सामग्रीं त्यजन्तु

लघुवासुदेवमननम् — एकादशवर्णकम्

अथेदानीमस्मिन्नेकादशवर्णके आत्मनः सच्चिदानन्दरूपत्वं चतुर्थं लक्षणमुच्यते । आत्मनः सद्रूपं किं चिद्रूपं किमानन्दरूपं किमिति चेत्, शृणु । कालत्रयेऽपि केनाप्यबाध्यमानत्वे सत्येकरूपत्वं सतो लक्षणम् । इदं लक्षणमात्मन्यस्ति । अस्य प्रमाणं किमिति चेत्, अस्य प्रपञ्चस्य सृष्टेः पूर्वम् 'सदेवासीत्' 'आत्मन आकाशः सम्भूतः' इत्यादिवेदान्तशास्त्रं प्रमाणम् । किं च सर्वजनानामनुभवश्च प्रमाणम् । आढ्यो दरिद्रः कर्मी भक्तो मुमुक्षुरिति सर्वे जनाः । एतेषामनुभवः कीदृश इति चेत्, 'अहं पूर्वजन्मनि सत्पात्रेषु यत्किञ्चिद्दत्तवान्, तेनास्मिञ्जन्मन्यैश्वर्यमनुभवामि, अस्मिञ्जन्मन्यपि यत्किञ्चिद्दत्तं चेद्भविष्यज्जन्मन्यैश्वर्यमनुभविष्यामि' इत्याढ्यस्यानुभवः । 'अहं पूर्वजन्मनि सत्पात्रेषु किमपि न दत्तवान् तेनास्मिञ्जन्मनि दारिद्रयमनुभवामि, अस्मिञ्जन्मनि मया न दत्तं चेद्भाविजन्मन्यपि दारिद्रयमनुभविष्यामि' इति दरिद्रस्यानुभवः । 'पूर्वजन्मनि सत्कर्माणि मयाऽनुष्ठितानि तद्वासनया अस्मिन्नपि जन्मनि सत्कर्माणि मयाऽनुष्ठीयन्ते, तेन भाविजन्मन्यपि स्वर्गे देवत्वमायास्यति' इति कर्मिणोऽनुभवः । 'पूर्वजन्मन्यहं भगवन्तमुपासितवान् तद्वासनया अस्मिन्नपि जन्मनि भगवद्भक्तिरासीत्, अनेन भाविजन्मनि सालोक्यादिमुक्तिं वैकुण्ठादिलोकेऽनुभविष्याभि' इति भक्तस्यानुभवः । 'बहुजन्पस्वीश्वरार्पणरूपेण मया कर्माणि कृतानि तेनास्मिञ्जन्मनि साधनचतुष्टयं सद्गुरुलाभः श्रवणादिकात्मज्ञानं च लब्धम्, इतः परं मम जन्म नास्ति, अहं कृतकृत्यः' इति मुमुक्षोरनुभवः । एवं सर्वेषां जनानां कालत्रयेऽपि 'अहमस्मि' इत्यनुभवदर्शनादात्मन्यध्यस्तस्य देहस्यैव नाशः, आत्मनस्तु न कदाचिदपि नाश इति जानीहि । तस्मादात्मनः कालत्रयेऽप्यबाध्यमानत्वे सत्येकरूपत्वस्य विद्यमानत्वादात्मनः सद्रूपत्वमस्ति ॥

हे स्वामिन्, अनुभवेनात्मनः सद्रूपत्वमेवमुक्तं न युक्त्येति चेत्, युक्त्यापि विचार्यमाणे आत्मनः सद्रूपत्वं सेत्स्यति । तत्कथमिति चेत्, शृणु । वयमस्मिल्लोके विद्यमाना वा न वेति विचार्यमाणे विद्यमाना एवेति जानीहि । तथा सर्वेषा 'अहमिहास्मि' इत्यनुभवात् । एवं विद्यमाना वयं शरीरिणो वा अशरीरिणो वा ? शरीरिण एव नाशरीरिणः, शरीरस्य दर्शनात् ॥

