मुखपृष्ठम् · ⬆ लघुवासुदेवमननम् · ← · →
लघुवासुदेवमननम् — पञ्चमवर्णकम्¶
xyz¶
अस्यात्मनो दुःखं शरीरपरिग्रहाच्छरीरं च कर्मणेत्युक्तम् । तत्कर्म कतिविधमिति चेत्, शृणु । कर्म त्रिविधं पुण्यं पापं मिश्रं चेति । देवादिशरीरं पुण्यकर्मफलम् । तिर्यगादिशरीरं सर्वं पापकर्मफलम् । मनुष्यादिशरीरं मिश्रकर्मफलम्। एवमुक्तं त्रिविधमपि कर्मोत्कृष्टं मध्यमं सामान्यमिति प्रत्येकं त्रिविधम् । एवमुक्तकर्मभेदेन जन्मभेदश्च नानाप्रकारः। तथा हि – हिरण्यगर्भादिशरीरं पुण्यकर्मोत्कृष्टम् । इन्द्रादिशरीरं पुण्यकर्ममध्यमम् । यक्षराक्षसपिशाचादिशरीरं पुण्यकर्मसामान्यम् । परस्तापकरं कण्टकवृक्षविषवृक्षव्याघ्रसर्पवृश्चिको लूकमशकजनुकादिशरीरं सर्वं पापकर्मोत्कृष्टम् । पनसाम्रकदलीनरिकेलादिफलपत्रपुष्पविनियोगवदुक्षलतादिकं ग्रामसूकरमहिषगर्दभोष्ट्रादिकं च सर्वं शरीरं पापकर्ममध्यमम् । अश्वत्थतुलसीबिल्वगवाश्वादिशरीरं पापकर्मसामान्यम् । इह मनुष्यलोके तु निष्कामकर्मानुष्ठानसाधनचतुष्टयसद्गुरुलाभश्रवणमननात्मज्ञानक्रमेण जीवन्मुक्तेर्विदेहमुक्तेश्च योग्यं मनुष्यशरीरं मिश्रकर्मोत्कृष्टम् । स्वाश्रमोचितकर्मणां काम्यकर्मणां चानुष्ठानयोग्यं शरीरं मिश्रकर्ममध्यमम् । चण्डालपुल्कसकिरातयवनादिशरीरं मिश्रकर्मसामान्यम् । तस्माद्विवेकिना पुरुषेणैतत्कर्मफलतारतम्यं विचार्य भूमौ मनुष्यजन्मनि मिश्रकर्षोत्कृष्टं जन्म यथा सिध्येत्तथा स्ववर्णाश्रमकर्माणि कृत्वा फलेच्छां विहायेश्वरार्पणं कृत्वा आत्मविचारद्वारा मोक्षप्राप्तावेव प्रयत्नः कर्तव्य इति सिद्धान्तः ॥
एतत्त्रिविधमपि कर्म केन क्रियत इति चेत्, त्रिविधकरणैरेव क्रियत इति जानीहि । नन्वस्मिल्लोके अहं करोमि
अहं करोमि इति वदतां सर्वेषामनुभवेनास्मिन्देहे देहाभिमानी सन्नहंशब्दार्थतया य आत्मा वर्तते तस्यात्मनः कर्तृत्वे
वक्तव्ये तं विहाय त्रिविधकारणानां भवद्भिः कर्तृत्वं कथमुच्यत इति चेत्, शृणु । आत्मा अविकारी निष्क्रियः
स्वगतभेदशून्यः । तस्मादात्मनः कर्तृत्वं वक्तुं न शक्यते । ननु कर्तृत्वं त्वात्मनिष्ठतया भाति कर्ता चान्यो न दृश्यते,
एतत्कथमिति चेत्, आत्मनि प्रतीयमानं कर्तृत्वमध्यासात् न तु स्वभावत इति विजानीहि । स्वाभाविकमिति चेत्,
न केनापि वेदान्तविचारं कृत्वा ममेदं कर्तृत्वं परिहरणीयम्, अस्यानपाये संसारबन्धो नापयास्यति इति व्यर्थः प्रयत्नः
करणीयः । आत्मनः कर्तृत्वं स्वाभाविकं भवतु प्रयत्नविशेषेण च नश्यत्विति चेत्, स्वभावस्य स्वरूपत्वात्स्वरूपनाशार्थं
को वा प्रयत्नं कुर्यात् ? स्वरूपनाशे सति को वा पुरुषार्थमनुभवेत् ? किं च, अकर्ता जीवन्मुक्तो न चेत्तदा
