मुखपृष्ठम् · ⬆ लघुवासुदेवमननम् · ← · →
लघुवासुदेवमननम् — अष्टमवर्णकम्¶
इतः परमात्मनः पूर्वोक्तशरीरत्रयविलक्षणत्वमवस्थात्रयसाक्षित्वं पञ्चकोशव्यतिरिक्तत्वं सच्चिदानन्दस्वरूपत्वं च चत्वारि लक्षणानि क्रमेण चतुर्भिर्वर्णकैरुच्यन्ते । एतेषु शरीरत्रयविलक्षणत्वं पञ्चकोशव्यतिरिक्तत्वं चातद्व्यावृत्तिलक्षणम, अवस्थात्रयसाक्षित्वं तटस्थलक्षणम्, सच्चिदानन्दस्वरूपत्वं स्वरूपलक्षणम् । तथा आकाशादिशरीरत्रयान्तं दृश्यजातं 'नेति नेति' इति वाक्येन विहायावशिष्टं वस्त्वात्मेत्यतद्व्यावृत्तिलक्षणम्, 'अस्य प्रपञ्चस्य यदधिष्ठानं तदात्मवस्तु' इति तटस्थलक्षणम्, 'सच्चिदानन्दः पूर्णं नित्यमात्मवस्तु' इति स्वरूपलक्षणम् ॥
अस्मिन्नष्टमवर्णके शरीरत्रयविलक्षणत्वमुच्यते । शरीरत्रयस्याज्ञाने तद्विलक्षणत्वमपि दुर्विज्ञेयमिति प्रथमतः शरीरत्रयमुच्यते । स्थूलं सूक्ष्मं कारणमिति शरीरं त्रिविधम् । तत्र सर्वेषां प्रत्यक्षं करचरणाद्यवयवोपेतं स्तम्भवद्वर्तमानं यत् तत्स्थूलशरीरम् । सप्तदशावयवकं सूक्ष्मशरीरम् । अज्ञानमेव कारणशरीरम् । एतेषां शीर्यते क्षीयत इति व्युत्पत्त्या शरीरमिति नाम । तथा हि – इदं स्थूलशरीरमन्नाभावे शीर्यते, अन्ने विद्यमानेऽपि व्याधिना शीर्यते, तदभावेऽपि वयःपरिणामेन शीर्यते । पल्लवमिव सूक्ष्मशरीरमपि कदाचिद्वर्धते कदाचित्क्षीयते । रागद्वेषाद्यन्तःकरणवृत्तिविजृम्भणमेव सूक्ष्मशरीरस्य वृद्धिः, तासां संकोच एव जीर्णता । कारणशरीरस्यापि 'अहं जीवः' इति वृद्धिः, 'अहं ब्रह्मास्मि' इति संकोचः । अनयोः सूक्ष्मकारणशरीरयोरुक्तरूपा वृद्धिरज्ञानिषु दृश्यते, संकोचश्च ज्ञानिषु दृश्यते । एवं शरीरत्रयस्यापि जराया दर्शनेन 'शरीरम्' इति नाम । एतेषां 'देहः' इति नाम च 'दह्यते' इति व्युत्पत्त्या आगतम् ॥
ननु लोके सर्वोऽपि स्थूलदेहोऽग्निना दह्यते, सूक्ष्म शरीरं कारणशरीरं च न कदाचिदप्यग्निना दह्यते, तत्कथमिति तेषां देहत्वमिति चेतुं – अग्नेरप्यधिकेन तापत्रयेण सर्वमपि शरीरं दह्यते, अतः शरीरत्रयस्यापि देह इति नाम युज्यते । स्थूलशरीरस्य स्तम्भवत्स्थूलभूतकार्यत्वेन स्थूलत्वम् । सूक्ष्मशरीरस्य स्थूलशरीरवत्स्थूलत्वाभावात्सूक्ष्मभूतजन्यत्वाच्च सूक्ष्मत्वम् । लीनं शब्दाद्यर्थं गमयतीति 'लिङ्गम्' इत्यपि नामास्यागतमिति ज्ञेयम् । स्थूलसूक्ष्मशरीरद्वयकारणस्य कारणशरीरमिति नाम ॥