इदं शरीरं केन आगतमिति विचार्यमाणे कर्मणेति निश्चयः । तत्कर्म अस्मदीयं वा अन्यदीयं वेति चेत्, अस्मदीयमेवेति वक्तव्यम्, अन्यदीयकर्मणा अन्यस्य स्वर्गफलाननुभवात्, अन्यथा अन्यकर्मणा अन्यः स्वर्गादिकं प्राप्नुयात् ब्राह्मणेन यागे कृते शूद्रः स्वर्गमाप्नुयात्, पूर्वं शुकब्रह्मर्षिकृतसमाधिना अस्माकं सर्वेषां विदेहमुक्तिः स्यात् । तस्मादस्मदीयकर्मणैवास्माकं शरीरमिति वक्तव्यम् ॥

तदेतच्छरीरारम्भकं कर्मास्मिञ्जन्मनि कृतं वा पूर्वजन्मनि कृतं वेति विचार्यमाणे पूर्वजन्मनि कृतमित्येव वक्तव्यम्, एतज्जन्मकृतस्यैतच्छरीरं प्रति पूर्वभावित्वाभावेनाकारणत्वात् । पूर्वजन्मनि कर्मकरणकाले वयं विद्यमाना वा न वेति विचार्यमाणे विद्यमाना एव, अविद्यमानैः कर्मणः कर्तुमशक्यत्वात् । तदानीमस्माकं शरीरमासीद्वा न वेति चेत्, आसीदेव, शरीराभावे कर्मणः कर्तुमशक्यत्वात् । तच्छरीरमपि तत्पूर्वजन्मकृतकर्मणा वा तदनन्तरकर्मणा वा ? तत्पूर्वजन्मकृतकर्मणैवेति वक्तव्यम् । एवं पुनः पुनर्विचार्यमाणे कर्मणश्च शरीरस्य च प्रवाहरूपेणानादित्वं सिद्धम् । तदुभयवत आत्मन आकाशस्येव साक्षादेव मुख्यमेव स्वरूपेणैवानादित्वं सिद्धम् । एवं भूतकाले वर्तमानकाले च सत्त्वं सिद्धमिति युक्त्या साधितम् ॥

इतः परं भविष्यत्कालेऽप्यात्मनः सत्त्वं युक्त्या साध्यते । अस्माभिर्जन्मान्तरेषु श्रवणमननादिकमकृत्वा कर्मण एव मुख्यबुद्धया अनुष्ठितत्वादेतज्जन्म शरीरं चागतम् । अस्मिञ्जन्मनि क्रियमाणं कर्मापीतः परं जन्म ददाति । तस्मिन्नपि क्रियमाणं कर्म ततः परं जन्म ददाति । एवं पुनः पुनर्विचार्यमाणे कर्मप्रवाहस्य शरीरप्रवाहस्य च भविष्यत्कालेऽन्तौ नास्ति । तत्त्वज्ञानेन कर्माणि क्षीणे सति शरीरमपि नायाति । तदुभयसंबन्ध्यात्मा तु यावद्ब्रह्मज्ञानं शरीरस्य सृष्टिप्रलयावनुभवञ्शरीरस्य स्थितिकाले सुखदुःखे अनुभवन्सन्, अधः स्थावरपर्यन्तमूर्ध्वं ब्रह्मलोकपर्यन्तं परिभ्रमंस्तिष्ठत्येव न नश्यति । तत्त्वज्ञाने सत्यविद्याकामकर्मादीनामपि नाशाद्दुःखहेतोरभावात्स्वस्वरूपानन्दमनुभवन्विदेहमुक्तौ सुखमेव तिष्ठति । एवं भविष्यत्कालेऽप्यात्मनो न कदाचिदप्यसत्वम्, किंतु सर्वदा सत्त्वमेव युक्त्या सिध्यति ॥

एवं कालवयेऽप्यात्मनो विद्यमानत्वादबाधितत्वेन परमार्थत एकरूपत्वात्सत्त्वं सिद्धम् । एवं श्रुतियुक्त्यनुभवैरनेकप्रलयेष्वनेकप्रपश्रेष विनष्टेष्वपि स्वयमविनष्टः सन्वर्तते । अतः सृष्टिस्थितिसंहाराः प्रपञ्चस्यैव न त्वात्मनः । एवं कालत्रयेऽप्येकरूपत्वादबाधितत्वाच्चात्मा सद्रूप इति जानीहि ॥

