सामग्रीं त्यजन्तु

लघुवासुदेवमननम् — षष्ठवर्णकम्

पूर्व प्रतिज्ञातदुःखादिसप्तके दुःखं शरीरं कर्म रागद्वेषादिश्चोत्तरोत्तरहेतुत्वेनोक्तानि। इदानीं षष्ठवर्णके रागद्वेषादिवृत्तिभेदा अभिमानोऽविवेकोऽज्ञानं च कथ्यन्ते। रागो द्वेषः कामः क्रोधो लोभो मोहो मदो मात्सर्यमर्ष्याऽसूया दम्भो दर्पोऽहङ्कार इच्छा भक्तिः श्रद्धेति रागद्वेषादिवृत्तयः षोडश।

स्त्रीविषयकचित्तवृत्ती रागः। अपकारकर्तुः प्रत्यपकारेच्छा द्वेषः। गृहक्षेत्रादिसम्पादनेच्छा कामः। तत्र विघ्नकर्तरि वैरस्यं क्रोधः। स्वसम्पादितेषु किञ्चिदपि सत्पात्रे न देयमिति बुद्धिर्लोभः। ऐश्वर्यमदेन कृत्याकृत्यमविचार्य तूष्णीमवस्थानं मोहः। स्वस्य सम्पदस्ति, किं वा कर्तुमशक्यमिति बुद्धिर्मदः। स्वसमानसम्पन्नजनदर्शनासहनं मात्सर्यम्। इदं दुःखं तं विहाय मम किमित्यागतमिति चितवृत्तिरीर्ष्या। इदं सुखं ममैव तस्यापि किमित्यागतमिति बुद्धिरसूया। अनेन धर्मेण मम प्रसिद्धिर्भूयादिति चित्तवृत्तिर्दम्भः। मम न कोऽपि समान इति बुद्धिर्दर्पः। सर्वत्राग्रहोऽहङ्कारः। अवर्जनीयप्राशनविमोचनादिकर्मचिकीर्षा इच्छा। गुरौ सज्जनेषु देवतासु चातिप्रीतिर्भक्तिः। यागादिकर्मसु वेदान्तवाक्येषु गुरूपदेशे च विश्वासः श्रद्धा। इति षोडशविधो रागद्वेषादिः ॥

आत्मविचारे चित्तवृत्तिविचारस्य प्रयोजनम्

आत्मविचारप्रकरणे चित्तवृत्तिविचारस्य किं प्रयोजनमिति चेत् शृणु। सकलजीवानां बन्धमोक्षौ मनसैव नान्येन। कथमिति चेत् – स्वभावनिर्मलस्य मनसोऽशुद्धेन योगो बन्धः। शुद्धरूपेणावस्थानं मोक्षः। रागादिचतुर्दशवृत्तयोऽप्यशुद्धाः। भक्तिश्रद्धे द्वे अपि शुद्धे। रागादित्रयोदशवृत्तयः सर्वेषां प्रयत्नं विनैव पुनः पुनरागच्छन्ति पापेष्वेव मनुष्यान्प्रवर्तयन्ति च। तद्वृत्तिशीलानामधोगतिरेव नोर्ध्वगतिः। रागादिवृत्तीर्निरुध्य भक्तिश्रद्वाभ्यामेव कर्म कुर्वतः क्रमेण संसारनिवृत्तिर्भविष्यति। तस्मात्पुरुषः स्वचित्तं सम्यक्शोधयित्वा अशुद्धिहेतुरागादिवृत्तीर्वर्जयित्वा शुद्धिहेतुभक्तिश्रद्धयोरेव चित्तं स्थापयेत्। इच्छया क्रियमाणं क्षुत्पिपासानिवृत्तिमूत्रपुरीषविसर्जनादि कर्म च त्यक्तुमशक्यम्। तत्त्यागे सत्यपि दुःखमागच्छति। तेन कर्मणा स्वर्गोऽपि नास्ति नरकोऽपि नास्ति। तस्मादैच्छिकं प्राशनमोचनादिकं कर्म कर्तव्यमेव ॥

