वेषां सुषुप्तावेकं सुखं भाति । तत्सुखं जाग्रत्स्वप्नयोरिव न नानारूपम् । किं त्वेकरूपं निर्बाधम् । तस्मात्सुखमद्वैतमेव । तस्यामवस्थायां सूर्याद्यालोकानपेक्षं सौषुप्तानन्दस्य प्रकाशमानत्वात्तस्य चित्त्वम् । तस्य सौषुप्तानन्दस्य स्वयंप्रकाशत्वे किं प्रमाणमिति चेत । सुप्तोत्थितस्य 'एतावन्तं कालं सुखमहमस्खाप्सम्' इति स्मरणमायाति । स्मरणस्यानुभवपूर्वकत्व नियमात्सौषुप्तसुखस्यानुभवो वक्तव्यः । तदानीमनुभवकारणस्येन्द्रियादेरभावात्सोऽनुभवः सौषुप्तानन्दस्य स्वयंप्रकाशत्वादेवेति जानीहि॥

ननु सुषुप्तावनुभवेन सुखं च प्रकाशतेऽज्ञानं च प्रकाशते । तयोर्मध्ये सुखं वा अज्ञानं वा स्वप्रकाशं वस्त्विति विचार्यमाणे सुखमेव स्वप्रकाशमिति वक्तव्यम् । नाज्ञानम्, तस्यावरणरूपत्वेन प्रकाशाभावात् । अतः सुषुप्तावात्मरूपं सुखमेव स्वप्रकाशं सत्स्वस्मिन्नारोपितमज्ञानमपि प्रकाशयति । अतस्तत्सुखं स्वप्रकाशमेवेत्यनुभवेनापि सच्चिदानन्दपदानामखण्डार्थत्वं सिद्धम् ॥

एवं श्रुतियुक्त्यनुभवैरात्मनः स्वगतभेदोऽपि नास्ति । एवं सजातीयविजातीयस्वगत भेदानामभावाद्वस्तुपरिच्छेदो नास्ति । एवं देशकालवस्तुपरिच्छेदाभावेनात्मा परिपूर्ण इति सिद्धम् । अनेनाखण्डैकरसत्वं सिद्धम् ॥

हे पुत्र, परिपूर्णानन्दात्मनो दुःखमागन्तुकम् । तद्दुःखं शरीरेण, शरीरं कर्मणा, कर्म रागादिना, रागादिरभिमानेन, अभिमानोऽविवेकेन, अविवेकोऽज्ञानेन, चागत इति ज्ञात्वा तदज्ञानं ज्ञानेन बाधितव्यमिति, ज्ञानं च विचारेणागच्छतीति च, आत्मा सत्यज्ञानानन्दस्वरूप इति च देहादिप्रपञ्चोऽनृतजडदुःखरूप इति च, स प्रपञ्चोऽध्यारोप इति चैवं विचार्य तत्त्वंपदवाक्यजन्यज्ञानेन स्वात्मनः 'अहं ब्रह्मास्मि' इति यत्परोक्षज्ञानं तदनुभवेन साक्षात्काररूपं यदपरोक्षज्ञानमेतच्च यः प्राप्नोति, स एव 'चण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम' इति भगवत्पादाचार्यवचनात्कुटीचकबहूदकहंससंन्यासिभ्योऽधिकतया पूजनीयः, स एव परमहंस इति निश्चित्य त्वमपि मदुक्तप्रकारेणात्मानं सम्यक्श्रुत्वा मत्वा ध्यात्वा साक्षात्कृत्य नित्यशुद्धबुद्धमुक्तसत्यपरमानन्दाद्वयब्रह्मरूपेण तिष्ठ । एतावदेवाचार्यैर्वक्तव्यं शिष्येण च श्रोतव्यम् । इतः परं वक्तव्यं श्रोतव्यं च नास्तीति सिद्धम् ॥

इति द्वादशवर्णकम् ॥

समाप्तश्चायं ग्रन्थः ॥