आत्मनश्चिद्रूपत्वे प्रमाणं किमिति चेत्, श्रृणु । सूर्यादिसाधनान्तरानपेक्षं स्वयं प्रकाशमानं सत्स्वस्मिन्नारोपितसकलजडपदार्थावभासकं चिद्रपम् । एतच्चिद्रूपत्वलक्षणमात्मन्यस्ति । कथमिति चेत् । आत्मा गाढान्धकारेऽपीतरानपेक्षमेव स्वयं प्रकाशते । स्वस्मिन्नारोपितशरीरबाल्ययौवनवार्धकावस्था अवस्थाव्यापारांश्चेतरानपेक्षं सम्यग्जानाति । अत आत्मनचिद्रपत्वं सिद्धम् ॥

नन्वस्माकं सर्वज्ञत्वाभावात्सर्वपदार्थावभासकत्वं कथमिति चेत् । प्रपञ्च आन्तरो बाह्य इति द्विविधः । एतत्प्रपञ्चद्वयमप्यस्माभिः प्रकाश्यते । न वयं तेन कदाचिदपि प्रकाश्याः । तत्कथमिति चेत्, उच्यते । बाह्यप्रपञ्चो नाम पृथिव्यप्तेजोवाय्वाकाशा इति शब्दस्पर्शरूपरसगन्धा इति पञ्चीकृत भूतानीति ब्रह्माण्ड इति चतुर्दश भुवनानीति चतुर्विधस्थूलशरीराणीति च विविधनामरूपगुणधर्मविकारशक्त्याश्रयः । एतं बाह्यप्रपञ्चं ह्यवान्तरभेदेन बहुधा विभज्य प्रमाणैर्वयमेव जानीमः, न त्वस्मानयं जानातीत्यन्तर्मुखतया विचार्यमाणेऽस्माकं बाह्यप्रपञ्चावभासकत्वं सिद्धम् ॥

अथ आन्तरप्रपञ्चावभासकत्वमस्माकं कथमिति चेत्, शृणु । आन्तरप्रपञ्चोऽन्नमयादिजीवन्मुक्तिपर्यन्तैः प्रकारैर्बहुधा भिन्नः । स आन्तरप्रपञ्चः 'अयमन्नमयः' 'अयं प्राणमयः' 'अयं मनोमयः' 'अयं विज्ञानमयः' 'अयमानन्दमयः' 'एवमिमे पञ्च कोशाः' इति, 'इदं स्थूलशरीरम्' 'इदं सूक्ष्मशरीरम्' 'इदं कारणशरीरम्' 'एतच्छरीरत्रयम्' इति च, 'इमे षड् भावविकाराः' 'इमे षट् कोशाः' 'इमे षडूर्मयः' 'इदमान्ध्यम्' 'इदं मान्द्यम्' 'इदं पटुत्व' 'अयं रागः' 'अयं द्वेषः' 'इदं त्रिविधकरणम्' 'इदमन्तःकरणम्' 'अयं जाग्रत्' 'अयं स्वप्नः' 'इयं सुषुप्तिः' 'एवमेवावस्थात्रयमिति' च 'इदं ज्ञानेन्द्रिय पञ्चकम्' 'इदं कर्मेन्द्रि यपञ्चकम्' 'इमे पञ्च प्राणाः' 'इमे उपप्राणाः' 'इदं मनः' 'इयं बुद्धिः' 'इदं चित्तम्' 'अयमहङ्कार' 'अयं संकल्पः' 'अयं निश्चयः' 'इदमवधानम्' 'अयमभिमानः' 'अयं विश्वः' 'अयं तैजसः' 'अयं प्राज्ञः' इत्येवमवस्थावन्त इति, 'अयं प्रातिभासिकः' 'अयं व्यावहारिक' 'अयं पारमार्थिकः' 'इदं सात्त्विकम्' 'इदं राजसम्' 'इदं तामसम्' 'इदं सुखम्' 'इदं दुःखम्' 'इदं ज्ञानम्' 'इदमज्ञानम्' 'इदं प्रियम्' 'इदमप्रियम्' 'इयमुपेक्षा' 'इदं साधनचतुष्टयम्' 'इदं मैत्र्यादिचतुष्टयम् अयमष्टाङ्गयोगः' 'इदं श्रवणम्' 'इदं मननम्' 'इदं निदिध्यासनम्' 'अयं समाधिः' इति च, 'इदं प्रमाणम्' 'इदं प्रमेयम्' 'अयं प्रमाता' 'इदं तापत्रयम्' 'अयमाधिः' 'अयं व्याधिः' 'इदमारोग्यम्' 'इयं भक्तिः' 'इदं वैराग्यम्' 'इदं मन्दम्' 'इदं तीत्रम्' 'इदं तीव्रतरम्' 'इदं सगुणोपासनम्' 'अयं मनोनाशः' 'अयं वासनाक्षयः' 'इयं विदेहमुक्ति' 'इयं जीवन्मुक्तिः' इत्येवमादिविविधनामरूपगुणविकारशक्त्याश्रयभूत आन्तरः प्रपञ्चः सर्वोऽप्येवमेव पृथक्पृथग्विभज्यास्माभिर्ज्ञायते स आन्तरः प्रपञ्चस्त्वस्मान्न जानातीति सम्यग्विचारे क्रियमाणे यत आन्तरः प्रपञ्चोऽस्माभिर्ज्ञायते, अत आत्मनश्चिल्लक्षणसद्भावादात्मा चिद्रपः ॥

