सामग्रीं त्यजन्तु

लघुवासुदेवमननम् — दशमवर्णकम्

इदानीं दशमवर्णके आत्मनः पञ्चकोशव्यतिरिक्तत्वमुच्यते । अन्नमयप्राणमयमनोमयविज्ञानमयानन्दमयाः पञ्च कोशाः । अन्नविकारशुक्लशोणितजन्यं षड्भावविकारसहितमन्नेनैव वर्धमानमिदं स्थूलशरीरमेवान्नमयकोशः । कर्मेन्द्रियैः सह प्राणः प्राणमयकोशः । ज्ञानेन्द्रियैः सह मनो मनोमयकोशः । तैरेव सह बुद्धिर्विज्ञानमयकोशः । प्रियमोदप्रमोदवृत्तिभिः सहाज्ञानमानन्दमयकोशः । इष्टवस्तुसंदर्शन संतोषः प्रियम् । तद्वस्तुलाभसंतोषो मोदः । तदनुभवसंतोषः प्रमोदः । एवं पञ्च कोशाः । यथा खड्गं तत्कोशः, शिवलिङ्गं सम्पुटः, आम्रफलं त्वक्, पुरुषं कञ्चुकः, इत्येतान्येते यथा आच्छादयन्ति एवं पञ्च कोशा अध्यात्मानमाच्छादयन्ति । अतः कोशा इति संज्ञा । ननु खड्गादीनां तत्कोशादीनां च सत्ता भिन्ना । पञ्चकोशानामात्मभिन्नसत्ताकत्वाभावात्कोशादिभ्यो वैषम्यात्कथमात्माच्छादकत्वमिति चेत्, उच्यते । आदित्य किरणपरिणामविशेषत्वान्मेघस्य आदित्य सत्तैव सत्ता, तथापि स मेघ आदित्यं यथा आच्छादयति, अग्निमुपजीव्य वर्तमानस्य धूमस्याप्यग्नेः सत्तैव सत्ता, तथापि स धूमो यथा अग्निमाच्छादयति, एवमात्मसत्तया सत्तावन्तोऽपि कोशा आत्मानमाच्छादयन्ति ॥

इतः परमात्मनः पञ्चकोशव्यतिरिक्तत्वमुच्यते । खड्गादिकं तत्कोशादिकं चैकत्वेन खड्गादिरूपेण व्यवह्रियमाणमपि तत्खड्गादिकं कोशादिभिन्नम् । तद्वत्पञ्चकोशाभिन्नत्वेन व्यवह्रियमाणोऽप्यात्मा तेभ्यो व्यतिरिक्त एव । नन्वात्मनः कोशानां चैकत्वेन व्यवह्रियमाणत्वात्परस्परसम्बन्धोऽस्तीति वक्तव्यम्, आत्मनो न केनापि सम्बन्धः, स निरञ्जन इति कथमुच्यत इति चेत्, शृणु । सम्बन्धोऽनेकप्रकारः ! तर्कसिद्धान्ते समवायसम्बन्धः संयोगसम्बन्ध इति द्विप्रकारः । अवयवावयविनोर्गुणगुणिनोः क्रियाक्रियावतोर्जातिव्यक्त्योर्विशेषनित्यद्रव्ययोश्च समवायः सम्बन्धः । आत्मनः पञ्चकोशानां चावयवावयव्यादिष्वपरिगणनान्न समवायः । तर्हि भेरीदण्डयोरिव संयोगोऽस्त्विति चेत्, आत्मनो द्रव्यत्वानङ्गीकारात्सोऽपि न सम्भवति । तर्ह्यात्मनः कोशानां च को वा सम्बन्ध इति चेत्, रज्जुसर्पयोः शुक्तिकारजतयोः स्थाणुपुरुषयोराकाशवर्णयोरिव चाभ्याससम्बन्ध एव । अयमध्यास एकतराध्यासो वा अन्योन्याभ्यासो वेति चेत्, अहङ्कारस्यात्मनश्च मिलित्वैकप्रत्ययविषयत्वादन्योन्याभ्यास एव ॥