वेदान्तसम्प्रदायो गुरुशिष्यौ च न स्युः । किं च कर्ता साक्षी निष्क्रिय इति प्रतिपादकस्य निष्कलं निष्क्रियं शान्तं
निरवद्यं निरञ्जनम् (श्वे० ६.१९) साक्षी चेता केवलो निर्गुणश्च (वे० ६.११) इत्यादिश्रुतिवाक्यस्यापि हानिः
स्यात् । सुषुतावात्मनि विद्यमानेऽपि कर्तृत्वं न दृश्यते । यदि कर्तृत्वं तस्य स्वाभाविकमनेरुष्णत्वमिवोपलभ्येत ।
तथा नोपलभ्यते । तस्मादात्मनः कर्तृत्वं न स्वाभाविकम् । ननु सुषुप्तौ कर्तृत्वानुपलम्भः करणवियोगात्, यथा
तक्षादेः कर्तृत्वे विद्यमानेऽपि स्नानभोजनादिसमये तदनुपलम्भः, तद्वद्भवत्विति चेत्, न ।
तूष्णींभावावस्थायामन्तःकरणसंयोगे विद्यमानेऽपि कर्तृत्वानुपलम्भादात्मनः कर्तृत्वं न स्वाभाविकम्, किं त्वाध्यासिकमेव ॥
अध्यासो नामान्यनिष्ठधर्माणामन्यत्रावभासः ↗ । यथा नौनिष्ठगमनस्य तीरस्थवृक्षे तीरस्थवृक्षनिष्ठाचलत्वस्य नावि चाध्यासवशाद्भानम्, एवं त्रिविधकरणनिष्ठकर्तृत्वस्यात्मन्यात्मनिष्ठाकर्तृत्वस्य त्रिविधकरणे च भानमज्ञानवशादेव । तस्मादात्मनः कर्तृत्वमारोपादिति जानीहि । ननु जडस्य त्रिविधकरणस्याचेतनत्वादचेतनस्य कथं कर्तृत्वम्, करणत्रयस्यैव कर्तृत्वे तस्य करणान्तरेणापि भवितव्यमिति चेत्, शृणु । यथा लोकेऽचेतनस्य वायोवृक्षादीनामुन्मूलने तेषां दूरनिरसने च करणं विना कर्तृत्वम्, यथा च जलप्रवाहस्याप्यचेतनस्य वृक्षादीनामुन्मूलने तेषां दूरनिरसने च करणं विना कर्तृत्वं दृश्यते, तथा त्रिविधकरणस्यापि करणान्तरं विना कर्तृत्वमुपपद्यते ॥
एतत्त्रिविधकरणकृतानि कर्माणि कानीति चेत्, उच्यते । सविशेषचिन्ता निर्विशेषचिन्ता परलोकचिन्ता भक्तिज्ञानवैराग्यचिन्तेत्यादिबुद्धिविकाराः सर्वेऽपि मनसा क्रियमाणानि कर्माणि मानसपुण्यकर्माणि । विषयचिन्ता परेषामपकारचिन्ता वेदशास्त्रयोरप्रामाण्यचिन्ता धर्माद्यभावचिन्तेत्यादिबुद्धिविकाराः सर्वेऽपि मानसपापकर्माणि । सविशेषचिन्ताया निर्विशेषचिन्तायाः पुण्यचिन्ताया अपि विषयचिन्तादिपापचिन्तया मिश्रीकृत्यानुष्ठानं मानसं मिश्रकर्म । वेदाध्ययनं शास्त्रपठनं गीतापठनं सहस्रनामपठनं पञ्चाक्षरादिमन्त्रजपो भगवन्नामकीर्तनं परोपकारवार्त्ता सत्यवाक्यं मृदुभाषणं पूर्वभाषणं च वाचा क्रियमाणं पुण्यकर्म । वेदशास्त्रदूषणं देवतादूषणमसत्यपिशुनपारुष्यवार्त्ता अपहासवार्त्ता चेत्यादि वचनं सर्वं वाचिकं पापकर्म । वेदाध्ययने पूजाकाल एवमादिपुण्यवार्त्तासु परनिन्दाया असत्यस्य परिहासस्य लौकिकवार्त्ताया एवमादिपापानां मिश्रीकृत्यानुष्ठानं वाचिकं मिश्रकर्म । पुण्यतीर्थस्नानं गुरूदेवतानमस्कारो देवपूजाप्रदक्षिणं सज्जनदर्शनं त्यागो लोकानुग्रहसञ्चार एवमादिकर्माणि कायेन क्रियमाणानि कायिकं पुण्यकर्म । परहिंसा परस्त्रीसङ्गचौर्यं दुष्टसङ्ग इत्यादिकर्माणि कायेन क्रियमाणानि कायिकं पापकर्म ! ब्राह्मणभोजनार्थं परोपद्रवो देवालयनिर्माणार्थं परद्रव्यापहारः प्रपां स्थापयित्वा भृतकस्याप्रदानमेवमादिकर्माणि पुण्यानि पापानि च मिश्रीकृत्य कायेनानुष्ठीयमानानि कायिकं मिश्रकर्म ॥
