लघुवासुदेवमननम् — प्रथमवर्णकम्¶
सर्वतन्त्रस्वतन्त्राय सदात्माद्वैतवेदिने । श्रीमते शंकरार्याय वेदान्तगुरवे नमः ॥१॥ योऽवतीर्ण इहाचार्यरूपेण यतिनां मुदे । श्रीमन्नारायणं वन्दे तं हरिं करुणानिधिम् ॥२॥ मननाख्यं प्रकरणं वासुदेवयतीश्वरैः । रचितं विस्तरेणाद्य संग्रहेण प्रकाश्यते ॥३॥ बालानामुपकाराय मम विज्ञानसिद्धये । तत्र श्रीबालगोपालकृष्णः सन्निहितो भवेत् ॥४॥
इह खलु धर्मार्थकाममोक्षाणां चतुर्णां पुरुषार्थानां मध्ये मोक्ष एव परमपुरुषार्थः, नित्यत्वात् 'न च पुनरावर्तते न च पुनरावर्तते' (छा० ८.१५.१) इति श्रुतेः । इतरेषां त्रयाणां न तथात्वम्, अनित्यत्वात् 'तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते ' (छा० ८.१.६) इति श्रुतेः । स च मोक्षो ब्रह्मज्ञानादेव सिध्यति, 'तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय' (श्वे० ६.५), 'ब्रह्मविदाप्नोति परम्' (तै० २.१) इत्यादिश्रुतिभ्यः ॥
तच्च ब्रह्म अध्यारोपापवादाभ्यां ज्ञातव्यम्, आरोपितनिवृत्त्यैवाधिष्ठानज्ञानोदयात्, 'अध्यारोपापवादाभ्यां ज्ञातव्यस्तत्त्वनिर्णयः', 'न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्त्वमानशुः' (कै० २) इति वचनात् । तस्मान्मुमुक्षुणा अध्यारोपापवादाववश्यं ज्ञातव्यौ॥
तत्र अध्यारोपो नाम शुक्तिकायां रजतवत्, रज्जौ सर्पवत्, स्थाणौ पुरुषवच्च निष्प्रपञ्चात्मवस्तुनि प्रपञ्चारोपः । अयमध्यारोपो वस्त्वज्ञानादागतः । तदज्ञानमेवाविद्या तमो मोहो मूलप्रकृतिः प्रधानं गुणसाम्यमव्यक्तं मायेति चोच्यते । मूलप्रकृतिर्नाम शुक्लरक्तकृष्णतन्तुसमुदायरूपरज्जुवत्सत्त्वरजस्तमोगुणसमुदायरूपा । अस्याः प्रलयो महासुषुप्तिरिति च नाम । अस्यां मूलप्रकृतावनन्तकोटिजीवाः स्वस्वकर्मवासनाभिः सह जतुपिण्डे सुवर्णरेणव इव सृष्टेः पूर्वं लीना वर्तन्ते । अयमनुभवः सकलजनानां सुषुप्त्यवस्थायामस्ति । सा मूलप्रकृतिः सृष्टिकाले परिपक्वजीवकर्मवशान्मायाऽविद्या तामसीति त्रिविधा जाता । तत्र माया विशुद्धसत्त्वप्रधाना । तत्र प्रतिबिम्बितं सत्सृष्टेः पूर्व विद्यमानं ब्रह्मचैतन्यमीश्वर इत्युच्यते । तस्याव्याकृतोऽन्तर्यामीति च नाम । स एव जगत्स्रष्टा । स एव परिपूर्णं ब्रह्मचैतन्यम् । तदेव तामस्यवच्छिन्नं सज्जगदुपादानमपि भवति । तन्तोरूर्णनाभवत्स्वोपाधिप्राधान्येनोपादानकारणं स्वप्राधान्येन निमित्तकारणम् ॥
