मुखपृष्ठम् · ⬆ लघुवासुदेवमननम् · ← · →
लघुवासुदेवमननम् — सप्तमवर्णकम्¶
आत्मानात्मविवेकः¶
इतः परं सप्तमवर्णके आत्मानात्मविवेकस्तत्साध्यमात्मज्ञानं तत्साध्यं ब्रह्मकैवल्यं च कथ्यते । आत्मानात्मविवेकेनात्मज्ञानं
जायत इति खलूक्तम् । स त्वात्मा क इति चेत्, शृणु । आत्मा शरीरत्त्रयविलक्षणोऽवस्थात्रयसाक्षी पञ्चकोशव्यतिरिक्तः
सच्चिदानन्दलक्षणः । अनात्मा तु शरीरत्रयम् । तस्य किं लक्षणमित्युक्तेऽनृतजडदुःखरूपत्वम् । तच्च शरीरत्रयं
व्यष्टिसमष्ट्यात्मकम् । व्यष्टिसमष्टिलक्षणं प्रथमवर्णके उक्तम् । अत्राप्युच्यते । वनमिव समष्टिः । वृक्ष
इव व्यष्टिः । समस्तं समष्टिः । व्यस्तं व्यष्टिः । एवं शरीरत्रयमपि व्यष्टिसमष्ट्यात्मकम् । तत्कथमिति चेत् ।
समष्टिस्थूलशरीरं समष्टिसूक्ष्मशरीरं समष्टिकारणशरीरमिति च व्यष्टिस्थूलशरीरं व्यष्टिसूक्ष्मशरीरं व्यष्टिकारणशरीरमिति च
शरीरत्रयमपि समष्टिव्यष्टिरूपेण षट्प्रकारम् । आत्मनः समष्टयुपाधिनेश्वरत्वं व्यष्टयुपाधिना जीवत्वम् । न
तु वास्तवम्, आत्मन एकत्वात् । आत्मनो मायोपाधिनेश्वरत्वमविद्योपाधिना जीवत्वम्, न तु वास्तवम् । वास्तवमिति
यावज्जानाति तावद्बन्धनिवृत्तिश्च नायाति। जीवेशावाभासेन करोति, माया चाविद्या च स्वयमेव भवति इति
सकलजीवमाता श्रुतिश्चैवमेवोपदिशति ॥
ईश्वरस्य समष्टिकारणशरीरेऽभिमानो नास्ति । कुत इति चेत्, तदा महासुषुप्तावहङ्कारस्य लीनत्वेनाभिमानकारणाभावात् । अयं समष्टिकारणोपाधिक ईश्वरोऽव्याकृतोऽन्तर्यामीति चोच्यते । अयमुत्तमभक्तैर्जीवैरुपास्यते । अस्योपासनायामशक्तानां श्रुतिः समष्टिसूक्ष्मशरीरोपाधिकमीश्वरमुपास्यत्वेनोपदिशति । तस्य हिरण्यगर्भः सूत्रात्मा महाप्राण इति नामानि सन्ति । अस्यापि हिरण्यगर्भस्य सूक्ष्मशरीरेऽभिमानोऽस्ति वा न वेति चेत्, तदा अभिमान कर्तर्यहङ्कारे विद्यमानेऽपि स्वभावस्थानादभिमानाश्रयस्थूलशरीरप्रवेशाभावात्सूक्ष्मशरीरेऽप्यभिमान ईश्वरस्य नास्ति ॥
अस्य सूक्ष्मोपाधेरीश्वरस्योपासनायामशक्ताञ्जीवान्प्रति समष्टिस्थूलोपाधिकस्येश्वरस्योपासनां श्रुतिर्विधत्ते । तस्येश्वरस्य विराद्वैराजो
वैश्वानर इति नामानि सन्ति । अस्याप्यस्मिन्स्थूलसमष्टिशरीरेऽभिमानोऽस्ति वा न वेति विचार्यमाणे, नास्ति। कथमिति चेत्,
सकलजीवशरीराणामप्येकीभूयास्य शरीरत्वेनावस्थानात्, अहम् इति व्यावर्तनीयप्रतियोग्यभावात् ॥