एवं जाग्रत्स्वप्नयो रागादौ सति कर्मास्ति, सुषुप्तिमूर्च्छासमाधितूष्णींभावावस्थासु रागादि नास्ति कर्मापि नास्ति इत्यन्वयव्यतिरेकाभ्यां रागादेः कर्महेतुत्वं सिद्धम्। इतः परं स रागादिः केनागच्छतीति चेत्, अभिमानेनागच्छति। एवं व्याप्तिरस्ति वेति चेत्, अस्ति। स्त्रीजनस्य अहं स्त्रीजनः इति यावानभिमानोऽस्ति तावती रागादिपूर्वकं भर्तृशुश्रूषागृहरक्षापाकक्रियादिकर्मसु प्रवृत्तिरागच्छति। पुरुषजनस्यापि अहं पुरुषः इति यावानभिमान आगच्छति तावती रागादिपूर्वकं दारादिपरिग्रहे कृषिवाणिज्यादिकर्मसु च प्रवृत्तिरागच्छति। एवं सर्वेषां जीवानामपि वर्णाश्रमाद्यभिमानेन रागादिपूर्वकं स्वस्वव्यापारे प्रवृत्तिरागच्छति। तस्माद्रागादेरभिमान एव कारणम् ॥

अस्य विचारस्य किं फलमिति चेत्, मुमुक्षुः पुरुषो जातिवर्णाश्रमवयोवस्थाद्यभिमानं त्यजेत् तस्मिंस्त्यक्ते बन्धस्त्यक्तो भवेदिति जानीहि। अभिमाने सति रागादिः, अभिमानाभावे रागाद्यभाव इत्यन्वयव्यतिरेकयुक्त्या च जानीहि। तत्कथमिति चेत् – जाग्रदाद्यवस्थासु वर्णाश्रमाद्यभिमानस्य विद्यमानत्वाद्रागद्वेषादिनिमित्ता प्रवृत्तिरागच्छति, सुषुप्तावुदासीनावस्थायां च वर्णाश्रमाद्यभिमानाभावाद्रागद्वेषादिनिमित्ता प्रवृत्तिर्नास्तीत्येतज्जानीहि ॥

तर्ह्ययमभिमानः केनागच्छतीति चेत्, अविवेकेनागच्छति। तत्कथमिति चेत् – सर्वेषां जीवानां देहव्यतिरिक्तत्वे सत्यपि विवेकाभावादेव अहं ब्राह्मणः अहं क्षत्रियः अहं वैश्यः अहं शूद्रः अहं ब्रह्मचारी अहं गृहस्थः अहं वानप्रस्थः अहं संन्यासी अहं पुरुषः अहं स्त्री इत्याद्यभिमानो जायते। तं विना नान्यो हेतुः। अस्याभिमानस्याविवेकं विना अन्यच्छरीरमवलम्बनमस्ति चेत्, क्षत्रियस्य अहं ब्राह्मणः इति, स्त्रियाः अहं पुरुषः इति, ब्रह्मचारिणः अहं गृहस्थः इत्यभिमानोऽस्तु। स न दृश्यते। तस्माच्छरीरमवलम्ब्याभिमानो नागच्छति। शिखायज्ञोपवीतादिकमवलम्ब्य अहं ब्राह्मणः इति, काषायकमण्डल्वादिकमवलम्ब्य अहं संन्यासी इति चाभिमान आगच्छत्विति चेत्। शिखायज्ञोपवीतादि वैश्यकुलालयोरप्यस्ति। काषायकमण्डल्वादि केषाञ्चिच्छूद्राणां तपस्विनामप्यस्ति। तेषामेतेषां च अहं ब्राह्मणः अहं संन्यासी इत्यभिमानः स्यात्। तथा न दृश्यते। स्त्रीपुरुषाभिमानवदवयवविशेषमवलम्ब्य अहं ब्राह्मणः इत्याद्यभिमान इति चेत्, सर्वेषामप्यवयवविशेषाभावादेकरूपत्वादवयवविशेषोऽप्यवलम्बनं न भवति। तर्हि विशिष्टमातृपितृजन्यावयवविशेषमवलम्ब्याभिमानविशेष इति चेत्, तज्जन्यरोमनखदन्तमूत्रपुरीषाद्यवयवानामपि ब्राह्मणत्वादिव्यवहारः स्यात्। स न दृश्यते। तस्मादविवेकं विना अन्यत्किमप्यवलम्ब्याभिमान आगच्छतीति ब्रह्मणापि वक्तुं न शक्यते ॥