हे स्वामिन् पूर्वं स्थूलं सूक्ष्ममिति शरीरद्वयमपि पञ्चभूतेभ्य उत्थितमित्युक्तम्, इदानीं कारणशरीरादुत्थितमिति कथमुच्यत इति चेत्, शृणु । अध्यारोपसृष्टौ तथा पञ्चभूतोत्थितमित्युक्तम् । तत्तथैव । आत्मनः शरीरवत्त्वेऽज्ञानं कारणमिति युगपत्सृष्टौ सर्वस्यापि जगतोऽज्ञानमेव कारणमिति कृत्वा शरीरद्वयस्याप्यज्ञानमेव कारणमित्युक्तम् । कथं क्रमसृष्टिः कथं युगपत्सृष्टिरिति चेत्, उच्यते । मूलप्रकृतिर्माया अविद्या आवरणं विक्षेप आकाशो वायुरग्निरापः पृथिवीति क्रमेणोत्पत्तिकथनं क्रमसृष्टिः । सर्वोऽपि प्रपञ्च आत्माज्ञानेन जात इति कथनं युगपत्सृष्टिः । ननु स्थूलस्य प्रत्यक्षेणानुभूयमानत्वात्तत्र न संदेहः, सूक्ष्मशरीरस्य बहिरप्रतीतेस्तदस्तीति ज्ञानं कथं जायत इति चेत्, शृणु । सप्तदशकरणकार्यैस्तत्सूक्ष्मशरीरं ज्ञातुं शक्यम् । तत्सप्तदशकरणकार्यमपि स्थूलशरीरेण कर्तुं न शक्यते वेति चेत्, सुषुप्तिमूर्च्छामरणेषु स्थूलशरीरे विद्यमानेऽपि सप्तदशकरणकार्याणामदर्शनाज्जाग्रत्स्वप्नयोस्तत्कार्यदर्शनाच्च । स्थूलशरीरव्यतिरेकेण सप्तदशावयवात्मकं लिङ्गशरीरमस्त्येवेत्यवगन्तव्यम् ॥
इदं सूक्ष्मशरीरमपि स्थूलशरीरं विना न कदापि कार्यं करोति, अत उभयमपि दर्शनादिकार्यं करोत्विति चेत्, शृणु। विवेकेन विचार्यमाणे दर्शनादिकार्यं सकलमपि सूक्ष्मशरीरसाध्यमेव, न तु स्थूलसाध्यम् । कथमिति चेत् । काष्ठमाश्रित्याग्निर्दाहपाकादिकर्म करोति, काष्ठाभावे न करोति, तथाप्यग्निकार्यमेव दाहपाकादि, न तु काष्ठकार्यं यथा, तथा स्थूलशरीरमाश्रित्य तेन सूक्ष्मशरीरेण क्रियमाणमपि दर्शनादिकं सूक्ष्मकार्यमेव न तु स्थूलकार्यम् । अतो दर्शनादिकार्येणानुमेयं सप्तदशावयवकं सूक्ष्मशरीरमित्युक्तम् । ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं प्राणपञ्चकं मनो बुद्धिचेति सप्तदशावयवाः । एतत्सप्तदशकं सूक्ष्मशरीरम् ॥