हे स्वामिन्, आत्मा चिद्रूपः केनापि न ज्ञायत इति भवद्भिरुक्तं खलु ? मनसा सकलं ज्ञायते, आत्मापि तेनैव मनसा ज्ञायतामिति चेत्, शृणु । मन उत्पत्तिविनाशवत्संकल्परूपं परिच्छिन्नं घटवद्भुतकार्यं कामादिविकारकलुषीकृतं स्मृतिविस्मृतिमत् । एवंभूतं मनो जडमिति ज्ञातव्यम् । तस्य मनसः प्रकाश एव नास्ति । तदपि मनश्चितैव ज्ञायते । तादृशं जडं मनः स्वप्रकाशचिदात्मानं कथं जानीयात् ? न कथमपि जानीयादित्यवेहि ॥

तर्हि 'मनसैवानुद्रष्टव्यम्' इति शास्त्रस्य किं तात्पर्यमिति चेत्, शृणु । अग्निना तप्तस्य स्वर्णस्य प्रकाशो जायत इति व्यवहारेऽग्निना स्वर्णेऽविद्यमानः प्रकाशो नूतनतया न सम्पाद्यते । किं त्वग्निना तप्ते सुवर्णे मले निरस्ते सति पूर्वसिद्धः स्वर्णप्रकाशः स्वयं प्रकाशते न तु नूतनः प्रकाशः सम्पाद्यते । नूतनतया सम्पाद्यत इति चेत् । आमपाकनिक्षिप्ते घटेऽप्यग्निः प्रकाशं सम्पादयेत् । तथा न दृश्यते । अयमर्थो यथा, तथा मनश्चात्माकारेण परिणममानमात्मप्रतिबिम्बसहितं च सदात्मावारकं मिथ्याभूतमनाद्यज्ञानं बाधते । निरस्तेऽज्ञाने स्वात्मा स्वयमेव भासत इति 'मनसैवानुद्रष्टव्यम्' इति शास्त्रस्य तात्पर्यम् । तस्मान्मनश्चात्मनैव ज्ञायते, न त्वात्मा मनसा ज्ञायते । एतद्वा कथमिति चेत्, शृणु । दीपेनान्धकारविनाशनस्थले स्थाली च तैलं च वर्त्तिश्चेत्येतत्त्रयमप्यन्धकारं विनाशयितुं न शक्नोति । सर्वत्र परिपूर्णः कारणाग्निरप्येतत्साधनं विहाय केवलं स्वयमेव तमन्धकारं नाशयितुं न शक्नोति । तथापि तद्वर्त्तिसम्बन्ध्यग्निर्दीपनामधेयः सन्नन्धकारं बाधते । एवमेव प्रकृते स्थालीरूपशरीरे कर्मरूपतैलेनोत्थापितवर्त्तिरूपमनस्यग्निरूप आत्मा आरुह्य तदभेदेनावस्थितो जीवनामापि संस्तत्तद्विषयावारकाज्ञानरूपान्धकारं निरस्य दीपो घटादिपदार्थानिव बाह्याभ्यन्तरपदार्थान्प्रकाशयति । तस्माद्धे पुत्र, दीपप्रकाशः स्वभासा यथा स्वयमेव प्रकाशः सन्स्वसम्बन्धिपदार्थानपि प्रकाशयति एवमेवान्तःकरणमारुह्य स्वचैतन्येनैव प्रकाशमान आत्मापि स्वसम्बन्धिपदार्थान्वाद्यानाभ्यन्तरांश्च प्रकाशयति । अत आत्मनश्चिद्रूपत्वं सिद्धम् ॥