आत्मनोऽन्नमयकोशस्य चान्योन्याभ्यासः कथमिति चेत्, उच्यते । 'अहं मनुष्यः' 'अहं देवः' इति 'अहं स्री' 'अहं पुरुषः' इति 'अहं जातः' 'अहं वर्ते' 'अहं वृद्धिं गतः' 'अहं विपरिणतः' 'अहं जीर्णः' 'अहमितः परं मरिष्यामि' इति 'अहं बालः' 'अहं कुमारः' 'अहं युवा' 'अहं वृद्धः' इति 'अहं ब्राह्मणः' 'अहं क्षत्रियः' 'अहं वैश्यः' 'अहं शूद्रः' इति 'अहं ब्रह्मचारी' 'अहं गृहस्थः' 'अहं वानप्रस्थः' 'अहं संन्यासी' इति 'अहमान्ध्रः' 'अहं द्राविडः' 'अहं कर्णाटकः' इति 'अहं वत्सगोत्रः' 'अहं कौशिकगोत्रः' इति 'अहं रामः' 'अहं कृष्णः' 'अहं शंकरः' 'अहं महादेवः' इति 'अहं दीक्षितः' 'अहं शास्त्री' इति 'अहं योद्धा' 'अहं भोजी' इति चान्नमय कोशविकारधर्मानात्मन्यध्यस्यति । आत्मनिष्ठसच्चिदानन्दानन्नमय कोशे शरीरे 'मम शरीरमस्ति भाति प्रियम्' इत्यध्यस्यति । एवमन्नमयकोशस्यात्मनश्चान्योन्याध्यासः ॥

अथ प्राणमयकोशस्यात्मनश्चान्योन्याभ्यासः कथमिति चेत् । 'अहं क्षुधावान्' 'अहं पिपासावान्' 'अहं बलवान्' 'अहं वीर्यवान्' 'अहं क्रियावान्' 'अहं वक्ता' 'अहं गन्ता' 'अहं दाता' 'अहं विसर्जयिता' 'अहमानन्दयिता' 'अहं मूकः' 'अहं पङ्गुः' 'अहं विहस्तः' 'अहं षण्डः' इत्येवं पाणमयकोशविकारानात्मन्यध्यस्यति । आत्मनः सच्चिदानन्दान् 'मम प्राणोऽस्ति भाति प्रियः' इति प्राणमयकोशे चाध्यस्यति । एवं प्राणमय कोशस्यात्मनश्चान्योन्याभ्यास ॥

अथ मनोमयकोशस्यात्मनश्चान्योन्याभ्यास उच्यते । 'अहं संकल्पवान्' 'अहं विकल्पवान्' 'अहं शोकवान्' 'अहं मोहवान्' 'अहं कामी' 'अहं लोभी' 'अहं श्रोता' 'अहं स्प्रष्टा' 'अहं द्रष्टा' 'अहं रसयिता' 'अहं घ्राता' , 'अहं बधिरः' 'अहमन्धः' इत्येवं मनोमयकोशविकारानात्मन्यध्यस्यति । आत्मधर्मान्सच्चिदानन्दांश्च 'ममः मनः सम्यगस्ति भाति प्रियम्' इति मनोमयकोशेऽध्यस्यति । एवं मनोमयकोशस्यात्मनश्चान्योन्याभ्यासः ॥

अथ विज्ञानमय कोशस्यात्मनश्चान्योन्याभ्यास उच्यते । 'अहं कर्ता' 'अहं बुद्धिमान्' 'अहमूहापोहचतुरः' 'अहमेकसन्तग्राही' 'अहं लोकान्तरगामी' 'अहं रागी' 'अहं द्वेषी' 'अहं श्रोत्रियः' 'अहं पण्डितः' 'अहं विरक्तः' 'अहं भक्तिमान्' 'अहमुपासकः' 'अहं ज्ञानी' इत्येवं विज्ञानमयकोशविकारानात्मन्यध्यस्यति । आत्मलक्षणसच्चिदानन्दान् 'मम बुद्धिरस्ति भाति प्रिया' इति विज्ञानमयकोशे चाध्यस्यति । एवं विज्ञानमयकोशस्यात्मनश्चान्योन्याभ्यासः ॥