श्रोत्रत्वक्षुर्जिह्वाप्राणानि ज्ञानेन्द्रियाणि । शब्दस्पर्शरूपरसगन्धा एतेषां विषयाः । तेषां ज्ञानसाधनत्वाज्ज्ञानेन्द्रियत्वम् । सुखप्रकाशाभिव्यञ्जकसत्त्वगुणकार्यत्वादेतेषां ज्ञानसाधनत्वम् । वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाणि । वचनादानगमनविसर्गानन्दनरूपक्रियासाधनत्वेन तेषां कर्मेन्द्रियत्वम् । चश्चलमलिनरजोगुणकार्यत्वेनैतेषां क्रियासाधनत्वम् । प्राणापानव्यानोदानसमानाः प्राणाः । त उच्छ्रासनिःश्वासादिव्यापारैः शरीरधारकत्वाद्वलप्रदत्वाच्च प्राणसंज्ञाः । तादृशसामर्थ्यं च तेषां रजोगुणजन्यत्वादिति ज्ञेयम् । विमर्शात्मकान्तःक रणवृत्तिर्मनः । निश्चयात्मकान्तःकरणवृत्तिर्बुद्धिः । एवं सूक्ष्मशरीरस्य सप्तदशावयवाः ॥
लोक एकस्मिन्वस्तुनि ज्ञातव्य उद्देशो लक्षणं परीक्षा चेत्युपायत्रयमस्ति । तत्र वस्तुनामग्रहणमात्रमुद्देशः । वस्तुस्वरूपग्रहणं लक्षणम् । वस्तुस्वरूपविचारः परीक्षा । सप्तदशावयवनामग्रहणेनोद्देशो जातः । इतः परं लक्षणं परीक्षां च वदामः । लक्षणं नामाव्याप्त्यतिव्याप्त्यसम्भवरूपदोषत्रयरहितोऽसाधारणधर्मः । लक्ष्यैकदेशे लक्षणस्थावर्तनमव्याप्तिः । यथा कपिला गौरिति । अलक्ष्येऽपि लक्षणस्य वर्तनमतिव्याप्तिः । यथा चतुष्पाद्गौरिति । लक्ष्ये क्वापि लक्षणस्यावर्तनमसम्भवः । यथैकशफा गौरिति । दोषत्रयरहितोऽसाधारणधर्मो लक्षणं किमिति चेद्रोः सास्त्रादिमत्त्वम् ॥
तद्वज्ज्ञानेन्द्रियाणां किं लक्षणमिति चेत्क्रमेण कथयिष्यामः ॥
तत्र श्रोत्रेन्द्रियं किमिति चेत्, दिग्रूपाधिष्ठानदेवतया प्रेरितं सत्कर्णशष्कुल्यवच्छिन्ननभोदेशे स्थित्वा अष्टादशभाषाणां वेदशास्त्राणां चेदमित्थमिति ज्ञातृ यदिन्द्रियं तच्छ्रोत्रम् । परीक्षा कीदृशीति चेत् – कर्णशष्कुल्यवच्छिन्नं नभ एव जानात्विति चेत्सुषुप्तिमूर्च्छादिसमयेऽपि कर्णशष्कुल्यवच्छिनं नभो विद्यमानमपि शब्दं न गृह्णाति, तस्मात्तदन्यदिति परीक्षा । त्वगिन्द्रियं किमिति चेत्, वायुरूपाधिष्ठानदेवतया प्रेरितं सत्त्वचं सर्वत्र व्याप्य शीतमुष्णं मृदु कठिनं कर्कशमित्यनेकविधं स्पर्शं यज्जानाति तत्त्वगिन्द्रियम् । त्वगेव जानात्वित्युक्ते सुषुप्त्यादिषु त्वाचे विद्यमानायामपि स्पर्शं न जानाति । तस्मात्सा न त्वगिन्द्रियम् । चक्षुरिन्द्रियं किमिति चेत्, सूर्यरूपाधिष्ठानदेवतया प्रेरितं सत्कुष्णताराग्रमाश्रित्य नीलं श्वेतं रक्तं पीतं हरितं धवलं स्थूलं सूक्ष्मं ह्रस्वं दीर्घमित्युक्त बहुविधरूपं यज्जानाति तच्चक्षुरिन्द्रियम् । कृष्णताराग्रमेव जानात्विति