??एतानि त्रिविधान्यपि कर्माणि सम्यग्विचारणीयानि । विचारस्य फलं किमिति चेत्, मुख्यफलमवान्तरफलमिति
फलद्वयमस्ति । कथमिति चेत् । इमानि त्रिविधकर्माणि त्रिविधैरेव करणैः क्रियन्ते । आत्मा त्वयमाकाशवदसङ्गो
निरंशः परिपूर्णश्चैतन्यस्वरूपः । अतो न कस्यापि कर्मणः कर्ता । अत एव यच्चाप्नोति यदादत्ते यच्चात्ति
विषयानिह। यच्चास्य संततो भावस्तेन चात्मेति गीयते ॥ इत्युक्त आत्मशब्दस्यार्थः । तस्मात् नैकमपि कर्म
चिदाकाशस्वरूपं स्पृशति इति ज्ञात्वा संशयं विहाय दृढानुभवेनावस्थानं मुख्यफलम् । ब्रह्मज्ञाने सत्यपि
त्रिविधकरणमपि पुण्यकर्मण्येव स्थापयितव्यम्, तदसम्भवे मिश्रकर्मणि वा स्थापयितव्यम्, न कदाचिदपि
पापकर्मणि इति ज्ञात्वा तथैवावस्थानमवान्तरफलम् । यथा कदलीपोषकस्य कदलीफलं मुख्यफलं
तत्पत्त्रपुष्पादिकमवान्तरफलम्, तथैव त्रिविधकरणकृतकर्मज्ञानस्यापि पूर्वोक्तफलद्वयमिति ज्ञेयम् ॥
नन्वम्भसा पद्मपत्रमिव कर्मणा ज्ञानी न लिप्यते, तस्य न कोऽपि विधिर्निषेधो वा, सत्वकर्ता कर्मसाक्षी
कृतकृत्य इति सिद्धान्तितत्वात्, तस्य ज्ञानिनोऽज्ञानिन इव पुण्यकर्मैवानुष्ठेयमिति नियमः कथमिति चेत् ।
सत्यं स ज्ञानी कृतकृत्य एव, कर्तापि न भवति । न तत्र सन्देहः । तथापि ब्रह्मविद्ब्रह्मविद्वरो
ब्रह्मविद्वरीयान्ब्रह्मविद्वरिष्ठ इति तेषां मध्ये ब्रह्मविद्वरिष्ठ एव विदेहमुक्तः । असौ वरिष्ठ एव वृत्तिशून्यः ।
तस्यैव न विधिनिषेधश्च । अन्येषामपि त्रयाणां ज्ञानमहिम्ना विधिनिषेधाभावेऽपि वृत्तिशून्यत्वाभावाद्व्यवहारवत्त्वाच्च
लोकानुग्रहार्थं सदाचार एव स्थातव्यमित्युच्यते, न तु नियम्यते । तस्मात्तत्त्वज्ञानिना कर्मिणां मध्ये
कर्मिवत्कर्मानुष्ठेयम् । जिज्ञासूनां मध्ये तु कर्म त्यक्त्वा ब्रह्मैव सत्यम्, अन्यत्सर्वमसत्यम् इति
ज्ञानमेवोपदेष्टव्यम् । अत्र प्रकृतं किमिति चेत्, त्रिविधकरणस्यैव कर्तृत्वं नात्मन इति निश्चितम् ॥
अथ त्रिविधमपि करणं स्वयमेव कर्तृ, अन्येन प्रेरितं वेति विचार्यमाणे रागद्वेषादिना प्रेरितमेव कर्तृ न स्वयम्, रागद्वेषादौ सति करणत्रयं प्रवर्तते असति न प्रवर्तत इत्यन्वयव्यतिरेकाभ्यां रागद्वेषादेः करणप्रवर्तकत्वस्यानुभवसिद्धत्वात् ॥
ननु अहं देवालयं कारयामि अहं तटाकं कारयामि इत्यादिव्यवहारादात्मा कारयिता भवत्विति चेत्, न ।
आत्मनो निर्विकारत्वान्न तत्रापि कारयितृत्वमुपपद्यते । आत्मनि कारयितृत्वं भातीति चेत्, जपाकुसुमनिष्ठं लौहित्यं