तर्हि ब्राह्मणत्वाद्यभिमानः केनागच्छतीति सम्यग्विचार्यमाणे

लोके उत्सवः इति कल्याणम् इति सभा इति सेना इत्यनेकवस्तुसमूहस्य तत्तन्नाम्ना व्यवहारः प्रवर्तते। तथा मायामयस्यानिर्वचनीयस्य देहेन्द्रियादिसंघातस्यैव लोकव्यवहारेण केवलम् ब्राह्मणः क्षत्रियः वैश्यः शूद्रः स्त्री पुरुषः नपुंसकः गुर्जरः महाराष्ट्रकः आन्ध्रः कर्णाटकः द्राविडः शास्त्री दीक्षितः पौराणिकः अवधानी गङ्गास्नायी शैवः भागवतः सेवक प्राधानिकः राजा मन्त्री गुरुः शिष्यः इत्यादिसकलनामव्यवहारः। कालत्रयेऽप्यात्मनो नामरूपव्यवहारो नास्ति। इत्येवंरूपविचाराकरणमेवाविवेकः। अनेनैवाविवेकेन सर्वेषामात्मनि वर्णाश्रमाद्यभिमान आगच्छति ॥

अयमविवेकः केनागच्छतीति चेत्, स्वस्य निजस्य चिदात्मरूपस्यानादिकालमारभ्य आवारकमात्मज्ञानैकापनोद्यं यदनाद्यज्ञानं तदेव कारणम्। इदमैवाज्ञानम् मामहं न जानामि इति व्यवह्रियते। ननु लोके भ्रान्तमेकं विना को वा आत्मानं न जानातीति चेत्, सर्वे भ्रान्ता एव। तत्कथमिति चेत्, अहं ब्राह्मणः अहं क्षत्रियः अहं वैश्यः अहं शूद्रः अहं ब्रह्मचारी अहं गृहस्थः इत्यादिरूपेण मिथ्याभूतमिमं देहमेव सर्वे जानन्ति। शरीरव्यतिरिक्तमात्मानं न कोऽपि जानाति। अतः सर्वे भ्रान्ता एव ॥

ननु लोके केचिच्छास्त्रज्ञाः पौराणिकाश्च देहमनात्मत्वेन मन्यमाना घटकुड्यसन्निभं देहं विहायान्यमेवात्मानं जानन्ति, हे स्वामिन्, भवद्भिः आत्मानं न कोऽपि जानाति इति कथमुच्यत इति चेत्। हे पुत्र, तेऽपि परमार्थमात्मानं न जानन्ति ! किं तु कर्तारं भोक्तारं परिच्छिन्नं लोकान्तरगामिनं चिदाभासरूपं व्यावहारिकं जीवात्मानमेवात्मत्वेन जानन्ति। तं विना अकर्तारमपरिच्छिन्नमचलं चिद्रूपं पारमार्थिकमात्मानं न जानन्ति ॥