चेत्, सुषुप्त्यादिषु तद्विद्यमानमपि न जानाति, तस्मान्न तचक्षुरिन्द्रियम् । रसनेन्द्रिकिमिति चेत्, वरुणरूपाधिष्ठानदेवतया प्रेरितं सद्रसनामाश्रित्य मधुरतिक्तलवणाम्लादीन्षड्रसान्यज्जानाति तद्रसनेन्द्रियम् । रसनैव जानात्विति चेत्, सुषुप्त्यादिषु रसनामात्रं विद्यमानमपि रसं न जानाति, अतो न तद्रसनेन्द्रियम् । घ्राणेन्द्रियं किमिति चेत्, अश्विदेवतया प्रेरितं सन्नासाग्रमाश्रित्य सुगन्धं दुर्गन्धं च यज्जानाति तद्राणेन्द्रियम् । नासाग्रमेव जानात्विति चेत्, सुषुप्त्यादौ विद्यमानमपि सन्नासाग्रं गन्धं न जानाति, तस्मान्न तद्राणेन्द्रियम् । एवं ज्ञानेन्द्रियलक्षणानि ॥
इतः परं कर्मेन्द्रियलक्षणमुच्यते । अग्निरुपाधिष्ठानदेवतया प्रेरितं सत्तालुमूलमुत्तराधरोष्ठं दन्तं कण्ठं हृदयं ना भिमेवमादिस्थानान्याश्रित्य पूर्वोक्तशब्दभेदान्यदुच्चरति तद्वागिन्द्रियम् । सुषुप्त्यादौ ताल्वादिस्थानं विद्यमानम प्यक्षराणि नोच्चरति । तस्मान्न तद्वागिन्द्रियम् । इन्द्ररूपाधिष्ठानदेवतया प्रेरितं सत्करतलमाश्रित्यादानादिक्रिया यत्करोति तत्पाणीन्द्रियम् । सुषुप्त्यादौ विद्यमानमपि करतलं नादानादिक्रियाः करोति । अतो न तत्पाणीन्द्रियम् । उपेन्द्ररूपाधिष्ठानदेवतया प्रेरितं सत्पादतलमाश्रित्य गमनं यत्करोति तत्पादेन्द्रियम् । सुषुप्तयादौ विद्यमानमपि पादतलं न गमनक्रियां करोति । अतो न तत्पादेन्द्रियम् । मृत्युरूपाधिष्ठानदेवतया प्रेरितं सद्गुदमाश्रित्य यत्पुरीषविसर्जनादि करोति तत्पाय्विन्द्रियम् । सुषुप्त्यादौ विद्यमानमपि गुदं तन्न करोति । अतो न तत्पाय्विन्द्रियम् । प्रजापतिरूपाधिष्ठानदेवतया प्रेरितं सद्योनिं लिङ्गमप्याश्रित्य शुक्लशोणितमूत्रविसर्जनं यत्करोति तदुपस्थेन्द्रियम् । सुषुप्त्यादौ योनिर्लिङ्गं च विद्यमानमपि तद्विसर्जनं न करोति । अतो न तदुपस्थेन्द्रियम् । एवं कर्मेन्द्रियलक्षणान्युक्तानि ॥
अथ प्राणपश्चकस्य लक्षणमुच्यते । विशिष्टनामकाधिष्ठानदेवतया प्रेरितः सन्हृदये स्थित्वा य उच्छ्वासं करोति स प्राणः । विश्वसृष्टनाम काधिष्ठानदेवतया प्रेरितः सन्गुदे स्थित्वा यो निःश्वासं करोति सोऽपानः । विश्वयोनिनामकाधिष्ठानदेवतया प्रेरितः सन्नन्तर्बहिश्च शरीरे स्थित्वेन्द्रियाणां बलं यच्छन्यो वर्तते