एतत्समष्टिशरीरत्रयोपहितमीश्वरमुपासितुमशक्ताञ्जीवान्प्रति श्रुती राजससात्विकतामसमूर्तिसहितस्य सृष्टिस्थितिसंहारकर्तुर्ब्रह्मविष्णुरुद्रनाभधेयस्य दुष्टनिग्रहाशष्टपरिपालनकृते मत्स्यकूर्माद्यवतारकर्तुरीश्वरस्योपासनां विधत्ते ॥
एवं ब्रह्मादिमूर्तिधरस्येश्वरस्य तत्तन्मूर्तवाभिमानोऽस्ति वा न वेति चेत्, अभिमानोऽस्ति । अभिमानाभावे तत्तन्मूर्त्या सृष्ट्यादिकार्यं कर्तुं न शक्यते । अतोऽभिमानोऽस्ति । एवमीश्वरस्यापि जीववदभिमाने सति जीवादीश्वरस्य को विशेष इति चेत्, विशेषोऽस्ति । कथमिति चेत्, जीवानां स्वस्वदेहेष्वहंता च ममता च सततमस्ति । ईश्वरस्य तु स्वमूर्त्यभिमानः कृपया लोकरक्षणार्थं तत्तत्कार्यसमय एवेश्वरेण केवलं कल्प्यते नटेन स्वभूमिकायामिवेति जीवाभिमानस्येश्वराभिमानस्य चास्ति महान्भेदः ॥
मूर्तिस्वरूपमीश्वरमप्युपासितुमशक्तानां शास्त्रं मूर्तिरूपेण कल्पितताम्रादिप्रतिमोपासनं विधत्ते । अत एव प्रतिमां
केचिदीश्वरबुद्धयोपासते । सर्वत्र ब्रह्मादिमूर्तिष्वपि तत्तत्प्रतिमास्वपि चान्तर्यामी परमेश्वर एक एव स्थित्वा तेषां
तेषामुपासकानां फलं ददाति । मूढा ईश्वरस्य सर्वात्मकत्वमविचार्य तत्र तत्रेश्वरा बहवो भिन्नभिन्नतया वर्तन्त
इति मत्वा अन्योन्यं कलहायन्ते । तस्मादन्तर्यामीश्वर एक एवेति जानीहि । तर्हि सर्वत्रेश्वरस्यैकत्वे शास्त्रमपि
तत्तन्मूर्तिभेदमङ्गीकृत्य तत्तदुपासनाभेदं कथं विधत्त इति चेत् । बहिर्मुखानपि शनैः शनैरन्तर्मुखान्कृत्वा
परमात्मैव जीवात्मा, नान्यः इति बोधयित्वा तेषां मुक्तिं दातुमेवानादिकालमारभ्य प्रवृत्तं भेदमङ्गीकृत्य
तेषां बुद्धिमनुसृत्य भेदेन शास्त्रमुपासनां विधत्ते न तु तात्पर्येण । एवमीश्वरस्य परमात्मनः
समष्टिशरीरत्रयोपाधिनेश्वरत्वसिद्धिप्रकार उक्तः ॥
अथेदानीमेकस्यैव परमात्मनो व्यष्टिशरीरत्रयोपाधिना जीवत्वसिद्धिप्रकार उच्यते । व्यष्टिकारणशरीरोपहितस्य
परमात्मन एव प्राज्ञः पारमार्थिकः अविद्यावच्छिन्नः इति नामानि सन्ति ; व्यष्टिसूक्ष्मशरीरोपहितस्य
परमात्मनः तैजसः स्वप्नकल्पितः प्रातिभासिकः इति नामानि सन्ति ; व्यष्टिस्थूलशरीरोपहितस्य
परमात्मनः विश्वः व्यावहारिक चिदाभासः इति नामानि सन्तीति जानीहि ॥
अस्य जीवस्य शरीरत्रयमपि किमर्थमिति चेत्, प्रयोजनमस्ति । अन्तःकरणप्रतिबिम्बो हि जीवः । अतो जीवस्य सूक्ष्मशरीरं प्रथममावश्यकम् । पश्चात्स्थूलशरीरं बिना कर्मकर्तृत्वाभावात्स्थूलशरीरमप्यावश्यकम् । इदं कार्यशरीरद्वयमपि कारणशरीरं विना अवस्थातुमशक्यम् । अतः कारणशरीरमप्यावश्यकम् । एवं जीवस्य व्यष्टिशरीरत्रयमप्यावश्यकम् ॥