इदमज्ञानं केनागतमिति चेत्, अस्यानादित्वेन वेदेषु शास्त्रेषु च प्रसिद्धत्वात्कारणं वक्तुं न शक्यते। तर्हि तस्याज्ञानस्यादिर्नास्ति चेदन्तोऽपि नास्तीति निश्चयः तथा चेज्जीवस्य मुक्तिरपि न स्यादिति चेत्, शृणु। अज्ञानस्य आदेरभावेऽप्यन्तोऽस्त्येव। लोके केषाञ्चित्पदार्थानामादेरभावेऽप्यन्तोऽस्ति। केषाञ्चिदन्ताभावेऽप्यादिरस्ति। तत्कथमिति चेत्। प्रागभावस्यादिर्नास्ति, अन्तोऽस्ति। प्रध्वंसाभावस्यान्तो नास्ति, आदिरस्ति किं च वातपितश्लेष्मजन्यव्याधेर्मूलाज्ञानेऽपि वैद्यक शास्त्रोक्तौषधैर्यथा निवृत्तिर्दृश्यते, तथाऽज्ञानस्य मूलाज्ञानेऽपि वेदान्तशास्त्रोक्तवाक्यजन्यज्ञानेन नाशो भवतीति सिद्धान्तः। अस्याज्ञानस्य स्वरूपलक्षणं किमिति चेत्, तद्दुर्वचम्। तथा हि – तदज्ञानं न सत्, नासत् नापि सदसत् , न सावयवम्, न निरवयवम्, नोभयात्मकम् , न भिन्नम्, नाभिन्नम्, न भिन्नाभिन्नम् , किं त्वनिर्वचनीयम्। तत्कथमिति चेत्। तत्त्वज्ञानेन बाधितत्वान्न सत्। शशविषाणनरविषाणगगनारविन्दादिवन्नाप्यसत्, अहमज्ञः इति सर्वैरनुभूयमानत्वात्। नापि सदसत्, परस्परविरोधात्। स्थूलाकाशः सूक्ष्मः , तस्मादपि सूक्ष्मोऽपञ्चीकृत आकाशः , तस्मादपि सूक्ष्मा गुणाः , तेभ्योऽपि सूक्ष्ममज्ञानम् , तस्मात्सूक्ष्मस्यापि मूलकारणत्वादज्ञानं न सावयवम्। स्थूलपदार्थजगदाकारेण परिणामान्न निरवयवम्। अन्योन्यविरोधान्नोभयात्मकम्। आत्मनो भिन्नमिति चेदद्वैतश्रुतिविरोधादात्मसत्ताव्यतिरिक्तसत्ताभावाच्च न भिन्नम्। अभिन्नमिति चेदात्मशक्तित्वाभावप्रसङ्गात् पराऽस्य शक्तिर्विविधैव श्रूयते इति श्रुतिविरोधाच्च तदपि न सम्भवति , किं च आत्मनो जडत्वं मायाया वा चेतनत्वं स्यात्, आत्मनोऽविद्यादिनाम्ना च भवितव्यम्, आत्मनः सच्चिदानन्दस्वरूपस्यानृतजडदुःखत्वमपि स्यात् , तस्मानाभिन्नम्। भिन्नाभिन्नयोर्विरोधान्नोभयात्मकम्। तस्मादज्ञानमनिर्वचनीयमेव ॥

एवं भूतादनादेरज्ञानादविवेकः, तस्मादभिमानः, तस्माद्रागद्वेषादिः तेन कर्म, कर्मणा शरीरम् तस्माद्दुःखं सांसारिकमात्मनोऽज्ञानात्परम्परया भवतीति ज्ञातव्यम्। तर्ह्येतद्दुःखं कदा गमिष्यतीति चेत्, शरीरे गते सति दुःखं गमिष्यति। शरीरं च कर्मणि नष्टे सति नश्यति। कर्म च रागद्वेषादौ नष्टे सति नश्यति। रागद्वेषादिश्चाभिमाने नष्टे सति नश्यति। अभिमानश्चाविवेके नश्यति सति नश्यति। अविवेकश्चाज्ञाने नश्यति सति नश्यति। अज्ञानं चाद्वैतब्रह्मस्वरूपस्यात्मनः स्वस्य दृढनिश्चयरूपेण ब्रह्मैवाहम्, अहं ब्रह्मैवास्मि इति महावाक्यजन्यज्ञानेन विनश्यति नान्येनेति ज्ञातव्यम् ॥