अथानन्दरूपत्वमुच्यते । नित्यं निरुपाधिकं निरतिशयं यत्सुखं स आनन्दः । स एवात्मनः स्वरूपम् । अत एव स्रक्चन्दनवनितादिविषयेभ्यो जातमनित्यं सोपाधिकमतिशययुक्तं यत्सुखं तदात्मस्वरूपानन्दो न भवति । तस्मात्पूर्वोक्त आनन्द एवात्मस्वरूपम् । तत्कथमिति चेत् । सौषुप्तानन्दे तत्सुखलक्षणस्य विद्यमानत्वात्तमानन्दमहमेवेति विजानीहि । ननु सुषुप्तौ दुःखनिवृत्तिरेव दृश्यते भवदुक्तानन्दो नानुभूयते, तस्मात्तत्र कथं सुषुप्तावानन्दलक्षणविचार इति चेत्, शृणु । लोके सुप्तोत्थितः पुरुषः 'अहमेतावन्तं कालं सुखमस्वाप्सम्' इति सुषुप्तावात्मनः सुखसद्भावमेव वदति । अतः सुषुप्तौ सर्वेषामपि स्वानुभवेनानन्दोऽस्ति । तर्हि भवदुक्तं नित्यत्वं निरुपाधिकत्वं निरतिशयत्वमिति लक्षणत्रयं सौषुप्तानन्देऽस्ति चेद्वक्तव्यमिति चेत्, शृणु । प्रथमतो निरुपाधिकत्वमुच्यते । स्रक्चन्दनवनितादिविषया उपाधयः । तैर्जायमानं सुखमौपाधिकम् । तेषूपाधिषु सुषुप्तौ न कोऽप्युपाधिर्दृश्यते । सुखं तु सर्वैरप्यनुभूयते । अतः सुषुप्तौ निरुपाधिक आनन्दोऽस्तीत्यवगम्यताम् । तस्य निरतिशयत्वं कथमिति चेत्, शृणु । मनुष्यानन्दमारभ्य हिरण्यगर्भानन्दपर्यन्ता एकादशानन्दाः । ते शतगुणोत्तरोत्तराः । अतस्तेषामानन्दानां सातिशयत्वम् । ब्रह्मानन्दस्य सर्वोत्तरस्य निरवधिकत्वात्स्वाधिकानन्दाभावान्निरतिशयत्वम् । स ब्रह्मानन्द एव सौषुप्तानन्दः । अतस्तस्य निरतिशयत्वं सिद्धम् । सर्वेऽपि पुरुषाः 'सुषुप्तिसुखमेव सुखम्, विषयजन्यं सुखं न सुखम्' इति स्त्रीपुत्रादिसुखं विहाय मृदुशय्यादिसाधनानि प्रयत्नेन सम्पाद्य सौषुप्तसुखमेवानुभवन्ति । अनुभवसमये मोहिनीं सौन्दर्यवतीं स्त्रियमपि प्रबोधयन्तीं प्रहरन्ति । तदानीं न किमपीच्छन्ति । पुनरुत्थिता अपि तमेवानन्दं स्मृत्वा अनुभवितुं पुनः शयनं कुर्वन्ति । अतस्तस्य सौप्तानन्दस्य निरतिशयत्वमस्तीत्यवेहि । नित्यत्वं कथमिति चेत् । जाग्रत्स्वप्नयोः सुखस्यानेकरूपेणानेकैर्विषयैः पृथक्पृथगनुभूयमानत्वात्तस्य परिच्छिन्नत्वेनानित्यत्वमस्ति । सुषुप्तिसुखं त्वेकरूपं पूर्णम् । जन्यं च न भवति । अतो नित्यम् । नित्यं चेजाग्रत्स्वप्रयोरप्यनुभवितव्यम्, तथा नानुभूयत इति चेत् । जाग्रत्स्वप्नयोरपि तत्सुखमस्त्येव। किं तु वृत्तिविशेषैरावृतं सन्नानुभूयते ॥