अयमीश्वरः केन प्रकारेण जगत्सृष्टवानिति चेत्, उच्यते – पूर्वोक्ताऽविद्या रजःप्रधाना बहुप्रकाराऽनन्ता । तदविद्याप्रतिबिम्बितचैतन्यरूपा जीवा अप्यनन्ताः । अनयोर्जीवेश्वरयोर्व्यष्टिरूपाऽविद्या समष्टिरूपा मूलप्रकृतिश्च क्रमेण कारणशरीरे । तयोः कारणशरीरयोर्जीवस्येश्वरस्य चावस्थानं सुषुप्त्यवस्था । तयोः स्वस्वकारणशरीरमेवानन्दमयकोशः । एवं कारणप्रपञ्चसृष्टिः ॥
अथ सूक्ष्मप्रपञ्चसृष्टिरुच्यते – ईश्वरस्येक्षणवशात्तमोगुणरूपा प्रकृतिरावरणशक्तिर्विक्षेपशक्तिरिति द्विविधा जाता । तत्र विक्षेपशक्तिरेव सूक्ष्म आकाशोऽभवत् । आकाशाद्वायुः । वायोरग्निः । अग्नेरापः । अद्भ्यः पृथिवी । एतेषां पञ्चभूतानां सूक्ष्मभूतान्यपञ्चीकृतानि तन्मात्राणि चेति नाम । एतेषामपि सत्त्वरजस्तमोगुणाः कारणादज्ञानादागताः सन्ति । एतेषामाकाशादीनां पृथक्पृथक्सत्त्वगुणांशाच्छ्रोत्रं त्वक्चक्षुर्जिह्वा घ्राणमिति पञ्च ज्ञानेन्द्रियाणि क्रमेण जातानि । आकाशादिसत्त्वसमष्ट्याऽन्तःकरणं जातम् । तच्च मनोबुद्ध्यहङ्कारचित्तभदेने चतुर्विधम् । तत्र बुद्धावहङ्कारस्य मनसि चित्तस्य चान्तर्भावः । एवमाकाशादिरजोगुणाद्वाक्पाणिपादपायूपस्था इति पञ्च कर्मेन्द्रियाणि जातानि । आकाशादिरजोगुणसमष्ट्या प्राणो जातः । स च प्राणापानव्यानोदानसमानभेदेन पञ्चविधः । एतज्ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकं प्राणपञ्चकं मनो बुद्धिश्चैकीभूय सप्तदशात्मकं सूक्ष्मशरीरं लिङ्गाख्यमुच्यते । इदमेव भोगसाधनम्। अस्मिन्सूक्ष्मशरीरे जीवेश्वरयोरवस्थितिः स्वप्नावस्था । अस्मिन्विज्ञानमयकोशो मनोमयकोशः प्राणमयकोशश्च सन्ति । एवं सूक्ष्मसृष्टिप्रकारः ॥
अथ स्थूलसृष्टिप्रकार उच्यते – अथ तमोगुणप्रधानान्यपञ्चीकृतान्याकाशादीनि पञ्चापि भूतानि प्रत्येकं द्वेधा विभज्य तत्रैकैकमर्धं चतुर्धा विभज्य स्वार्थभागं विहायेतरभूतार्धभागेषु संयोजनं पञ्चीकरणम् । एवं कृते पञ्चापि पञ्चीकृतानि भवन्ति । एतेभ्यः पञ्चीकृतेभ्यो भूतेभ्यो ब्रह्माण्डं तदन्तश्चतुर्दश भुवनानि तेषु चाण्डजजरायुजस्वेदजोद्भिज्जरूपचतुर्विधस्थूलशरीराण्यनादिभोग्यवस्तूनि च जातानि । अस्मिन्स्थूलशरीरे जीवेश्वरयोरवस्थानं जाग्रदवस्था । इदं स्थूलमेवान्नमयकोशः । एवं स्थूलसृष्टिप्रकारः ॥