स्फटिक इव रागद्वेषादिनिष्ठं कारयितृत्वमात्मनि भ्रान्त्याऽऽरोप्यत इति ज्ञेयम् । स्वाभाविकं चेत्तन्नाशार्थं न कोऽपि
यत्नं कुर्यात्, स्वभावस्य स्वरूपत्वात्कथञ्चित्तस्य नाशे स्वरूपनाश एव स्यात् । आत्मनोऽपि कारयितृत्वं यदि स्यात्,
तर्ह्यात्माऽसङ्गो निष्क्रियो अकारयितेति प्रतिपादिका अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमैकात्म्यप्रत्ययसारं
प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः (माण्डू० ७) इति श्रुतिर्भज्येत, कारयितृत्वस्य
जन्यत्वे तज्जन्यमुक्तेरपि जन्यत्वं स्यात्, सुषुप्तावपि कारयितृत्वं दृश्येत । तन्न दृश्यते । तस्मादात्मनः कारयितृत्वं
न स्वाभाविकम् । किं त्वागन्तुकमेव ॥
ननु सुषुप्तौ कारयितृत्वादर्शनमात्रेणात्मनः कारयितृत्वं नास्तीति वक्तुं न शक्यते। यथोपाध्यायस्याध्यापकत्वं विद्यमानमपि शिष्यवर्गासन्निधाने न दृश्यते, तद्वत्सुषुप्तौ करणसंयोगाभावाद्विद्यमानमपि कारयितृत्वं न दृश्यते, जाग्रत्स्वप्नयोः करणसंयोगस्य सत्त्वाद् दृश्यत इति वक्तुं शक्यत्वादिति चेत्; तर्हि जाग्रत्युदासीनतूष्णींभावावस्थायां करणसंयोगस्य विद्यमानत्वात्कारयितृत्वं दृश्येत । तन्न दृश्यते । तस्मादागन्तुकमेवेति वक्तव्यम् । यथा अन्योन्याध्यासादयोनिष्ठदीर्घत्वहस्वत्वादयोऽग्नावग्निनिष्ठोष्णत्वप्रकाशादयोऽयसि च भान्ति, तद्वदज्ञानादेव रागद्वेषादिनिष्ठकारयितृत्वमात्मन्यात्मनिष्ठाकारयितृत्वं रागद्वेषादौ च भाति ॥
नन्वचेतनस्य रागद्वेषादेः कथं कारयितृत्वम्, न हि घटो घटान्तरं प्रेरयतीति चेत्, सत्यम् । तथापि
कुत्रचिद्योग्यतावशाज्जडः प्रेरयति योग्यताऽभावात्कुत्रचिन्न प्रेरयति । यथा जडोऽप्यग्निर्गन्धकादिसंयुक्तेङ्गालचूर्णविशेषैः
सहितः सञ्जडमेव बृहन्नलिकान्तः स्थितं स्थूलपापाणं प्रेरयंस्तेन चतुरङ्गसेनां हन्ति । किं च प्रेतशरीरं जडमपि
स्वज्ञातिक्रियमाणामपरक्रियां प्रति स्वयं कारयितृ भवति । एवमेवाचेतनमपि रागद्वेषादि कारयितृ भवति । तर्हि
आत्मा हृषीकेशः सर्वान्तर्यामी इति वदन्त्याः श्रुतेः किं तात्पर्यमिति चेत्, आदित्यवत्सन्निधानमात्रेण
सर्वकार्यानुकूलो भवतीति तात्पर्यम् । नन्वात्मा सन्निधानमात्रेणापि सर्वप्राणिकर्महेतुर्हि, अत आत्मनोऽपि
तत्पुण्यपापतत्फलसम्बन्धोऽपि स्यादिति चेत्, न । यथा आदित्यस्य सन्निधानमात्रेण
सकलजनपुण्यपापानुकूलस्यापि तत्पुण्यं च तत्पापं च तत्फलं च यथा न स्यात्तथा आत्मनोऽपि मन्तव्यम् ।
अयश्चेष्टापि सन्निधानमात्रेण स्वानुकूलां कान्तशिलां यथा न स्पृशति तथा प्राणिकर्माप्यात्मानमिति च ज्ञेयम् ।
तस्मान्नात्मनो निरञ्जनत्वनिर्विकारत्व भङ्गः ॥
प्रतिबन्धकत्रयम्¶