स व्यानः । अजनामकाधिष्ठानदेवतया प्रेरितः सन्कण्ठे स्थित्वा सुषुप्ताविन्द्रियाणां गोलकेषु लयं कारयित्वा जाग्रति पुनरिन्द्रियाणि गोलकेषु स्थापयित्वोत्क्रमणकाल इन्द्रियाणि गृहीत्वा लोकान्तरं गच्छति यो वायुः स उदानः । यो जयनामकाधिष्ठानदेवतया प्रेरितः सन्नाभिदेशे स्थित्वा भक्ष्यभोज्यचोष्यलेह्यरूपं चतुर्विधमन्नं जाठराग्नौ पाचयित्वा शरीरपुष्टिं करोति स समानवायुः । एवं पञ्च प्राणाः ॥
नागः कूर्मः कुकरो देवदत्तो धनंजय इत्यन्ये पश्च वायवः श्रूयन्ते । तेषामपि पूर्वप्रोक्तपश्चप्राणेष्वन्तर्भावः । तत्र नागो वान्ति करोति । कूर्म उन्मीलननिमीलने अधरोष्ठयोः संयोगं विभागं च करोति । कुकरः क्षुतं करोति । देवदत्तो विजृम्भणं करोति । धनंजयः शरीरस्योच्छूनतां करोति ॥
इतः परमन्तःकरणचतुष्टयं मनो बुद्धिरहङ्कारश्चित्तमिति जानीहि । अत्र मनश्चन्द्रेणाधिष्ठितं सत्कण्ठमाश्रित्य स्थित्वा संकल्पविकल्पौ करोति । बुद्धिश्चतुर्मुखेणाधिष्ठिता सती मुखमाश्रित्य स्थित्वा निश्चयं करोति । अहङ्कारो रुद्रेणाधिष्ठितः सन्हृदयमाश्रित्य स्थित्वा अभिमानं करोति । क्षेत्रज्ञरूपविष्णुनाधिष्ठितं सच्चित्तं नाभौ स्थित्वा अवधानं करोति । एतल्लिङ्गशरीरं काचिच्छ्रुतिः षोडशात्मकं वदति । तस्मिन्पक्षेऽन्तःकरण मेकमिति जानीहि । पुनरन्या श्रुतिः सप्तदशात्मकं वदति । तस्मिन्पक्षे मनो बुद्धिरिति द्विविधमिति जानीहि । पुनरन्या श्रुतिरेकोनविंशत्यात्मकं वदति । तत्पक्षे मनो बुद्धिरहंकारश्चित्तमिति चतुर्विधमन्तःकरणमिति जानीहि । एवं लिङ्गशरीरनिर्णयः ॥
इदानीं कारणशरीरमुच्यते । अज्ञानमेव कारणशरीरम्, स्थूलसूक्ष्मशरीरकारणत्वात् । अस्य जीवेश्वरयोः प्रथमशरीरत्वात्पश्चाद्भाविशरीरद्वयकारणत्वम् । तस्मिन्नर्थे प्रमाणं किमिति चेत् – अज्ञानं कारणमिति श्रुतिर्वदति । कार्येण कारणमूह्यत इति युक्ति' । 'अहमज्ञः' इत्यनुभवः ॥
भोः स्वामिन्, आत्मा क इत्युक्ते शरीरत्रयविलक्षण इति बोधयितुं प्रथमतः शरीरत्त्रयं लक्षणैर्बोधितं किल? एवमेवात्मापि लक्षणैर्बोधयितव्य इति चेत्, शृणु । सर्वत्र परिपूर्ण ब्रह्मेति तदेव ब्रह्म प्रत्यगात्मस्वरूपमिति च सकलोपनिषदो वदन्ति । तस्मादात्मा सच्चिदानन्दस्वरूप एवेति जानीहि । सत्किं चित्किमानन्दः किमिति चेत् – बाधरहितं सत् स्वप्रकाशश्चित्, स्वानुभूतिरेवानन्द इति जानीहि । एवमात्मा सच्चिदानन्दस्वरूपः । अनात्मा त्वनृतजडदुःखस्वरूपः ॥