ननु ब्रह्महत्यादिमहापातकान्यपि प्रायश्चित्तरूपसत्कर्मभिर्निःशेषं नश्यन्ति, तादृशकर्मशक्त्याऽल्पं मिथ्याभूतमिदमज्ञानं किमिति न गच्छेदिति चेत्। कर्मणोऽज्ञानस्य च विरोधो नास्ति। कर्म अज्ञानं वर्धयति। यथा अमावास्यान्धकारं मेघावरणं वर्धयति, तथा कर्म अज्ञानं वर्धयति, न निवर्तयति। तमन्धकारं यथा सूर्यो निवर्तयति तथा अज्ञानं ज्ञानमेव निवर्तयेत् न कर्म ॥

ननु त्रिविधकरणजन्यं कर्म हि, ज्ञानस्याप्यन्तःकरणजन्यवृत्तित्वेन कर्मत्वात्तत्कथमज्ञानं नाशयेदिति चेत्, शृणु। सत्यं वृत्तिर्मानसं कर्मैव। सा वृत्तिर्ज्ञानस्याज्ञाननिवर्तने रूपग्रहणे नेत्रवदुपाधिभूतैव, न स्वयं निवर्तिका। ज्ञानं तु निवर्तकं नित्यम्। तज्ज्ञानं स्वरूपज्ञानं वृत्तिज्ञानमिति द्विविधम्। तत्र सुषुप्तावज्ञानप्रकाशकं ज्ञानं स्वरूपज्ञानम्। जाग्रत्स्वप्नयोर्विषयप्रकाशकं वृत्तिज्ञानम्। यथा आदित्येन प्रकाश्यमाने कुड्येऽनेकदर्पणादित्यदीप्तयश्च तासां मध्ये मध्ये आदित्यदीप्तिश्च, तथा जाग्रत्स्वप्नयोर्वृत्तिज्ञानप्रकाशाः सुषुप्तौ स्वरूपज्ञानप्रकाशश्चेति ज्ञेयम् ॥

तर्हि जाग्रत्स्वप्नयोः स्वरूपज्ञानं नास्ति किमिति चेत्। स्वरूपज्ञानं सर्वदा सर्वास्ववस्थास्वप्यस्ति। वृत्तयः सुषुप्तौ न सन्ति। वृत्तयः सर्वा अप्यन्तःकरणधर्माः। ज्ञानमात्मस्वरूपम्। तत्स्वरूपभूतं ज्ञानं वृत्तिषु प्रविश्याज्ञानं नाशयति। केवला बुद्धिवृत्तिरज्ञानं नाशयितुं नेष्टे। तस्मादात्मनोऽज्ञानमप्यात्माकारवृत्तिप्रविष्टेन स्वरूपज्ञानेनैव विनाश्यं न बुद्धिवृत्त्या। न कर्मकोटिसहस्त्रेणापि विनाश्यम्। यथा सत्कर्मैव पापकर्म नाशयति, एवं वृत्तिज्ञानमेवाज्ञानं नाशयति। यथा माणिक्यं शिलारूपमपि प्रकाशयुक्तत्वेन रत्नदीपमिति व्यवह्रियते, एवं वृत्तिज्ञानस्यापि मनोवृत्तिरूपत्वेऽपि स्वप्रविष्टस्वरूपज्ञानयुक्तत्वाज्ज्ञानमिति व्यवहारो गौणः, न कर्मेति व्यवहारः ॥

ननु सुषुप्तौ स्वरूपज्ञानस्याज्ञानप्रकाशकत्वेन विरोधाभावात्कथं ज्ञानमज्ञानं नाशयेदिति चेत्, स्वरूपज्ञानस्याज्ञानेन विरोधाभावेऽपि वृत्तिज्ञानस्याज्ञानेन विरोधोऽस्ति। वृत्तौ प्रविष्टस्यापि ज्ञानस्य स्वरूपज्ञानत्वात्कथमज्ञानेन विरोध इति चेत्, लोके तृणादेः प्रकाशकत्वेनादित्य किरणस्य तेन विरोधाभावेऽपि सूर्यकान्तप्रविष्टस्य तस्यैव यथा तृणादिदाहकत्वेन तेन विरोधः, तथा स्वरूपज्ञानस्य केवलस्याज्ञानेन विरोधाभावेऽपि वृत्तिप्रविष्टस्य तस्याज्ञानेन विरोधोऽस्ति ॥