एवमात्मस्वरूपे प्रसिद्धे गुरुणोपदिश्यमानेऽपि प्रतिबन्धकत्रयेण न निश्चयो भवति । प्रतिबन्धकत्रयं च संशयभावनाऽसम्भावना विपरीतभावना चेति । ऋगादिशाखासूपदिश्यमानमुपनयनादिकर्म यथाऽनेकविधं तथर्गादिशाखासूपदिश्यमानमात्मतत्त्वमप्यनेकप्रकारं वा न वेति संशयः संशयभावना । सा सकलवेदान्ततात्पर्यावधारणरूपश्रवणेन नश्यति । एवं सर्वेषां वेदान्तानामद्वैते ब्रह्मण्येव तात्पर्यमिति श्रवणेन प्रमाणविषये संशये नष्टेऽपि इदमद्वैतं कथं सम्भाव्यते सत्यत्वेन प्रतीयमानेषु जीवेश्वरजगत्सु परस्परभिन्नेषु सत्स्विति बुद्धिरसम्भावना । इयं स्वप्नदृष्टान्तादिरूपयुक्त्यात्मकमननेन नश्यति । एवं श्रवणे मनने च कृतेऽपि, अनाद्यविद्यावासनया सर्वस्यापि जगतो यथापूर्वं सत्यत्वप्रतीतिर्विपरीतभावना । सा ब्रह्मैकाकारप्रत्ययप्रवाहरूपनिदिध्यासनेन नश्यति । एवं प्रतिबन्धकत्रयस्य नाशाकरणे यथा सर्वस्य दाहकोऽप्यग्निर्मणिमन्त्रादिप्रतिबन्धकैः प्रतिबद्धः सन्नेकं तृणमपि दग्धुं न शक्नोति, एवं ज्ञानाग्निरपि प्रतिबन्धकैः प्रतिबद्धः सन्नज्ञानतत्कार्येषु किञ्चिदपि दग्धुं न शक्नोति । पूर्वोक्तप्रकारेणास्मिन्प्रतिबन्धकत्रयेऽप्यपनीते सति सद्य एवाग्निस्तृणमिवायमप्यविद्यां तत्कार्यं सर्वमपि दग्धुं शक्नोति ॥
षड्विधलिङ्गतात्पर्यनिर्णयः¶
किं च, उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये । इति
वचनेन षड्विधलिङ्गैस्तात्पर्यनिर्णयः कर्तव्यः । अत्र च्छान्दोषष्ठाध्याये सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्
(छा० ६.२.१) इत्युपक्रम्य ऐतदात्म्यमिदं सर्वं तत्सत्यम् (छा० ६.८.७) इत्यखण्डैकरस एवोपसंहृत
इत्युपक्रमोपसंहारैकरूप्यमेकं लिङ्गम् । तस्त्वमसि (छा० ६.८.७) इति नवकृत्वस्तस्यैवाभ्यासो द्वितीयम् ।
अखण्डैकरसस्य प्रत्यक्षादिप्रमाणान्तराविषयत्वमपूर्वता तृतीयम् । तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये
(छा० ६.१४.२) इत्यखण्डैकरसज्ञानस्य प्रारब्धभोगानन्तरं विदेहकैवल्यरूपफलवचनं चतुर्थम् । अर्थवादस्तु
पञ्चमम् । यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्यात्- (छा० ६.१.४)
इत्यादिदृष्टान्तवचनमुपपत्त्याख्यं षष्ठम् । सृष्टिस्थितिप्रलयप्रवेशसंयमनतत्त्वंपदार्थपरिशोधनफलप्रतिपादका
इति सप्तार्थवादाः । तत्र तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः (तै० २ १ .) इत्याद्याः
सृष्ट्याद्यर्थवादरूपाः श्रुतय आकाशादेः सर्वस्य ब्रह्मण एवोत्पत्तेस्तस्मिन्नेवावस्थानात्पुनस्तत्रैव
लयान्मृदुत्पत्तिस्थितिलयात्मकस्य घटादेर्मृदभेदवत्कारणब्रह्ममात्रतामवगमयन्त्यो महावाक्योक्तं ब्रह्मणोऽद्वितीयत्वं
सम्भावयामासुः । तथा स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत (ऐ० १.३.१२ .)