आत्मानात्मनोरन्योन्यवैलक्षण्यं कथं ज्ञातव्यमिति चेत् – यथा पुरुषलक्षणं स्त्रियां नास्ति स्त्रीलक्षणं पुरुषे नास्ति, एवमेव सल्लक्षणमनृते नास्त्यनृतलक्षणं सति नास्ति । यथा प्रकाशलक्षणमन्धकारे नास्त्यन्धकारलक्षणं प्रकाशे नास्ति, एवं चिल्लक्षणं जडे नास्ति जडलक्षणं चिति नास्ति । यथा चन्द्रिकालक्षणमातपे नास्त्यातपलक्षणं चन्द्रिकायां नास्ति, एवमानन्दलक्षणं दुःखे नास्ति दुःखलक्षणमानन्दे नास्ति ॥
सच्चिदानन्दानामनृतजडदुःखानां च लक्षणानि विस्तरेण ज्ञातव्यानीति चेत्, शृणु वदामः। कालत्रयेऽपि केनाप्यबाध्यमानमेकरूपं सत् । कालत्रयेऽपि मिथ्याभूतमपि सत्यमिव भासमानं विचार्यमाणे बाध्यमानमसत् । अस्य दृष्टान्तः – मन्दान्धकारे वर्तमाना रज्जुः स्वारोपितसर्पमाल्यदण्डजलधारादिभिरबाध्यमाना भ्रान्तेः पूर्वकाले पश्चात्काले भ्रान्तिकाले चैकरूपा वर्तते, अध्यस्तसर्पादि तु कालत्रयेऽपि स्वयं मिथ्याभृतमविद्यमानमपि विद्यमानमिव प्रतीयते, प्रमातुः परमार्थविचारेण बाध्यते च । एवंभूतरज्जुलक्षणं सर्पादौ नास्ति सर्पादिलक्षणं रज्जौ च नास्ति । अतोऽन्योन्यं शब्देनार्थेन लक्षणेन प्रतीत्या व्यवहारेण च पञ्चभिः प्रकारैर्वैलक्षण्यं यथा अनयोरस्ति, तथा सल्लक्षणमसल्लक्षणे देहादिप्रपञ्चे नास्ति, असल्लक्षणं च सल्लक्षणे प्रत्यगात्मनि नास्ति । तस्मादनयोरन्योन्यं शब्देनार्थेन लक्षणेन प्रतीत्या व्यवहारेण च पञ्चभिः प्रकारैर्वैलक्षण्यमस्ति । तस्मादेवं विचार्य सतोऽनृतस्य च वैलक्षण्यं जानीहि ॥
इतः परं चितो जडस्य च वैलक्षण्यमुच्यते । सूर्यादिप्रकाशमनपेक्ष्य स्वप्रकाशेनैव प्रकाशमानं स्वारोपितस्य जडस्यापि प्रकाशकम्, अत एव सूर्यादिप्रकाशपदार्थं मृच्छिलाद्यप्रकाशपदार्थं च प्रकाशयति यद्वस्तु तच्चित् । जडलक्षणं कीदृशमिति चेत्, स्वयमप्रकाशमानमन्यपदार्थस्य च प्रकाशनेऽसमर्थं यत्तज्जडम् । अत्रोभयत्र दृष्टान्तः यथा आदित्यः प्रकाशान्तरानपेक्षं स्वयमेव प्रकाशमानः सन्स्वप्रकाशसम्बन्धिघटपटादिपदार्थमपि प्रकाशयति, तथा चित्प्रकाशः, यथा घटादिपदार्थः स्वयमप्रकाशमानोऽन्यपदार्थमपि प्रकाशयितुमसमर्थः, तथा जडवस्त्वपीति जानीहि । यथा आदित्यस्य घटादेश्व शब्दादिपश्चप्रकारैर्वैलक्षण्यम्, एवं चितो जडस्य च वैलक्षण्यम् ॥