कारणभूतमानन्दं कार्यरूपा अन्तःकरणवृत्तयः कथमावृण्वन्तीति चेत्, आदित्यं मेघवदग्निं धूमवद्रज्जुं सर्पवद्ब्रह्मानन्दमप्यन्तःकरणवृत्तयः कार्यभूता अप्यावृण्वन्ति । यथा अग्न्यादित्यौ भस्महिमाभ्यां बालमूढदृष्ट्या आवृतत्वेन प्रतीयमानावपि विवेकदृष्ट्या तौ नावृतौ, तथा ब्रह्मानन्दरूपः सौषुप्तानन्दश्च जाग्रत्स्वप्नयोरावृत इव बहिर्मुखाणामेव भाति न विवेकिनामन्तर्मुखाणाम् । तेषां तु ब्रह्मानन्दः स्वरूपभूतत्वात्कालत्रयेऽप्येकरूपः सन्प्रतीयते । अतो ब्रह्मानन्दाभिन्नसौषुप्तानन्दस्यापि नित्यत्वं सिद्धम् ॥

एवं निरुपाधिकनिरतिशयनित्यब्रह्मानन्दत्रिविधलक्षणानामस्मास्वप्यनुभूयमानत्वादस्माकमानन्दरूपत्वमस्ति । एवं सच्चिदानन्दलक्षणस्यास्मासु श्रुतियुक्त्यनुभवसिद्धत्वादस्माकमात्मनः सच्चिदानन्दब्रह्मत्वं सिद्धमित्यवेहि । 'वयं सच्चिदानन्दस्वरूपाः' इत्यनुभवः कथमायातीति चेत् । षड्विधलिङ्गैर्वेदान्तशास्त्रतात्पर्यावधाररूपं श्रवणं गुरुमुखात्कृत्वा श्रवणानुसारेण मननं मननानुसारेण निदिध्यासनं कृत्वा पश्चाद्बहुकालं स्थितवतः 'सच्चिदानन्दब्रह्मैवाहम्' इति ज्ञानं जायते । इदं परोक्षज्ञानम् ॥

इदं परोक्षज्ञानमप्यकृत्वा 'अहं कर्ता' 'ममेदं कर्म' 'अहमेतजातिः' 'अहमेतद्वर्णः' 'अहमेतदाश्रमः' इत्यभिमानं सर्वमपि विहाय 'अहं ब्रह्मास्मि' 'ब्रह्मैवाहमस्मि' इत्यनुभवं च तत्र प्रयत्नं च तत्र कर्तृत्वं च विहाय तूष्णीं सुषुप्ताविव जले लवणवद्ब्रह्मणि लीनान्तःकरणस्य निर्विशेषं स्थितवतोऽस्य महात्मनो निर्विशेषं यज्ज्ञानं स्वयमेव स्फुरति स एवापरोक्षानुभवः ॥

अयमेतादृशानुभवो यदा जायते तदायं पुरुषः स्वानुभवरूपस्तदा आनन्दरूपः । तस्यानन्दवैभवं स एव जानाति नान्यः । तथा आनन्दप्रतिपादको वेदान्तोऽपि न जानाति । न वक्तुमपि शक्नोति । तदानन्दानुभववान्स पुरुषोऽपि तमानन्दं केवलमनुभवत्येव । सौषुप्तानन्दमिव नान्यस्मै वक्तुं शक्नोति । मनसापि स्मर्तुं न शक्नोति । हे पुत्र, तस्मात्तव स्वानुभूतिं त्वमेवानुभवितुं शक्तः । य ईश्वरः कृपया गुरुरूपेणागत्य त्वां बोधितवान्स गुरुरूप ईश्वरोऽपीदमित्थमिति वक्तुं न शक्नोति । हे पुत्र, एवं त्वं स्वानुभवं जानन्नप्यजानन्निवानन्दरूपेण तिष्ठ ॥

॥ इति एकादशवर्णकम् ॥