सामग्रीं त्यजन्तु

लघुवासुदेवमननम् — द्वितीयवर्णकम्

अथ द्वितीयवर्णकेऽनुबन्धचतुष्टयमुच्यते । विषयः प्रयोजनं सम्बन्धोऽधिकारी चेत्यनुबन्धचतुष्टयम् । अस्य वेदान्तशास्त्रस्य ब्रह्मैव विषयः। मोक्ष एव प्रयोजनम् । प्रतिपाद्यप्रतिपादकभावो बोध्यबोधकभावो वा सम्बन्धः । साधनचतुष्टयसम्पन्नोऽधिकारी । यथा बृहस्पतिसवने ब्राह्मण एव राजसूये क्षत्रिय एव तथा वेदान्तशास्त्रे साधनचतुष्टयसम्पन्न एवाधिकारी । नित्यानित्यवस्तुविवेक इहामुत्रार्थफलभोगविरागः शमादिषट्कं मुमुक्षुत्वं चेति साधनचतुष्टयम् । 'ब्रह्मैव नित्यम्, जगदनित्यम्' इति श्रुतिस्मृतिपुराणादिना स्वयमेव जायमानं ज्ञानं नित्यानित्यवस्तुविवेकः । 'इह स्रक्चन्दनादिविषयभोगोऽमुत्राप्सरःस्त्रीविषयादिभोगश्चेत्युभयमप्यनित्यम्' इति श्ववान्ताशनमूत्रपुरीषादिवतंत्र वैरस्यमिहामुत्रार्थफलभोगविरागः । शमदमोपरतितितिक्षासमाधानश्रद्धा इति शमादिषट्कम् । शमो नाम श्रवणादिव्यतिरिक्तेभ्यो निवर्त्यात्मन्येव श्रवणादिविषये मनसः स्थापनम् । दमो नाम ज्ञानकर्मेन्द्रियनिग्रहः । उपरतिर्नाम संन्यासो निष्कामकर्मानुष्ठानं व्यवहारलोपो वा । तितिक्षा नाम प्रारब्धागतशीतोष्णादिसहनम् । समाधानं नाम श्रवणा अनुकूलविषये मनसः समाधिः। श्रद्धा नाम गुरुवेदान्तवाक्यविश्वासः । इति शमादिषट्कम् । गृहे दह्यमाने तत्रस्थो दह्यमानः पुरुषो यथा कलत्रपुत्रादिकं परित्यज्य स्वतापोपशमनार्थमेव बहिर्निर्गत्य तापोपशमनं कर्तुमिच्छति, एवं सांसारिकतापोपशमनं सम्पादयितुं त्यक्तसर्वैषणस्य ब्रह्मतादात्म्यभावे मोक्षे तीव्रेच्छा मुमुक्षा । लोके केषाञ्चिन्नित्यानित्यवस्तुविवेके सत्यपि वैराग्यस्यादर्शनादिहामुत्रार्थफलभोगविरागेणापि भवितव्यमित्युक्तम् । तदुभयसत्त्वेऽपि केषाञ्चिदृषीश्वराणां कोपतापादिदर्शनाच्छमादिनापि भवितव्यमित्युक्तम् । एतत्त्रितये सत्यपि केषाञ्चिद्भक्त्येश्वरोपासकानां ज्ञानाधिकारादर्शनान्मुमुक्षयापि भवितव्यम् ॥

एवंरूपोऽधिकार्युपहारसमित्पाणिः सन्सद्गुरुमुपगम्य नमस्कृत्य विश्वासविनयाभ्यां सह 'हे स्वामिन्, हे भगवन्, गुरो' इति सम्बोध्य 'जीवः कः ? ईश्वरः कः ? जगत्कीदृशम् ? एतत्त्रितयं कस्मादागतम् ? कस्माद्गमष्यति ?' इति प्रश्नं कुर्यात्, 'परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ '(मु० १.२.१२) इत्यादिश्रुतेः 'तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया। उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदशिनः ॥' (गी० ४.३४) इति गीतावचनाच्च ॥

एवं शिष्येण प्रार्थितः सद्गुरुर्दयया सत्वरजस्तमोगुणैर्जीवेश्वरजगतामागमनप्रकारं बोधयित्वा आत्मस्वरूपमपि करतलामलकबद्बोधयति । अस्याधिकारिणः साधनचतुष्टयं च बहुजन्मार्जितपुण्यपुञ्जपरिपाकवशादीश्वरानुग्रहेण लब्धमिति वेदितव्यम् । एतत्तत्त्वज्ञानप्रदायकं गुरुमीश्वरमेव विद्यात् । एवं यो गुरुमुखाज्जीवात्मपरमात्मनोरभेदं विचार्य जानाति स एव मुक्तिं गमिष्यतीति सिद्धम् ॥

॥ इति द्वितीयवर्णकम् ॥