तत्सृष्ट्वा तदेवानुप्राविशत् (तै० २.६.) अनेन जीवेनात्मनाऽनुप्रविश्य नामरूपे व्याकरवाणि
(छा० ६.३.२.) इत्याद्याः श्रुतयो ब्रह्मण एव जीवरूपेण प्रवेशं ब्रुवन्त्यो बहिः स्थित्वाऽन्तर्गृहे
प्रविष्टदेवदत्तवज्जीवब्रह्मणोरभेदं महावाक्यार्थं सम्भावयामासुः । तथा यः पृथिव्यां तिष्ठन्पृथिव्या
अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः
(बृ० ३.७.३) इत्यादिनियमनश्रुतिश्चात्यन्तभेदे नियम्यनियामकभावानुपपत्तेस्तयोरभेदमेव सम्भावयति ।
तथा स वा एष पुरुषोऽन्नरसमयः (तै० १.१.) यदग्ने रोहितं रूपम् - (छा० ६.४.१.)
इत्याद्यास्तत्त्वंपदार्थपरिशोधनरूपाः श्रुतयो जीवेश्वरोभयगतविरुद्धधर्मनिरसनद्वारा तयोरैक्यमेव सम्भावयन्ति ।
तथा ब्रह्मविदाोप्नोति परम् (तै० २.१) अमृतः समभवत् (ऐ० ३.४) इत्याद्याश्वाभेदज्ञानस्य
निरतिशयफल प्रदर्शनेनाभेदस्य विवक्षितत्वं ज्ञापयन्त्यस्तमेव सम्भावयन्ति। इत्थं
सृष्टिस्थितिप्रलयप्रवेशसंयमनतत्त्वंपदार्थपरिशोधनफलमतिपादकैः सप्तविधार्थवादैरनुगृहीतं
सज्जीवब्रह्मैक्यरूपमखण्डैकरसमेवावान्तरवाक्यैः सहितं यत्प्रतिपादयत्यतोऽखण्डैकरसत्वेनैव
महावाक्यस्यार्थो वक्तव्य इति षड्विधलिङ्गैः श्रुतितात्पर्यावधारणं श्रवणमित्युक्तम् ॥
इदानीं किं प्रकृतमिति चेत् । मयोक्तप्रकारेण विचार्य रागद्वेषादिना प्रेरितं सत्रिविधकरणं
त्रिविधकर्म करोति, प्रधानप्रेरितसेनया सम्पादितं जयं राजा अहं जितवानित्यात्मन्यारोपयति,
एवमात्मा च रागद्वेषादिनिष्ठं प्रेरकत्वमज्ञानादात्मन्यभिमन्यते, एवमात्मनः कर्तृत्वं कारयितृत्वं च
नास्ति । इति यो दृढं निश्चिनोति स एव जीवन्मुक्तः ॥
इति पञ्चमवर्णकम् ॥
सारः¶
- कर्माणि त्रिविधानि
- पापं, पुण्यं, मिश्रम् ।
- उत्कृष्टं, मध्यमं, सामान्यम् ।
- पापं, पुण्यं, मिश्रम् ।
- कर्ता
- पू०प० आत्मादेहाभिमानी सन् अहंशब्दतया य आत्मा स कर्ता ।
- सि० आत्मा निर्विकारः, कर्तृत्वं न शक्यम् ।
- सि० त्रिविधकारणानां कर्तृत्वम् ।
- पू०प० कार्तृत्वम् आत्मनिष्ठम् । अन्यः न कोऽपि कर्ता दृश्यते ।
- सि० आत्मनि प्रतीयमानं कर्तृत्वमध्यासात् न तु स्वभावत
- किमर्थम् अध्यासः? स्वाभाविकं चेत् अनपायता (वेदान्तविचारः व्यर्थः) ।
- स्वाभाविकं भवतु, प्रयत्नविशेषेण च नश्यतु ।
- स्वभावः = स्वरूपम् । स्वरूपनाशे, को वा पुरुषार्थमनुभवेत् ।
- अकर्ता जीवन्मुक्तः न चेत् तदा वेदान्तसम्प्रदायो गुरुशिष्यौ न स्युः ।
- श्रुतिवाक्यहानिः (निष्कलं निष्क्रियं शान्तम् ...)