अस्य जीवस्यास्मिन्व्यष्टिशरीरत्रयेऽभिमानोऽस्ति वा न वेति विचार्यमाणे, अभिमानोऽस्ति । कथमिति चेत्, जीवस्य कर्मकर्तृत्वेन । शरीराभिमानाभावे जीवस्य तत्कर्मकर्तृत्वं नोपपद्यते । तदभावे शरीरमपि नोपपद्यते । शरीराभावे जीवत्वमेव न सम्भवति । तस्माज्जीवस्याभिमानोऽस्ति । एवं परमात्मैक एव व्यष्टिसमष्ट्युपाधिभ्यां जीवेश्वरभावं गतः । अस्य दृष्टान्तोऽस्ति वेति चेत्, अस्ति । यथैकस्यैव देवदत्तस्य पुत्रपौत्रोपाधिभ्यां पितेति पितामह इति च नामद्वयमस्ति तथा अविद्यामायोपाधिभ्यामात्मन एकस्यैव जीवत्वमीश्वरत्वं चागतम् ॥
ननु पूर्वोक्तो दृष्टान्तो जीवेश्वरनामद्वये युज्यते, किञ्चिज्ज्ञत्वसर्वज्ञत्वादिविशिष्टभेदस्य को वा दृष्टान्त इति चेत्, दृष्टान्तोऽस्ति । एकमेव जलं बृहत्तटाकस्थं सदेकग्रामसंरक्षकं महाशक्तिमत् घटस्थं सदेकगृहसंरक्षकमल्पशक्तिमद्यथा जातम्, अग्निरेक एव स्थूलमहावर्त्तिस्थः सन्बहुदूरप्रकाशको महाशक्तिमान् अल्पवर्त्तिस्थः सन्गृहमात्रप्रकाशकोऽल्पशक्तिमान्यथा च जातः, तथा आत्मनोऽपि बृहता कारणभूतमायोपाधिना सर्वज्ञत्वम् अल्पेन कार्यभूताविद्योपाधिना किञ्चिज्ज्ञत्वं चागतम् । न तु सर्वज्ञः किञ्चिज्ज्ञ इत्यात्मद्वयमस्ति । अत एव वेदान्तशास्त्रं च तत्पदस्य त्वम्पदस्य च सम्बन्धत्रयेणाखण्डं बोधयति ॥
सम्बन्धत्रयं किमिति चेत् – पदयोः सामानाधिकरण्यसम्बन्धः, पदार्थयोर्विशेषणविशेष्यभावसम्बन्धः, पदाभ्यां
सह वा पदार्थाभ्यां सह वा प्रत्यगात्मनो लक्ष्यलक्षणभावसम्बन्धः । एवं सम्बन्धत्रयम् । तस्य दृष्टान्तः –
सोऽयं देवदत्तः इत्यत्रेदं सम्बन्धत्रयमस्ति । सशब्दस्यायंशब्दस्य चैको देवदत्तपिण्ड एव
समानमधिकरणमिति तयोः शब्दयोः सामानाधिकरण्यसम्बन्धोऽस्ति । तथा तव् पदस्य त्वंपदस्य
चैकमेव चैतन्यं समानमधिकरणम् । तस्मात्पदद्वयस्यापि सामानाधिकरण्यसम्बन्धोऽस्ति ।
तत्कालतद्देशविशिष्टदेवदत्तवाचकसशब्दार्थस्यैतत्कालैतद्देशविशिष्टदेवदत्तवाचकायंशब्दार्थस्य
चान्योन्यभेदव्यावर्तकत्वेनान्योन्यं विशेषणविशेष्यभावसम्बन्धोऽस्ति । तथा
सर्वज्ञत्वपरोक्षत्वादिविशिष्टचैतन्यवाचकतत्पदार्थस्य किञ्चिज्ज्ञत्वादिविशिष्टचैतन्यवाचकत्वंपदार्थस्य
चान्योन्यभेदव्यावर्तकत्वेनान्योन्यं विशेषणविशेष्यभावसम्बन्धोऽस्ति । सोऽयं पदयोस्तत्पदार्थयोर्वा
अखण्डार्थदेवदत्तपिण्डमात्रग्रहणे विरुद्धांशं विहायाविरुद्धांशभूतदेवदत्तमात्रलक्षकत्वेन लक्ष्यलक्षणभावसम्बन्धोऽस्ति ।