अथानन्दमयकोशस्यात्मनश्चान्योन्याभ्यास उच्यते । 'अहं भोक्ता' 'अहं सुखी' 'अहं संतुष्टः' 'अहं सात्त्विकः' 'अहं राजसः' 'अहं तापसः' 'अहं जडः' 'अहं मूढः' 'अहं शून्यः' 'अहं दुष्टः' 'अहं मोहितः', 'अहमविवेकी' 'अहं भ्रान्तः' इत्येवमानन्दमयकोशविकारानात्मन्यध्यस्यति। आत्मनः सच्चिदानन्दांश्व 'ममाज्ञानमस्ति भाति सुखम्' इत्यानन्दमयकोशेऽध्यस्यति । एवमानन्दमयकोशस्यात्मनश्चान्योन्याभ्यासः ॥

एवं पञ्चकोशानामात्मनश्चान्योन्याभ्यासः सम्बन्धः । अयमध्यासः केनागच्छतीति चेत्, अयमात्मा, एते पञ्च कोशा', इति सम्यग्विभज्य ज्ञानाभावादविवेकेनागच्छति । तर्हि कोशानामात्मनश्च विवेकः कथमिति चेत्, उच्यते । लोके पशुपुत्रमित्रकलत्रगृहधनधान्यादिवत् 'इदं मम शरीरम्' 'अयं मम प्राणः' 'इदं मम मनः इयं मम बुद्धिः' 'इदं ममाज्ञानम्' इति 'इदं मम' इति बुद्धिविषयत्वाच्छरीरादिरूपाः पञ्च कोशा आत्मा न भवन्ति, किं तु पश्वादिवदनात्मैवेति पञ्च कोशाश्चात्मा च पृथक्पृथगिति युक्तिः । शरीररहित आत्मेति प्रतिपादिकाः 'अशरीरम्-' इत्यादिश्रुतयश्च सन्ति । पश्वादीनां क्षयवृद्ध्यादिविकारास्तत्स्वामिनं द्रष्टारं यथा न स्पृशन्तीत्यनुभवः, एवं शरीरादिपञ्चकोशविकारा द्रष्टारमात्मानं मां कदापि न स्पृशन्तीत्यनुभवः ॥

ननु हे स्वामिन् भवद्भिरुक्तपश्वादिदृशन्तस्य बाह्यत्वात्स ज्ञातुं योग्यः, दार्ष्टन्तिकस्यान्तरत्वात्स मम बुद्धिं नारोहति, किं च पञ्च कोशाः पश्वादिवत्पृथङ्नावभासन्ते, किं तु तप्तायः पिण्डवदात्मन्येकतयाऽवभासन्ते; एवं दृष्टान्तदार्ष्टान्तिकयोर्बहु वैषम्यमस्ति ; कथं तेषामात्मनः स्वप्रकाशात्पृथक्त्वेन ज्ञानमिति चेत्, शृणु । बाह्यदृष्टिनेत्रम् । सूक्ष्मदृष्टिर्बुद्धिः । बाह्यदृष्ट्या ज्ञातुमशक्या अपि पदार्था आन्तरदृष्ट्या ज्ञातुं शक्यन्ते । बाह्यवीणातन्त्र्यास्तत्स्वराणां तप्तजलादग्नेः पुष्पात्सुगन्धस्य च पृथक्त्वेन स्थूलदृष्ट्या ज्ञातुमशक्यत्वेऽपि सूक्ष्म श्रोत्रादिज्ञानेन्द्रियैर्बुद्धिमता पुरुषेण पृथक्त्वेन 'इयं वीणातन्त्री, 'इमे स्वराः' 'इदं जलम्', 'अयमग्निः' 'इदं पुष्पम्', 'अयं सुगन्धः' इति वीणादिभ्यः पृथक्त्वेन स्वरादीनां ज्ञानं सुकर । एवमेव क्षीरजलयोर्विभजनमन्येषां दुष्करमपि हंसानां सुकरम् । एतदुभयं यथा तथा आत्मनः सकाशात्पञ्चकोशानां पृथक्करणं स्थूलबुद्धीनां दुष्करमपि सूक्ष्मबुद्धीनां सुकरम् ॥