- सुषुप्तौ आत्मा अस्ति, कर्तृत्वं न दृश्यते । स्वाभाविकं चेत् तत्रापि भवतु ।
- तत्र करणाभावात् न दृश्यते । (यथा तक्षादीनां स्नानभोजनादिसमये)
- किन्तु तूष्णींभावावस्थायाम् अन्तःकरणसंयोगः अस्ति किन्तु कर्तृत्वं नास्ति ।
- तत्र करणाभावात् न दृश्यते । (यथा तक्षादीनां स्नानभोजनादिसमये)
- अध्यासः
- उदा० नौनिष्ठगमनम्, तीरस्थवृक्षे तीरस्थवृक्षनिष्ठाचलत्वस्य नावि चाध्यासवशाद्भानम् ।
- तथा त्रिविधकरणनिष्ठकर्तृत्वस्य आत्मनि आत्मनिष्ठाकर्तृत्वस्य त्रिविधकरणे भानम् अज्ञानवशाद् ।
- अतः आरोपाद् आत्मनः कर्तृत्वम् ।
- त्रिविधकरणस्य कथं कर्तृत्वम्?
-
- अचेतनत्वम्, अचेतनस्य कथं कर्तृत्वम्?
-
- कर्तुः करणानि अपेक्ष्यन्ते ।
- अचेतने वायौ/जले अपि करणानि न सन्ति, किन्तु कर्तृत्वम् अस्ति (वृक्षादीनामुन्मूलनम्)।
-
- सि० आत्मनि प्रतीयमानं कर्तृत्वमध्यासात् न तु स्वभावत
- पू०प० कार्तृत्वम् आत्मनिष्ठम् । अन्यः न कोऽपि कर्ता दृश्यते ।
- पू०प० आत्मादेहाभिमानी सन् अहंशब्दतया य आत्मा स कर्ता ।
- कर्माणि त्रिविधानि
- मानसकर्माणि
- पुण्यकर्माणि – सविशेषचिन्ता निर्विशेषचिन्ता परलोकचिन्ता भक्तिज्ञानवैराग्यचिन्तेत्यादिबुद्धिविकाराः ।
- पापकर्माणि – विषयचिन्ता परेषामपकारचिन्ता वेदशास्त्रयोरप्रामाण्यचिन्ता धर्माद्यभावचिन्तेत्यादिबुद्धिविकाराः ।
- मिश्रकर्माणि – सविशेषचिन्ताया निर्विशेषचिन्तायाः पुण्यचिन्ताया अपि विषयचिन्तादिपापचिन्तया मिश्रीकृत्यानुष्ठानम् ।
- वाक्कर्माणि
- पुण्यकर्माणि – वेदाध्ययनं शास्त्रपठनं गीतापठनं सहस्रनामपठनं पञ्चाक्षरादिमन्त्रजपो भगवन्नामकीर्तनं परोपकारवार्त्ता सत्यवाक्यं मृदुभाषणं पूर्वभाषणं च वाचा क्रियमाणं पुण्यकर्म ।
- पापकर्माणि – वेदशास्त्रदूषणं देवतादूषणमसत्यपिशुनपारुष्यवार्त्ता अपहासवार्त्ता चेत्यादि वचनं सर्वं वाचिकं पापकर्म ।
- मिश्रकर्माणि – वेदाध्ययने पूजाकाल एवमादिपुण्यवार्त्तासु परनिन्दाया असत्यस्य परिहासस्य लौकिकवार्त्ताया एवमादिपापानां मिश्रीकृत्यानुष्ठानं वाचिकं मिश्रकर्म ।
- कायिककर्माणि
- पुण्यकर्माणि – पुण्यतीर्थस्नानं गुरूदेवतानमस्कारो देवपूजाप्रदक्षिणं सज्जनदर्शनं त्यागो लोकानुग्रहसञ्चार एवमादिकर्माणि कायेन क्रियमाणानि कायिकं पुण्यकर्म ।