एवं ज्ञानस्य किं फलमिति चेत्, लोके प्रकाश्यपदार्थनिष्ठविकाराः प्रकाशवस्तु कालत्रयेऽपि न स्पृशन्तीति ज्ञानफलम् । तदपि कथमिति चेत्, आदित्येन प्रकाश्यमानघटादिनिष्ठच्छिद्रेण हानिरच्छिद्रेण लाभः, स्पर्शेन त्याज्यत्वमस्पर्शेन ग्राह्यत्वम्, लक्षणेन हर्षोऽलक्षणेन विषादः, समीचीनतयाऽतिशयो असमी चीनतयाअनतिशयः, इत्यादिविकारगुणाः प्रकाशकमादित्यं न स्पृशन्ति । एवमात्मना प्रकाश्यमानदेहेन्द्रियादिनिष्ठनामरूपजातिवर्णाश्रमप्रवृत्तिनिवृत्तिविधिनिषेधषड्भावविकारषर्मिषट्कोशान्ध्य मान्द्यपटुत्वादिसकलगुणविकाराश्च प्रकाशकमात्मानं कालत्रयेऽपि किञ्चिदपि स्प्रष्टुं न शक्नुवन्तीति ज्ञानं सुकरमिति जानीहि । एवं चिज्जडयोर्वैलक्षण्यम् ॥
इतः परमानन्दस्य दुःखस्य च वैलक्षण्यमुच्यते । आनन्दलक्षणं किमिति चेत्, निरुपाधिकं निरतिशयं नित्यं यत्सुखं स आनन्दः । दुःखलक्षणं किमिति चेत्, प्रतिकूलतया वेदनीयत्वम्, इतरेच्छानधीनेच्छाविषयभिन्नत्वे सति द्वेषविषयत्वं वा । तत्तु त्रिविधम् आध्यात्मिकमाधिभौतिकमाधिदैविकं चेति । तत्रेन्द्रियैर्देह एव वातपित्तश्लेष्मवैपरीत्येन जायमानं व्याध्यादिदुःखमाध्यात्मिकम् । भूतैश्च भौतिकैश्च सर्पव्याघ्रादिभिर्जायमानं दुःखमाधिभौतिकम् । देवैर्जायमानमतिवृष्ट्यनावृष्टिविद्युत्पातादिदुः खमाधिदैविकमिति ॥
आनन्दस्य दुःखस्य च को दृष्टान्त इति चेत्, उच्यते । यथा अमृतं स्वयं सुखरूपं सत्स्वमनुभवतो जीवानपि सुखयति, कालकूटविषं स्वयं तापकं सत्स्वमनुभवतो जीवानपि पीडयति । एवंभूतयोरमृतविषयोरन्योन्यं शब्दादिपञ्चप्रकारैर्यथा वैलक्षण्यम्, एवमानन्दलक्षणं तापत्रयात्मके दुःखे नास्ति दुःखलक्षणमप्यात्मस्वरूप आनन्दे नास्ति । तस्माच्छब्दादिभिः पञ्चप्रकारैरनयोर्वैलक्षण्यं जानीहि । अत्र निष्कृष्टार्थः सिद्धान्तः क इति चेत्, रज्जुवत्सद्रूप आदित्यवच्चिद्रपोऽमृतवदानन्दरूपोऽहंशब्दार्थ आत्मा सर्पवदनृताद्धटवज्जडाद्विषवदुःखाद्देहेन्द्रियादिप्रपञ्चाद्विलक्षण इति यो गुरुमुखेणात्मानं जानाति स एवासङ्गः स एव कृतकृत्यः स एव मुक्त इति सकलवेदान्तनिश्चय इति जानीहि ॥
॥ इति अष्टमवर्णकम् ॥