इदं कारणशरीरं सूक्ष्मशरीरं स्थूलशरीरं च प्रत्येकं व्यष्टिसमष्टिभेदेन द्विविधम् । 'वनम्', 'ग्रामः' इत्यादि समष्टिः, 'वृक्षः', 'गृहम्' इत्यादि व्यष्टिः । एवं सर्वशरीरं समष्टिः, एकशरीरं व्यष्टिः । तत्र समष्ट्युपाधिक ईश्वरः, व्यष्टयुपाधिको जीवः । तत्रापि कारणसमष्ट्येश्वरः, कारणव्यष्ट्या प्राज्ञः । सूक्ष्मसमष्ट्या हिरण्यगर्भः, सूक्ष्मव्यष्ट्या तैजसः । स्थूलसमष्ट्या वैश्वानरः, स्थूलव्यष्ट्या विश्वः । इति जीवेश्वरयोरवान्तरभेदः ॥
अयमेवेश्वरः सत्त्वरजस्तमोगुणैरुपाधिभिर्ब्रह्मविष्णुरुद्ररूपेण सृष्टिस्थितिसंहारान्करोति । ब्रह्मणो विराट्पुरुषेऽन्तर्भावः । विष्णोर्हिरण्यगर्भेऽन्तर्भावः । रुद्रस्य चेश्वरेऽन्तर्भावः । एवं प्रपञ्चोत्पत्तिः। अयमेवाध्यारोपः । इदं विक्षेपशक्तिकार्यम् ॥
अथावरणशक्तिकार्यमुच्यते – ईश्वरमात्मज्ञानिनं च विहायान्येषां सर्वेषां जीवानां पञ्चकोशानामात्मनश्च भेदमावरणशक्तिरन्धकार इवावृणोति । आवरणं च द्विविधमसत्त्वावरणमभानावरणं चेति । 'वस्तु नास्ति' इति व्यवहारकारणमसत्त्वावरणम् । 'वस्तु न भाति' इति व्यवहारकारणमभानावरणम् । आवरणशक्तिकार्यमेव संसारवृक्षस्य मूलम्, न विक्षेपशक्तिकार्यम् । एतन्मोक्षसिद्धेरपि हेतुः । द्विविधमप्यावरणं तत्त्वज्ञानेन विनाश्यम् । तत्त्वज्ञानं च परोक्षज्ञानमपरोक्षज्ञानं चेति द्विविधम् । तत्र गुरुमुखाद्वेदान्तजन्यं ज्ञानं परोक्षज्ञानम् । इदमेव श्रवणम् । अनेन 'वस्तु नास्ति' इत्येवंरूपमसत्त्वावरणं नश्यति । तदा 'वस्त्वस्ति' इति व्यवह्रियते । श्रवणेन संशयं मननेनासम्भावनां निदिध्यासनेन विपरीतभावनां च निवर्त्य देहात्मज्ञानवद्ब्रह्मात्मज्ञानं जायमानमपरोक्षज्ञानम् । अनेन 'वस्तु न भाति' इति व्यवहारहेतुरभानावरणं नश्यति । एवं परोक्षज्ञानेनापरोक्षज्ञानेन च 'ब्रह्म नास्ति, न भाति' इति व्यवहारहेतुरावरणद्वयमपि नश्यति । तदाऽनर्थनिवृत्तिरानन्दावाप्तिश्च भवतः । इति सप्तावस्थाः सिध्यन्ति । सप्तावस्था नाम – 'अज्ञानमावृतिस्तद्वद्विक्षेपश्च परोक्षधीः । अपरोक्षमतिः शोकहतिस्तृप्तिर्निरङ्कुशा॥' इति । एवमाकाशवन्निर्मले चैतन्यवस्तुनि मिथ्याभूतप्रपञ्चकल्पनम् अध्यारोपः ॥
अथ अपवाद उच्यते – 'कारणव्यतिरेकेण कार्यं नास्ति' इति बोधेन शुक्तिकायां रजतवद्रज्जौ सर्पवच्च 'ब्रह्मणि प्रपञ्चो नास्ति' इति निषेधोऽपवादः । 'या मा सा माया', 'या न विद्यते साऽविद्या' इति व्युत्पत्त्या मायायाः कल्पितत्वं सिद्धम् । एवं यः 'ब्रह्मव्यतिरेकेण किमपि नास्ति, तद्ब्रह्माहमेव' इति विचार्य जानाति स एव जीवन्मुक्त इति वेदान्तसिद्धान्तः । ॥ इति प्रथमवर्णकम् ॥