हे पुत्र, सिद्धान्तं वचः शृणु । एतावत्पर्यन्तं कालवासनया युक्तानां यः प्रपञ्चव्यवहारस्तमङ्गीकृत्य पञ्च कोशा इति तद्विवेक इति चैवमायुक्तम् । परमार्थे विचार्यमाणे आत्मनि न पञ्च कोशाः सन्ति । कथमिति चेत् । यथा रज्जौ सर्पः, शुक्तिकायां रजतम्, स्थाणौ पुरुषः, आकाशे नीलिमा, इत्येतेषां भ्रान्त्या प्रतीतिमात्रमेव न स्वरूपेणावस्थानम्, कालत्रयेऽप्यारोपितानां तेषां सर्पादीनां न वास्तवता, तथा आत्मनि पञ्च कोशा अप्यारोपिता एव न वास्तवाः । लोके यदारोपितं तदसदेव, यथा द्विचन्द्रादिकम् । तथा पञ्चकोशा अप्यात्मन्यारोपितत्वान्मिथ्याभृता एव ॥ नन्वारोपितसर्पादयोऽधिष्ठानज्ञाने सति तत्क्षणमेव न प्रतीयन्ते, पञ्च कोशास्त्वात्मज्ञाने सत्यपि प्रतीयन्त एव न नश्यन्ति तेषां कथमारोपितत्वमिति चेत, शृणु । लोके प्रातिभासिकसद्वयावहारिकसत्पारमार्थिकसदिति च त्रिविधं सत् । ईश्वरसृष्टिर्जीवसृष्टिरिति च द्विविधा सृष्टिः । एवं सत्यध्यासरूपं शुक्तिकारजतादिकं सर्वं जीवसृष्टिः । इदं प्रातिभासिकं सत् । अस्या जीवसृष्टेरधिष्ठानभूतमाकाशादिकं सर्वं व्यावहारिकं सत् । तत्सर्वमीश्वरसृष्टिः । अस्या ईश्वरसृष्टेरप्यधिष्ठानभूतं यद्ब्रह्म तत्पारमार्थिकं सत् । तदेव नित्यम् । व्यावहारिकं सद्व्यवहारक्षयपर्यन्तं तिष्ठति । प्रातिभासिकं सत्प्रतिभासक्षयपर्यन्तं तिष्ठति । प्रातिभासिकं व्यावहारिकं चाध्यस्तत्वेन समाने अपि सत्तया न समाने । किं च व्यावहारिकपपि प्रातिभासिकवदधिष्ठानज्ञानेन सद्यो नश्येद्यद्यात्मज्ञानिनो जीवन्मुक्ता अपि न स्युः, ज्ञानोपदेशगुरुशिष्यपरम्परा चापि न स्यात्, ज्ञानिनां व्यवहाराभावादज्ञानिनां चोपदेष्टुमशक्तत्वात् । तस्माद्यथा मृद्यभ्यस्तः पृथुबुध्नोदराकारो घटो यावत्कुलालव्यापारक्षयं तिष्ठति, एवमात्मन्यध्यस्ताः पञ्चकोशा मिथ्येति ज्ञाता अपि यावत्प्रारब्धक्षयं दग्धपटवत्प्रतीयन्त इति जानीहि ॥

किं बहुना ? सिद्धान्तस्त्वेवम् । मृद्यारोपिते घटनामरूपे बाधिते सति मृन्मात्रं यथा सत्यतया अवशिष्यते, एवमात्मन्यारोपितेषु पञ्चकोशेष्वात्मज्ञानेन बाधितेषु सत्सु सच्चिदानन्दरूप आत्मैक एव सत्यतया अवशिष्यत इत्येवं यो जानाति स एवात्मज्ञानी, स एव ब्रह्मज्ञानी, तस्यैव विदेहमुक्तिर्भविष्यतीति सर्वा अप्युपनिषद उद्घोषयन्ति ॥

॥ इति दशमवर्णकम् ॥