ननु वृत्तिज्ञानेनाज्ञानतत्कार्यनाशेऽपि वृत्तेस्तत्प्रविष्टज्ञानस्यापि विद्यमानत्वात्कथमद्वैतं सिध्येदिति चेत् कतकरजोन्यायेन वृत्तिज्ञानमप्यज्ञानं तत्कार्यं च निवर्त्य स्वमपि स्वयमेव निवर्तयेत्। वृत्तिनाशे सति वृत्तौ प्रतिबिम्बितं ज्ञानमपि बिम्बभूतं स्वरूपज्ञानमेवाधिगच्छति। ततोऽद्वैतमात्मस्वरूपमेवावशिष्यते। एवं ज्ञानेनैवाज्ञानस्य विनाशः ॥

एवंभूतं ज्ञानमात्मविचारेणैवागच्छति न तु कर्मभिर्न योगेन नोपासनया वा। ज्ञानं वस्तुतन्त्रम्, अत एव कर्तुमकर्तुमन्यथा कर्तुमशक्यम्। उपासना योगश्र पुरुषतन्त्रत्वात्कर्तुमकर्तुमन्यथा कर्तुं शक्यौ। ताभ्यां चित्तैकाग्रयमणिमाद्यष्टैश्वर्यं च साध्यते, न तु ज्ञानम्। उपासनायोगौ मनोव्यापाररूपत्वात्क्रियात्मकौ न वस्तुतन्त्रौ। तस्माद्वस्तुतन्त्रं ज्ञानं कर्मणा नायाति, किं तु विचारेणैव साध्यम्। सालिग्रामो रत्नं सुवर्णमित्यादिवस्तुनिर्णयो लक्षणपरीक्षाभ्यां निघर्षणेन च कर्तव्यः, न तु स्नानसंध्यावन्दनप्राणायामादिना कस्यापि साध्य इति निर्णयः। एवमात्मज्ञानमप्यात्मानात्मविचारं विनोपासनादिभिः साधयितुं न शक्यते। तस्मान्मुमुक्षुरितरव्यापारं विहाय श्रवणमननाभ्यां सदा आत्मानात्मविचारमेव कुर्यात्। य एवं तदेकपरः सोऽस्मिन्नेव जन्मनि संसारबन्धाद्विमुक्तः सन् जीवन्मुक्तिं विदेहमुक्तिं च प्रानोतीति सकलवेदान्ता घोषयन्ति। एवं मयोक्तं हे पुत्र, त्वं विश्वासेन गृहीत्वा चिन्मात्रेण तिष्ठ, न तु कदाचिदपि कर्तृत्वादिरूपेण तिष्ठ ॥