- पापकर्माणि – परहिंसा परस्त्रीसङ्गचौर्यं दुष्टसङ्ग इत्यादिकर्माणि कायेन क्रियमाणानि कायिकं पापकर्म।
- मिश्रकर्माणि – ब्राह्मणभोजनार्थं परोपद्रवो देवालयनिर्माणार्थं परद्रव्यापहारः प्रपां स्थापयित्वा भृतकस्याप्रदानमेवमादिकर्माणि पुण्यानि पापानि च मिश्रीकृत्य कायेनानुष्ठीयमानानि कायिकं मिश्रकर्म ।
- ज्ञानिनः कर्मविधानम्
- ज्ञानी कर्मणा न लिप्यते, कथं तेन पुण्यकर्मैवानुष्ठेयमिति ?
- नियमः नास्ति (न विधिः न निषेधः) ।
- ज्ञानिभेदाः –
- ब्रह्मविद्वरिष्ठः = विदेहमुक्तः । वृत्तिशून्यत्वम् ।
- ब्रह्मविद्वरीयान्
- ब्रह्मविद्वरः
- ब्रह्मविद्
- त्रयाणां वृत्तिशून्यत्वाभावात् व्यवहारत्वाच्च लोकानुग्रहार्थं सदाचारे स्थातव्यमित्युच्यते (न तु नियम्यते) ।
- कर्मिणां मध्ये कर्मिवत्कर्मानुष्ठेयम् । जिज्ञासूनां मध्ये तु कर्म त्यक्त्वा
ब्रह्मैव सत्यम्, अन्यत्सर्वमसत्यम्इति ज्ञानमेवोपदेष्टव्यम् ।
- कर्मिणां मध्ये कर्मिवत्कर्मानुष्ठेयम् । जिज्ञासूनां मध्ये तु कर्म त्यक्त्वा
- ज्ञानी कर्मणा न लिप्यते, कथं तेन पुण्यकर्मैवानुष्ठेयमिति ?
- मानसकर्माणि
- कारयितृत्वम् – रागद्वेषौ करणप्रवर्तकत्वहुतू ।
- आत्मा कारयिता?
अहं देवालयं कारयामि- आत्मनि कारयितृत्वं भातीति चेत्, जपाकुसुमनिष्ठं लौहित्यं स्फटिक इव रागद्वेषादिनिष्ठं कारयितृत्वमात्मनि
भ्रान्त्याऽऽरोप्यत इति ज्ञेयम् । न स्वाभाविकम् ।
- स्वाभाविकं चेत् कः नाशाय प्रवर्तेत, श्रुतिहानिः, सुषुप्तावपि दृश्येत (करणवियोगात् तथा चेत् तूष्णींभावे अकर्तृत्वं न स्यात्)।
- आत्मनि कारयितृत्वं भातीति चेत्, जपाकुसुमनिष्ठं लौहित्यं स्फटिक इव रागद्वेषादिनिष्ठं कारयितृत्वमात्मनि
भ्रान्त्याऽऽरोप्यत इति ज्ञेयम् । न स्वाभाविकम् ।
- अचेतनौ रागद्वेषादेः कथं कारयितृत्वम्?
- उदा०???
- आत्मा कारयिता?
- आत्मा सन्निधानमात्रेण सर्वप्राणिकर्महेतुः ⇒ पुण्यपापादिफलसम्बन्धोऽपि स्यात्!
- न, यथा सूर्यस्य न भवति ।
-
एवम् आत्मस्वरूपे सति, कथं गुरुणोपदिश्यमानेऽपि निश्चयः न भवति?
- प्रतिबन्धत्रयम् – संशयभावनाऽसम्भावना विपरीतभावना चेति ।
-
षड्विधलिङ्गतात्पर्यनिर्णयः
- जीवन्मुक्तः