तथा तत्त्वंपदयोस्तत्पदार्थयोर्वा अखण्डसच्चिदानन्दमात्रग्रहणे विरुद्धांशं विहायाविरुद्धांशभूतचैतन्यमात्रलक्षकत्वेन
लक्ष्यलक्षणभावसम्बन्धोऽस्ति ॥
इममेव लक्ष्यलक्षणभावसम्बन्धं भागत्यागलक्षणेति जहदजहल्लक्षणेति च जानीहि । तत्कथमिति चेत् ।
शास्त्रेषु वाक्यार्थग्रहणे मुख्यवृत्तिर्गुणवृत्तिलक्षणावृत्तिश्चेति वृत्तित्रयमस्ति । राजा गच्छति इति वाक्यार्थे
मुख्यवृत्तिः । नीलमुत्पलम् इति वाक्यार्थे अग्निर्माणवकः इत्यादौ च गुणवृत्तिः । लक्षणावृत्तिश्च
त्रिविधा जहल्लक्षणा अजहल्लक्षणा जहदजहल्लक्षणा चेति । गङ्गायां घोषः प्रतिवसति शोणो धावति
सोऽयं देवदत्तः इति च क्रमेण लक्षणावृत्तित्रयस्योदाहरणवाक्यानि । एतेषु मुख्यार्थग्रहणे
विरोधाल्लक्षणावृत्तिरङ्गीकृतेति ज्ञेयम् ॥
तत्त्वंपदयोर्वाच्यार्थः को लक्ष्यार्थश्च क इति चेत्, उच्यते । माया मायाप्रतिबिम्बो मायाधिष्ठानं ब्रह्म चैतत्त्रयमप्येकीभूय तत्पदवाच्यार्थः । ब्रह्ममात्रं तत्पदलक्ष्यार्थः । अविद्याऽविद्याप्रतिबिम्बोऽविद्याधिष्ठानं साक्षिचैतन्यं चैतत्त्रयमप्येकीभूय त्वंपदवाच्यार्थः । साक्षिकूटस्थचैतन्यमात्रं त्वंपदलक्ष्यार्थः । तस्मात्तत्त्वंपदवाक्यार्थग्रहणे वाच्यार्थजीवेश्वरयोर्विरोधात्तयोर्विरुद्धांशं विहायाविरुद्धांशस्य ब्रह्मचैतन्यस्य कूटस्थचैतन्यस्य चैकत्वाद्ब्रह्मकूटस्थौ लक्षयित्वाऽखण्डार्थस्तयोरैक्यमेव महावाक्येन बोध्यते । यथा पुत्रपौत्रोपाधिद्वयपरित्यागे पितृपितामहत्वाभावेनको देवदत एवावशिष्यते, महातटाकघटोपाधिपरित्यागे शैत्यद्रवमधुरस्वभावं जलमेकमेवावशिष्यते, महावर्त्त्यल्पवर्त्तिपरित्यागे लोहितोष्णप्रकाशस्वभाव वह्निरेक एवावशिष्यते, तथा मायाऽविद्योपाधिपरित्यागे सच्चिदानन्दस्वभावमेकमात्मवस्त्वेवावशिष्यते ॥
एवं विचार्य परिपूर्णस्वभावः प्रत्यगात्मैव मम स्वरूपम्, अहं ब्रह्मास्मि, ब्रह्मैवाहमस्मि इत्यनुभवो यस्य
महानुभावस्यागच्छति स एव मुक्तः स एव कृतकृत्यः स एव ब्राह्मण इति सर्वे वेदान्ता भेरीवाद्यवदुद्धोषयन्ति ॥
॥ इति सप्तमवर्णकम् ॥
सारः¶
- आत्मा कः?
- आत्मा शरीरत्रयविलक्षणः अवस्थात्रयसाक्षी पञ्चकोशव्यतिरिक्तः सच्चिदानन्दलक्षणः ।
- ईश्वरः = आत्मा + समष्ट्युपाधिः ।
- जीवः = आत्मा + व्यष्ट्युपाधिः ।
- ईश्वरस्य अभिमानः नास्ति ।
महासुषुप्तावहङ्कारस्य लीनत्वेनाभिमानकारणाभावात् ।-- किमर्थम् अयं हेतुः? अविद्याराहित्यात् इति वा वक्तुं शक्यते...
- ईश्वरः, हिरण्यगर्भः, ...
- अभिमानः कथं भवति *