॥ इति षष्ठवर्णकम् ॥

सारः

  • रागद्वेषादिवृत्तयः ।
    • षोडशः
    • १४ अशुद्धाः । श्रद्धाभक्ती शुद्धे (मोक्षप्रयोजिके)।
  • कर्महेतुः
    • जाग्रत्स्वप्नयोः रागादौ सति कर्म, सुषुप्तिमूर्च्छासमाधितूष्णींभावावस्थातु रागादि नास्ति, कर्मापि नास्ति । रागादेः कर्महेतुत्वं सिद्धम् ।
  • रागादिहेतुः ⇒ अभिमानः । (अभिमानः अस्ति चेत् रागद्वेषादि अन्यथा न [व्याप्तिः - यथा रागद्वेषादीनाम्, जाग्रत्स्वप्नयोः ...])
  • अभिमानः कुतः? अविवेकेन । => अज्ञानम्
  • अज्ञानम् अनादि किन्तु सान्तम् । दुर्वचः ।
  • कर्मणः अज्ञानस्य च अविरोधिता ।
    • त्रिविधकर्मजन्यं कर्मजन्यं कर्म । ज्ञानस्य अन्तःकरणजन्यवृत्तित्वेन कर्मत्वात्तत् कथम् अज्ञानं नाशयेत् ?
      (ज्ञानमपि कर्मैव, अन्तःकरणजन्यवृत्तित्वात्, अन्तःकरणपरिणामः एव ज्ञानम्। कर्मणः अज्ञानस्य न नाशयेत् विरोधः, तर्हि कथं ज्ञानरूपं कर्म अज्ञानं )
      • वृत्तिः = मानसकर्म ।
      • वृत्तिः ज्ञानस्य अज्ञाननिर्वर्तने (रूपग्रहणे नेत्रवद्) उपाधिभूता । न निवर्तिका ।
      • ज्ञानं तु निवर्तकम् (किन्तु तज्जन्या वृत्तिः उपाधिभूता एव)
        ब्रह्मस्वरूपज्ञानस्य उपाधिभूता वृत्तिः मानसं कर्म अपेक्ष्यते तादृशमानसकर्मोपहितं (मानसकर्मविशिष्टं) यच्चैतन्यं ज्ञानं तदेव निवर्तकम् । न केवलं ज्ञानं, न केवलं वृत्तिः, किन्तु वृत्तिविशिष्टज्ञानं निवर्तयति (वृत्तिविशिष्टं चैतन्यं, चैतन्यविशिष्टा वृत्तिः - उभयथापि व्यवहारः)। ज्ञानं द्विविधम् –
        • स्वरूपज्ञानम् – सुषुप्तावज्ञानप्रकाशकं ज्ञानम् (सुखमस्वाप्सं नावेदिषम्)। सर्वासु अवस्थासु ।
        • वृत्तिज्ञानम् – जाग्रत्स्वपयोर्विषयप्रकाशकं ज्ञानम् (सुषुप्तौ न भवति)। वृत्तयः अन्तःकरणधर्माः ।
      • ज्ञानमात्मस्वरूपम् । तत्स्वरूपभूतं ज्ञानं वृत्तिषु प्रविश्याज्ञानं नाशयति ।
        ब्रह्मस्वरूपज्ञानं सर्वस्य भासकमेव (अज्ञानस्यापि) । किन्तु वृत्तिषु अनुप्रविष्टम् (वृत्तिषु प्रतिबिम्बते) अज्ञानं नाशयति । भूतलं प्रतिबिम्बग्राहि नास्ति किन्तु जलक्षिप्तं तदेव भूतलं जलोपाधिभूतं प्रतिबिम्बग्राहि जायते । नैर्मल्यं सम्पादनार्थं जलम् उपयुज्यते ।
        • अज्ञानम् आत्माकारवृत्तिप्रविष्टेन स्वरूपज्ञानेनैव विनाश्यं न बुद्धिवृत्त्या ।
      • सुषुप्तौ अज्ञानं प्रकाशयति स्वरूपज्ञानम् । कथं तर्हि निवारकम्/नाशकम्?
        • वृत्तिज्ञानस्य अज्ञानेन विरोधः । (यथा प्रकाशः सूर्यकान्तप्रविष्टः तृणदाहकः)
      • भवतु, वृत्तेस्तत्प्रविष्टज्ञानस्यापि विद्यमानत्वात्कथमद्वैतं सिध्येत्?
        • वृत्तिः स्वकार्यं निवर्त्य स्वमपि स्वयमेव निवर्तयेत् (कतकरजोवत्) ।
        • वृत्तिनाशे सति वृत्तौ प्रतिबिम्बितं ज्ञानमपि बिम्बभूतं स्वरूपज्ञानमेवाधिगच्छति।
  • ज्ञानेनैव अज्ञाननाशः ।
    • न योगेन न कर्मभिः नोपासनया ।
    • ज्ञानं वस्तुतन्त्रम् (प्रमाणम्) ।
    • उपासनायोगौ मनोव्यापाररूपत्वात्क्रियात्मकौ न वस्तुतन्त्रौ (बलाद् अभ्यासाद् वा सालिग्रामे विष्णुबुद्धिः) । तस्माद्वस्तुतन्त्रं ज्ञानं कर्मणा नायाति, किं तु विचारेणैव साध्यम्।